Sri Rahu Panchavimshati Nama Stotram – श्री राहु पञ्चविंशतिनाम स्तोत्रम्


राहुर्दानवमन्त्री च सिंहिकाचित्तनन्दनः ।
अर्धकायः सदा क्रोधी चन्द्रादित्यविमर्दनः ॥ १ ॥

रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुभीतिदः ।
ग्रहराजः सुधापायी राकातिथ्यभिलाषकः ॥ २ ॥

कालदृष्टिः कालरूपः श्रीकण्ठहृदयाश्रयः ।
विधुन्तुदः सैंहिकेयो घोररूपो महाबलः ॥ ३ ॥

ग्रहपीडाकरो दंष्ट्री रक्तनेत्रो महोदरः ।
पञ्चविंशतिनामानि स्मृत्वा राहुं सदा नरः ॥ ४ ॥

यः पठेन्महती पीडा तस्य नश्यति केवलम् ।
आरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा ॥ ५ ॥

ददाति राहुस्तस्मै तु यः पठेत् स्तोत्रमुत्तमम् ।
सततं पठते यस्तु जीवेद्वर्षशतं नरः ॥ ६ ॥

इति श्रीस्कन्दपुराणे श्री राहु पञ्चविंशतिनाम स्तोत्रम् ॥


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed