Sri Venkateshwara Dwadasa Manjarika Stotram – श्री वेङ्कटेश्वर द्वादशमञ्जरिका स्तोत्रम्


श्रीकल्याणगुणोल्लासं चिद्विलासं महौजसम् ।
शेषाद्रिमस्तकावासं श्रीनिवासं भजामहे ॥ १ ॥

वाराहवेषभूलोकं लक्ष्मीमोहनविग्रहम् ।
वेदान्तगोचरं देवं वेङ्कटेशं भजामहे ॥ २ ॥

साङ्गानामर्चिताकारं प्रसन्नमुखपङ्कजम् ।
विश्वविश्वम्भराधीशं वृषाद्रीशं भजामहे ॥ ३ ॥

कनत्कनकवेलाढ्यं करुणावरुणालयम् ।
श्रीवासुदेव चिन्मूर्तिं शेषाद्रीशं भजामहे ॥ ४ ॥

घनाघनं शेषाद्रिशिखरानन्दमन्दिरम् ।
श्रितचातक संरक्षं सिंहाद्रीशं भजामहे ॥ ५ ॥

मङ्गलप्रदं पद्माक्षं कस्तूरीतिलकोज्ज्वलम् ।
तुलस्यादि मनःपूज्यं तीर्थाद्रीशं भजामहे ॥ ६ ॥

स्वामिपुष्करिणीतीर्थवासं व्यासादिवर्णितम् ।
स्वाङ्घ्रीसूचितहस्ताब्जं सत्यरूपं भजामहे ॥ ७ ॥

श्रीमन्नारायणं श्रीशं ब्रह्माण्डासनतत्परम् ।
ब्रह्मण्यं सच्चिदानन्दं मोहातीतं भजामहे ॥ ८ ॥

अञ्जनाद्रीश्वरं लोकरञ्जनं मुनिरञ्जनम् ।
भक्तार्तिभञ्जनं भक्तपारिजातं तमाश्रये ॥ ९ ॥

भिल्ली मनोहर्यं सत्यमनन्तं जगतां विभुम् ।
नारायणाचलपतिं सत्यानन्दं तमाश्रये ॥ १० ॥

चतुर्मुखत्र्यम्बकाढ्यं सन्नुतार्य कदम्बकम् ।
ब्रह्मप्रमुखनित्रानं प्रधानपुरुषाश्रये ॥ ११ ॥

श्रीमत्पद्मासनाग्रस्थ चिन्तितार्थप्रदायकम् ।
लोकैकनायकं श्रीमद्वेङ्कटाद्रीशमाश्रये ॥ १२ ॥

वेङ्कटाद्रिहरेः स्तोत्रं द्वादशश्लोकसम्युतम् ।
यः पठेत् सततं भक्त्या तस्य मुक्तिः करेस्थिता ॥ १३ ॥

सर्वपापहरं प्राहुः वेङ्कटेशस्तदोच्यते ।
त्वन्नामको वेङ्कटाद्रिः स्मरतो वेङ्कटेश्वरः ।
सद्यः संस्मरणादेव मोक्षसाम्राज्यमाप्नुयात् ॥ १४ ॥

वेङ्कटेशपदद्वन्द्यं स्मरामि व्रजामि सदा ।
भूयाः शरण्यो मे साक्षाद्देवेशो भक्तवत्सलः ॥ १५ ॥

इति श्री वेङ्कटेश्वर द्वादशमञ्जरिका स्तोत्रम् ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed