Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
मृगशृङ्ग उवाच ।
नारायणाय नलिनायतलोचनाय
नाथाय पत्ररथनायकवाहनाय ।
नालीकसद्मरमणीयभुजान्तराय
नव्याम्बुदाभरुचिराय नमः परस्मै ॥ १ ॥
ओं नमो वासुदेवाय लोकानुग्रहकारिणे ।
धर्मस्य स्थापनार्थाय यथेच्छवपुषे नमः ॥ २ ॥
सृष्टिस्थित्यनुसंहारान् मनसा कुर्वते नमः ।
संहृत्य सकलान् लोकान् शायिने वटपल्लवे ॥ ३ ॥
सदानन्दाय शान्ताय चित्स्वरूपाय विष्णवे ।
स्वेच्छाधीनचरित्राय निरीशायेश्वराय च ॥ ४ ॥
मुक्तिप्रदायिने सद्यो मुमुक्षूणां महात्मनाम् ।
वसते भक्तचित्तेषु हृदये योगिनामपि ॥ ५ ॥
चराचरमिदं कृत्स्नं तेजसा व्याप्य तिष्ठते ।
विश्वाधिकाय महतो महतेऽणोरणीयसे ॥ ६ ॥
स्तूयमानाय दान्ताय वाक्यैरुपनिषद्भवैः ।
अपारघोरसंसारसागरोत्तारहेतवे ॥ ७ ॥
नमस्ते लोकनाथाय लोकातीताय ते नमः ।
नमः परमकल्याणनिधये परमात्मने ॥ ८ ॥
अच्युतायाप्रमेयाय निर्गुणाय नमो नमः ।
नमः सहस्रशिरसे नमः सततभास्वते ॥ ९ ॥
नमः कमलनेत्राय नमोऽनन्ताय विष्णवे ।
नमस्त्रिमूर्तये धात्रे नमस्त्रियुगशक्तये ॥ १० ॥
नमः समस्तसुहृदे नमः सततजिष्णवे ।
शङ्खचक्रगदापद्मधारिणे लोकधारिणे ॥ ११ ॥
स्फुरत्किरीटकेयूरमुकुटाङ्गदधारिणे ।
निर्द्वन्द्वाय निरीहाय निर्विकाराय वै नमः ॥ १२ ॥
पाहि मां पुण्डरीकाक्ष शरण्य शरणागतम् ।
त्वमेव सर्वभूतानामाश्रयः परमा गतिः ॥ १३ ॥
त्वयि स्थितं यथा चित्तं न मे चञ्चलतां व्रजेत् ।
तथा प्रसीद देवेश शरण्यं त्वाऽऽगतोऽस्म्यहम् ।
नमस्तुभ्यं नमस्तुभ्यं भूयो भूयो नमो नमः ॥ १४ ॥
इति श्रीपद्मपुराणे उत्तरखण्डे द्वाविंशत्यधिकद्विशततमोऽध्याये मृगशृङ्ग कृत श्री नारायण स्तोत्रम् ॥
इतर श्री विष्णु स्तोत्राणि पश्यतु |
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.