Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीर्विष्णुः कमला शार्ङ्गी लक्ष्मीर्वैकुण्ठनायकः ।
पद्मालया चतुर्बाहुः क्षीराब्धितनयाऽच्युतः ॥ १ ॥
इन्दिरा पुण्डरीकाक्षा रमा गरुडवाहनः ।
भार्गवी शेषपर्यङ्को विशालाक्षी जनार्दनः ॥ २ ॥
स्वर्णाङ्गी वरदो देवी हरिरिन्दुमुखी प्रभुः ।
सुन्दरी नरकध्वंसी लोकमाता मुरान्तकः ॥ ३ ॥
भक्तप्रिया दानवारिः अम्बिका मधुसूदनः ।
वैष्णवी देवकीपुत्रो रुक्मिणी केशिमर्दनः ॥ ४ ॥
वरलक्ष्मी जगन्नाथः कीरवाणी हलायुधः ।
नित्या सत्यव्रतो गौरी शौरिः कान्ता सुरेश्वरः ॥ ५ ॥
नारायणी हृषीकेशः पद्महस्ता त्रिविक्रमः ।
माधवी पद्मनाभश्च स्वर्णवर्णा निरीश्वरः ॥ ६ ॥
सती पीताम्बरः शान्ता वनमाली क्षमाऽनघः ।
जयप्रदा बलिध्वंसी वसुधा पुरुषोत्तमः ॥ ७ ॥
राज्यप्रदाऽखिलाधारो माया कंसविदारणः ।
महेश्वरी महादेवो परमा पुण्यविग्रहः ॥ ८ ॥
रमा मुकुन्दः सुमुखी मुचुकुन्दवरप्रदः ।
वेदवेद्याऽब्धिजामाता सुरूपाऽर्केन्दुलोचनः ॥ ९ ॥
पुण्याङ्गना पुण्यपादो पावनी पुण्यकीर्तनः ।
विश्वप्रिया विश्वनाथो वाग्रूपी वासवानुजः ॥ १० ॥
सरस्वती स्वर्णगर्भो गायत्री गोपिकाप्रियः ।
यज्ञरूपा यज्ञभोक्ता भक्ताभीष्टप्रदा गुरुः ॥ ११ ॥
स्तोत्रक्रिया स्तोत्रकारः सुकुमारी सवर्णकः ।
मानिनी मन्दरधरो सावित्री जन्मवर्जितः ॥ १२ ॥
मन्त्रगोप्त्री महेष्वासो योगिनी योगवल्लभः ।
जयप्रदा जयकरः रक्षित्री सर्वरक्षकः ॥ १३ ॥
अष्टोत्तरशतं नाम्नां लक्ष्म्या नारायणस्य च ।
यः पठेत् प्रातरुत्थाय सर्वदा विजयी भवेत् ॥ १४ ॥
इति श्री लक्ष्मीनारायणाष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री लक्ष्मी स्तोत्राणि पश्यतु । इतर श्री विष्णु स्तोत्राणि पश्यतु ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.