Sri Ganesha Tapini Upanishad – गणेशतापिन्युपनिषत्


॥ अथ गणेशपूर्वतापिन्युपनिषत् ॥

गणेशं प्रमथाधीशं निर्गुणं सगुणं विभुम् ।
योगिनो यत्पदं यान्ति तं गौरीनन्दनं भजे ॥

ओं नमो वरदाय विघ्नहर्त्रे ॥ अथातो ब्रह्मोपनिषदं व्याख्यास्यामः । ब्रह्मा देवानां सवितुः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । धाता वसूनां सुरभिः सृजानां नमो ब्रह्मणेऽथर्वपुत्राय मीढुषे ॥ धाता देवानां प्रथमं हि चेतो मनो वनानीव मनसाऽकल्पयद्यः । नमो ब्रह्मणे ब्रह्मपुत्राय तुभ्यं ज्येष्ठायाथर्वपुत्राय धन्विने ॥ १ ॥

ओं प्रजापतिः प्रजा असृजत । ताः सृष्टा अब्रुवन् कथमन्नाद्या अभवन्निति । स त्रेधा व्यभजद्भूर्भुवःस्वरिति । स तपोऽतप्यत । स ब्रह्मा स विष्णुः स शिवः स प्रजापतिः सेन्द्रः सोऽग्निः समभवत् । स तूष्णीं मनसा ध्यायन् कथमिमेऽन्नाद्याः स्युरिति । सोऽपश्यदात्मनाऽऽत्मानं गजरूपधरं देवं शशिवर्णं चतुर्भुजं यतो वा इमानि भूतानि जायन्ते यतो वायन्ति यत्रैव यन्ति च । तदेतदक्षरं परं ब्रह्म । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुरापो ज्योतिः पृथिवी विश्वस्य धारिणी । पुरुष एवेदं विश्वं तपो ब्रह्म परामृतमिति ॥ २ ॥

सोऽस्तुवत नमो ब्रह्मणे नमो ब्राह्मणेभ्यो नमो वेदेभ्यो नम ऋषिभ्यो नमः कुल्येभ्यः प्रकुल्येभ्यो नमः सवित्रे प्रसवित्रे नमो भोज्याय प्रकृष्टाय कपर्दिने चक्राय चक्रधरायान्नायान्नपतये शिवाय सदाशिवाय तुर्याय तुरीयाय भूर्भुवःस्वःपते रायस्पते वाजिपते गोपते ऋग्यजुःसामाथर्वाङ्गिरःपते नमो ब्रह्मपुत्रायेति ॥ ३ ॥

सोऽब्रवीद्वरदोऽस्म्यहमिति । स प्रजापतिरब्रवीत्कथमिमेऽन्नाद्याः स्युरिति । स होवाच ब्रह्मपुत्रस्तपस्तेपे सिद्धक्षेत्रे महायशाः । स सर्वस्य वक्ता सर्वस्य ज्ञातासीति । स होवाच तपस्यन्तं सिद्धारण्ये भृगुपुत्रं पृच्छध्वमिति । ते प्रत्याययुः । स होवाच किमेतदिति । ते होचुः कथं वयमन्नाद्या भवाम इति । स तूष्णीं मनसा ध्यायन् कथमिमेऽन्नाद्याः स्युरिति । स एतमानुष्टुभं मन्त्रराजमपश्यत् । यदिदं किञ्च सर्वमसृजत । तस्मात्सर्वानुष्टुभमित्याचक्षते यदिदं किञ्च । अनुष्टुभा वा इमानि भूतानि जायन्ते । अनुष्टुभा जातानि जीवन्त्यनुष्टुभं प्रयन्त्यभिसंविशन्ति । तस्यैषा भवति अनुष्टुप्प्रथमा भवत्यनुष्टुबुत्तमा भवति । वाग्वा अनुष्टुब्वाचैव प्रयन्ति वाचैवोद्यन्ति । परमा वा एषा छन्दसां यदनुष्टुप् । सर्वमनुष्टुप् । एतं मन्त्रराजं यः पश्यति स पश्यति । स भुक्तिं मुक्तिं च विन्दति । तेन सर्वज्ञानं भवति । तदेतन्निदर्शनं भवति ; एको देवः प्रापको यो वसूनां श्रिया जुष्टः सर्वतोभद्र एषः । मायादेवो बलगहनो ब्रह्मारातीस्तं देवमीडे दक्षिणास्यम् ॥ आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सङ्गृभाय । महाहस्ती दक्षिणेन ॥ इति सहस्रकृत्वस्तुष्टाव ॥ ४ ॥

अथापश्यन्महादेवं श्रिया जुष्टं मदोत्कटम् । सनकादिमहायोगिवेदविद्भिरुपासितम् ॥ द्रुहिणादिमदेवेशषट्पदालिविराजितम् । लसत्कर्णं महादेवं गजरूपधरं शिवम् ॥ स होवाच वरदोऽस्मीति । स तूष्णीं मनसा वव्रे । स तथेति होवाच । तदेष श्लोकः ; स संस्तुतो दैवतदेवसूनुः सुतं भृगोर्वाक्यमुवाच तुष्टः । अवेहि मां भार्गव वक्रतुण्डमनाथनाथं त्रिगुणात्मकं शिवम् ॥
अथ तस्य षडङ्गानि प्रादुर्बभूवुः । स होवाच जपध्वमानुष्टुभं मन्त्रराज षट्पदं सषडक्षरम् । इति यो जपति स भूतिमान् भवतीति यूयमन्नाद्या भवेयुरिति । तदेतन्निदर्शनम् ; गणानां त्वा गणनाथं सुरेन्द्रं कविं कवीनामतिमेधविग्रहम् । ज्येष्ठराजं वृषभं केतुमेकं सा नः शृण्वन्नूतिभिः सीद शाश्वत् ॥ ५ ॥

ते होचुः कथमानुष्टुभं मन्त्रराजमभिजानीम इति । स एतमानुष्टुभं षट्पदं मन्त्रराज कथयाञ्चक्रे । स साम भवति । ऋग्वै गायत्री यजुरुष्णिगनुष्टुप् साम । स आदित्यो भवति । ऋग्वै वसुर्यजू रुद्राः सामादित्या इति । स षट्पदो भवति । साम वै षट्पदः । ससागरां सप्तद्वीपां सपर्वतां वसुन्धरां तत्साम्नः प्रथमं पादं जानीयाद्रायस्पोषस्य दातेति । तेन सप्तद्वीपाधिपो भवति भूःपतित्वं च गच्छति । यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षं द्वितीयं पादं जानीयान्निधिदातेति । तेन धनदादिकाष्ठापतिर्भवति भुवःपतित्वं च गच्छति । वसुरुद्रादित्यैः सर्वैर्देवैः सेवितं दिवं तत्साम्नस्तृतीयं पादं जानीयादन्नदो मत इति । तेन देवाधिपत्यं स्वःपतित्वं च गच्छति । ऋग्यजुःसामाथर्वाङ्गिरोगणसेवितं ब्रह्मलोकं तुर्यं पादं जानीयाद्रक्षोहण इति । तेन देवाधिपत्यं ब्रह्माधिपत्यं च गच्छति । वासुदेवादिचतुर्व्यूहसेवितं विष्णुलोकं तत्साम्नः पञ्चमं पादं जानीयाद्बलगहन इति । तेन सर्वदेवाधिपत्यं विष्णुलोकाधिपत्यं च गच्छति । ब्रह्मस्वरूपं निरञ्जनं परमव्योम्निकं तत्साम्नः षष्ठं पादं जानीयात् । तेन वक्रतुण्डाय हुमिति यो जानीयात्सोऽमृतत्वं च गच्छति । सत्यलोकाधिपत्यं च गच्छति ॥ ६ ॥

ऋग्यजुःसामाथर्वाश्चत्वारः पादा भवन्ति । रायस्पोषस्य दाता चेति प्रथमः पादो भवति ऋग्वै प्रथमः पादः । निधिदाताऽन्नदो मत इति द्वितीयः पादः यजुर्वै द्वितीयः पादः । रक्षोहणो वो बलगहन इति तृतीयः पादः साम वै तृतीयः पादः । वक्रतुण्डाय हुमिति चतुर्थः पादः अथर्वश्चतुर्थः पादोऽथर्वश्चतुर्थः पाद इति ॥ ७ ॥

इति गणेशपूर्वतापिन्युपनिषत्सु प्रथमोपनिषत् ॥ १ ॥

——-

स होवाच प्रजापतिरग्निर्वै वेदा इदं सर्वं विश्वानि भूतानि विराट् स्वराट् सम्राट् तत्साम्नः प्रथमं पादं जानीयात् । ऋग्यजुःसामाथर्वरूपः सूर्योऽन्तरादित्ये हिरण्मयः पुरुषस्तत्साम्नो द्वितीयं पादं जानीयात् । य ओषधीनां प्रभविता तारापतिः सोमस्तत्साम्नस्तृतीयं पादं जानीयात् । यो ब्रह्मा तत्साम्नश्चतुर्थं पादं जानीयात् । यो हरिस्तत्साम्नः पञ्चमं पादं जानीयात् । यः शिवः स परं ब्रह्म तत्साम्नोऽन्त्यं पादं जानीयात् । यो जानीते सोऽमृतत्वं च गच्छति परं ब्रह्मैव भवति । तस्मादिदमानुष्टुभं साम यत्र क्वचिन्नाचष्टे । यदि दातुमपेक्षते पुत्राय शुश्रूषवे दास्यत्यन्यस्मै शिष्याय वेति ॥ १ ॥

तस्य हि षडङ्गानि भवन्ति ; ओं हृदयाय नमः, शिरसे स्वाहा, शिखायै वषट्, कवचाय हुम् । नेत्रत्रयाय वौषट्, अस्त्राय फडिति प्रथमं प्रथमेन द्वितीयं द्वितीयेन तृतीयं तृतीयेन चतुर्थं चतुर्थेन पञ्चमं पञ्चमेन षष्ठं षष्ठेन प्रत्यक्षरमुभयतो माया लक्ष्मीश्च भवति । माया वा एषा वैनायकी सर्वमिदं सृजति सर्वमिदं रक्षति सर्वमिदं संहरति तस्मान्मायामेतां शक्तिं वेद । स मृत्युं जयति । स पाप्मानं तरति । स महतीं श्रियमश्नुते । सोऽभिवादी षट्कर्मसंसिद्धो भवत्यमृतत्वं च गच्छति । मीमांसन्ते ब्रह्मवादिनो ह्रस्वा वा दीर्घा वा प्लुता वेति । यदि ह्रस्वा भवति सर्वपाप्मानं तरत्यमृतत्वं च गच्छति । यदि दीर्घा भवति महतीं श्रियमाप्नुयादमृतत्वं च गच्छति । यदि प्लुता भवति ज्ञानवान् भवत्यमृतत्वं च गच्छति । तदेतदृषिणोक्तं निदर्शनम् ; स ईं पाहि य ऋजीषी तरुद्रः स श्रियं लक्ष्मीमौपलांबिकां गाम् । षष्ठीं च यामिन्द्रसेनेत्युत आहुस्तां विद्यां ब्रह्मयोनिस्वरूपाम् ॥ तामिहायुषे शरणं प्रपद्ये । क्षीरोदार्णवशायिनं कल्पद्रुमाधःस्थितं वरदं व्योमरूपिणं प्रचण्डदण्डदोर्दण्डं वक्रतुण्डस्वरूपिणं पार्श्वाधःस्थितकामधेनुं शिवोमातनयं विभुम् । रुक्मांबरनिभाकाशं रक्तवर्णं चतुर्भुजम् । कपर्दिनं शिवं शान्तं भक्तानामभयप्रदम् ॥
उन्नतप्रपदाङ्गुष्ठं गूढगुल्फं सपार्ष्णिकम् । पीनजङ्घं गूढजानुं स्थूलोरुं प्रोन्नमत्कटिम् ॥
निम्ननाभिं कंबुकण्ठं लंबोष्ठं लंबनासिकम् । सिद्धिबुद्ध्युभयाश्लिष्टं प्रसन्नवदनांबुजम् ॥
इति संसर्गः ॥ २ ॥

अथ छन्दोदैवतम् । अनुष्टुप्छन्दो भवति द्वात्रिंशदक्षरानुष्टुब भवति । अनुष्टुभा सर्वमिदं सृष्टमनुष्टुभा सर्वमुपसंहृतम् । शिवोमायुतः परमात्मा वरदो देवता । ते होचुः कथं शिवोमायुत इति । स होवाच भृगुपुत्रः प्रकृतिपुरुषमयो हि स धनद इति प्रकृतिर्माया पुरुषः शिव इति । सोऽयं विश्वात्मा देवतेति । तदेतन्निदर्शनम् ; इन्द्रो मायाभिः पुरुहूत ईडे शर्वो विश्वं मायया स्विद्दधार । सोऽजः शेते मायया स्विद्गुहायां विश्वं न्यस्तं विष्णुरेको विजज्ञे ॥ तदेतन्माया हंसमयी देवानाम् ॥
सर्वेषां वा एतद्भूतानामाकाशः परायणम् । सर्वाणि ह वा इमानि भूतान्याकाशादेव जायन्ते जातानि जीवन्त्याकाशं प्रयन्त्यभिसंविशन्ति । तस्मादाकाशबीजं शिवो विद्यात् । तदेतन्निदर्शनम् ; हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहदिति ॥ ३ ॥

अथाधिष्ठानम् ; मध्ये बिन्दुं त्रिकोणं तदनु ऋतुगणं वसुदलं द्वादशारं षोडशकर्णिकेति । मध्ये बीजात्मकं देवं यजेत् । वामदक्षिणे सिद्धिर्बुद्धिः । अग्रे कामदुघा षट्कोणे सुमुखादयः षड्विनायकाः । वसुदले वक्रतुण्डाद्यष्टविनायकाः । द्वादशारे बटुको वामनो महादशकमहोदरौ सुभद्रो माली वरो राम उमा शिवः स्कन्दो नन्दी । तद्बाह्येऽणिमादिसिद्धयः । षोडशारे दिक्पालाः सायुधा इति ॥ ४ ॥

अथ प्रसारः ; य एतेन चतुर्थीषु पक्षयोरुभयोरपि । लक्षं जुहुयादपूपानां तत्क्षणाद्धनदो भवेत् ॥ सिद्धौदनं त्रिमासं तु जुह्वदग्नावनन्यधीः । तावज्जुह्वत्पृथुकान्हि साक्षाद्वैश्रवणो भवेत् ॥ उच्चाटयेद्विभीतैश्च मारयेद्विषवृक्षजैः । वश्याय पङ्कजैर्विद्वान्धनार्थी मोदकैर्हुनेत् ॥ एवं ज्ञात्वा कृतकर्मा भवति कृतकर्मा भवतीति ॥ ५ ॥

इति गणेशपूर्वतापिन्युपनिषत्सु द्वितीयोपनिषत् ॥ २ ॥

——-

अथ होवाच भृगुपुत्रस्तन्त्रं विजिज्ञासितव्यमिति । मूले शून्यं विजानीयात् । शून्यं वै परं ब्रह्म । तत्र सतारं समायं साम न्यसेत्त्रिरेखं भवति त्रयो हीमे लोकास्त्रयो हीमे वेदाः । ऋग्वै भूः सा माया भवति । यजुर्वै भुवः स शिवो भवति । साम वै स्वः स हिरण्यगर्भो भवति । षट्कोणं भवति षड् हीमे लोकाः षड्ढा ऋतवो भवन्ति । तत्र तारमायारमामारविश्वेशधरणीक्रमान्न्यसेत् । अष्टपत्रं भवत्यष्टाक्षरा गायत्री भवति ब्रह्मगायत्रीं न्यसेत् । द्वादशपत्र भवति द्वादशादित्या भवन्ति ते स्वरा भवन्ति । स्वरान् ज्ञात्वादित्यलोकमश्नुते । षोडशपत्रं भवति षोडशकलो वै पुरुषो वर्णो ह वै पुरुषः स लोकाधिष्ठितो भवत्यनुष्टुब् वै पुरुषः ॥ १ ॥

स होवाच भृगुपुत्र एतमानुष्टुभं मन्त्रराजं साङ्गं सप्रसृतिकं समायं साधिष्ठानं सतन्त्रं यो जानाति स भूतिमान् भवति सोऽमृतत्वं च गच्छति सोऽमृतत्वं च गच्छतीति ॥ २ ॥

इति गणेशपूर्वतापिन्युपनिषत्सु तृतीयोपनिषत् ॥ ३ ॥

इत्याथर्वणीया गणेशपूर्वतापिन्युपनिषत्समाप्ता ॥

——

॥ अथ गणेशोत्तरतापिन्युपनिषत् ॥

ओं ॥ ओमित्येकाक्षरं ब्रह्मेदं सर्वम् । तस्योपव्याख्यानम् । सर्वं भूतं भव्यं भविष्यदिति सर्वमोङ्कार एव । एतच्चान्यच्च त्रिकालातीतं तदप्योङ्कार एव । सर्वं ह्येतद्गणेशोऽयमात्मा ब्रह्मेति । सोऽयमात्मा चतुष्पात् । जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः । स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः । यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तिस्थान एकीभूतः प्रज्ञानघन एवानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः । एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् । नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृष्ट-मव्यवहार्यमग्राह्यमलक्षण-मचिन्त्यमव्यपदेश्य-मैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते स गणेश आत्मा विज्ञेयः । सदोज्ज्वलो विद्यातत्कार्यहीनः स्वात्मबन्धरहितः सर्वदोषरहित आनन्दरूपः सर्वाधिष्ठानः सन्मात्रो निरस्ताविद्यातमोमोहमेवेति संभाव्याहमों तत्सत्परं ब्रह्म विघ्नराजश्चिदात्मकः सोऽहमों तद्विनायकं परं ज्योती रसोऽहमित्यात्मानमादाय मनसा ब्रह्मणैकीकुर्यात् । विनायकोऽहमित्येतत्तत्त्वतः प्रवदन्ति ये । न ते संसारिणो नूनं प्रमोदो वै न संशयः ॥ इत्युपनिषत् । य एवं वेद स मुख्यो भवतीति याज्ञवल्क्य इति याज्ञवल्क्य इति । एतदेव परं ध्यानमेतदेव परं तपः । विनायकस्य यज्ज्ञानं पूजनं भवमोचनम् ॥ अश्वमेधसहस्राणि वाजपेयशतानि च । एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥

इति गणेशोत्तरतापिन्युपनिषत्सु प्रथमोपनिषत् ॥ १ ॥

—–

ओं ॥ स विष्णुः स शिवः स ब्रह्मा सेन्द्रः सेन्दुः स सूर्यः स वायुः सोऽग्निः स ब्रह्मायमात्मने सर्वदेवाय आत्मने भूताय आत्मन इति मन्यन्ते । ओं सोऽहं ओं सोऽहं ओं सोऽहमिति । ओं ब्रह्मन् ओं ब्रह्मन् ओं ब्रह्मन्निति । ओं शिवं ओं शिवं ओं शिवमिति । तं गणेशं तं गणेशमिदं श्रेष्ठम् । ओं गणानां त्वा गणपतिः । सप्रियाणां त्वा प्रियपतिः । सनिधीनां त्वा निधिपतिः । ओं तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् । ओं तद्गणेशः । ओं सद्गणेशः । ओं परं गणेशः । ओं ब्रह्म गणेशः । गणनाकारो नादः । एतत्सर्वो नादः । सर्वाकारो नादः । एतदाकारो नादः । महान्नादः । स गणेशो महान् भवति । सोऽणुर्भवति । स वन्द्यो भवति । स मुख्यो भवति । स पूज्यो भवति । रूपवान् भवति । अरूपवान् भावति । द्वैतो भवति । अद्वैतो भवति । स्थावरस्वरूपवान् भवति । जङ्गमस्वरूपवान् भवति । सचेतनविचेतनो भवति । सर्वं भवति । स गणेशोऽव्यक्तो योऽणुर्यः श्रेष्ठः स वै वेगवत्तरः । अह्रस्वाह्रस्वश्च । अतिह्रस्वातिह्रस्वातिह्रस्वश्च । अस्थूलास्थूलास्थूलश्च । ओं न वायुर्नाग्निर्नाकाशो नापः पृथिवी न च । न दृश्यं न दृश्यं न दृश्यम् । न शीतं नोष्णं न वर्षं च । न पीतं न पीतं न पीतम् । न श्वेतं न श्वेतं न श्वेतम् । न रक्तं न रक्तं न रक्तं । न कृष्णं न कृष्णं न कृष्णम् । न रूपं न नाम न गुणम् । न प्राप्यं गणेशं मन्यन्ते । स शुद्धः स शुद्धः स शुद्धो गणेशः । स ब्रह्म स ब्रह्म स ब्रह्म गणेशः । स शिवः स शिवः स शिवो गणेशः । इन्द्रो गणेशो विष्णुर्गणेशः सूर्यो गणेश एतत्सर्वं गणेशः । स निर्गुणः स निरहङ्कारः स निर्विकल्पः स निरीहः स निराकार आनन्दरूपस्तेजोरूपमनिर्वाच्यमप्रमेयः पुरातनो गणेशो निगद्यते । स आद्यः सोऽक्षरः सोऽनन्तः सोऽव्ययो महान्पुरुषः । तच्छुद्धं तच्छबलं ततः प्रकृतिमहत्तत्त्वानि जायन्ते । ततश्चाहङ्कारादि पञ्चतन्मात्राणि जायन्ते । ततः पृथ्व्यप्तेजोवाय्वाकाश पञ्चमहद्भूतानि जायन्ते । पृथिव्या ओषधय ओषधीभ्योऽन्नमन्नाद्रेतस्ततः पुरुषस्ततः सर्वं ततः सर्वं ततः सर्वं ततः सर्वं जगत् । सर्वाणि भूतानि जायन्ते । देवा नु जायन्ते । ततश्च जीवन्ति । देवा नु जीवन्ति । यज्ञा नु जीवन्ति । सर्वं जीवति । स गणेश आत्मा विज्ञेयः । इत्युपनिषत् । य एवं वेद स मुख्यो भवतीति याज्ञवल्क्य इति याज्ञवल्क्य इति ॥

इति गणेशोत्तरतापिन्युपनिषत्सु द्वितीयोपनिषत् ॥ २ ॥

—–

ओं ॥ गणेशो वै ब्रह्म तद्विद्यात् । यदिदं किञ्च सर्वं भूतं भव्यं जायमानं च तत्सर्वमित्याचक्षते । अस्मान्नातः परं किञ्चित् । यो वै वेद स वेद ब्रह्म ब्रह्मैवोपाप्नोति । तत्सर्वमित्याचक्षते । ब्रह्मविष्ण्वादिगणानामीशभूतमित्याह तद्गणेश इति । तत्परमित्याह यमेते नाप्नुवन्ति पृथिवी सुवर्चा युवतिः सजोषाः । यद्वै वाङ् नाक्रामति मनसा सह नाग्निर्न पृथ्वी न तेजो न वायुर्न व्योम न जलमित्याह । नेन्द्रियं न शरीरं न नाम न रूपम् । न शुक्लं न रक्तं न पीतं न कृष्णमिति । न जाग्रन्न स्वप्नो न सुषुप्तिर्न वै तुरीया । तच्छुद्धमप्राप्यमप्राप्यं च । अज्ञेयं चाज्ञेयं च । विकल्पासहिष्णु तत्सशक्तिकं गजवक्त्रं गजाकारं जगदेवावरुन्धे । दिवमनन्तशीर्षैर्दिशमनन्तकरैर्व्योमानन्त-जठरैर्महीमनन्तपादैः स्वतेजसा बाह्यान्तरीयान्व्याप्य तिष्ठतीत्याह । तद्वै परं ब्रह्म गणेश इत्यात्मानं मन्यन्ते । तद्वै सर्वतः पश्यति स्म न किञ्चिद्ददर्श । ततो वै सोऽहमभूत् । नैकाकिता युक्तेति गुणान्निर्ममे । नामे रजः स वै ब्रह्मा । मुखात्सत्त्वं स वै विष्णुः । नयनात्तमः स वै हरः । ब्रह्माणमुपदिशति स्म ब्रह्मन् कुरु सृष्टिम् । ब्रह्मोवाच नाहं वेद्मि । गणेश उवाच मद्देहे ब्रह्माण्डान्तर्गतं विलोकय तथाविधामेव कुरु सृष्टिम् । अथ ब्रह्मा जन्मद्वारेण ब्रह्माण्डान्तर्गतं विलोकयति स्म । समुद्रान् सरितः पर्वतान् वनानि महीं दिवं पातालं च नरान् पशून्मृगान्नागान् हयान् गोव्रजान् सूर्याचन्द्रमसो नक्षत्राण्यग्नीन् वायून्दिशस्ततो वै सृष्टिमचीकरत् । ततश्चात्मानमिति मन्यते स्म । न वै मत्तः परं किञ्चिदहमेव सर्वस्येश इति यावद्वदति तावत्क्रूरा अजायेरन् । महद्देहा जिह्वया भुवं लिहाना दंष्ट्राव्याप्ताकाशा महच्छब्दा ब्रह्माणं हन्तुमुद्युक्ताः । तान्दृष्ट्वाबिभ्यत्तत्संस्मार । ततश्चाग्रे कोटिसूर्यप्रतीकाशमानन्दरूपं गजवक्त्रं विलोकयति स्म । तुष्टावाथ गणेश्वरम् । त्वं निर्माता क्ष्माभृतां सरितां सागराणां स्थावराणां जङ्गमानां च । त्वत्तः परतरं किञ्चिन्नैवास्ति जगतः प्रभो । कर्ता सर्वस्य विश्वस्य पातसंहारकारकः ।
भवानिदं जगत्सर्वं व्याप्यैव परितिष्ठति ॥ इति स्तुत्वा ब्रह्माणं तदुवाच ब्रह्मंस्तपस्व तपस्वेत्युक्त्वाऽन्तर्हिते तस्मिन् ब्रह्मा तपश्चचार । कियत्स्वतीतेष्वनेहःसु तपसि स्थिते ब्रह्मणि पुरो भूत्वोवाच । प्रसन्नोऽहं प्रसन्नोऽहं वरान् वरय । श्रुत्वैवं वचोन्मील्य नयने यावत्पुरः पश्यति तावद्गणेशं ददर्श । स्तौति स्म । त्वं ब्रह्मा त्वं विष्णुस्त्वं हरस्त्वं प्रजापतिस्त्वमिन्द्रस्त्वं सूर्यस्त्वं सोमस्त्वं गणेशः । त्वया व्याप्तं चराचरं त्वदृते न हि किञ्चन । ततश्च गणेश उवाच । त्वं चाहं च न वै भिन्नौ कुरु सृष्टिं प्रजापते । शक्तिं गृहाण मद्दत्तां जगत्सर्जनकर्मणि ॥ ततो वै गृहीतायां शस्त्वा ब्रह्मणः सृष्टिरजायत । ब्राह्मणो वै मुखाज्जज्ञे बाह्वोः क्षत्रमूर्वोर्वैश्यः पद्भ्यां शूद्रश्चक्षुषो वै सूर्यो मनश्चन्द्रमा अग्निर्वै मुखात्प्राणाद्वायुर्नाभेर्व्योम शीर्ष्णो द्यौः पद्भ्यां भूमिर्दिशः श्रोत्रात् । तथा लोकानकल्पयन्निति । ततो वै सत्त्वमुवाच त्वं वै विष्णुः पाहि पाहि जगत्सर्वम् । विष्णुरुवाच न मे शक्तिः । सोवाच गृहाणेमां विद्याम् । ततो वै सत्त्वं तामादाय जगत्पाति स्म । हरमुवाच कुरु हर संहारम् । जगद्धरणाद्धरो भव । हरश्चात्मानमित्यवैति स्म न वै मत्परं किञ्चिद्विश्वस्यादिरहं हर इति गर्वं दधौ यावत्तावद्व्याप्तं व्योम गजवक्त्रैर्महच्छब्दैर्हरं हर्तुमुद्युक्तैः । हरो वै विलोक्य रुदति स्म । रोदनाद्रुद्रसंज्ञः । ततस्तं पुरुषं स्मृत्वा तुष्टाव त्वं ब्रह्मा त्वं कर्ता त्वं प्रधानं त्वं लोकान् सृजसि रक्षसि हरसि ।
विश्वाधारस्त्वमनाधारोऽनाधेयोऽनिर्देश्योऽप्रतर्क्यो व्याप्येदं सर्वं तिष्ठसीति स्तवनाद्विनायकं ददर्श । ततश्च तं ननाम । गणेश उवाच कुरु हर हरणम् । तद्वै संहर्ताऽभूद्रुद्रः । य एवं वेद स गणेशो भवति । इत्युपनिषत् ॥

इति गणेशोत्तरतापिन्युपनिषत्सु तृतीयोपनिषत् ॥ ३ ॥

—–

ओं ॥ गणेशो वै सदजायत तद्वै परं ब्रह्म । तद्विदाप्नोति परम् । तदेषाभ्युक्ता यदनादिभूतं यदनन्तरूपं यद्विज्ञानरूपं यद्देवाः सर्वे ब्रह्म ज्येष्ठमुपासते न वै कार्यं करणं न तत्समश्चाधिकश्च दृश्यः । सूर्योऽस्माद्भीत उदेति । वातोऽस्माद्भीतः पवते । अग्निर्वै भीतस्तिष्ठति । तच्चित्स्वरूपं निर्विकारमद्वैतं च । तन्मायाशबलमजनीत्याह । अनेन यथा तमस्ततश्चोमिति ध्वनिरभूत् । स वै गजाकारः । अनिर्वचनीया सैव माया जगद्बीजमित्याह । सैव प्रकृतिरिति गणेश इति प्रधानमिति च मायाशबलमिति च । एतस्माद्वै महत्तत्त्वमजायत । ततः कराग्रेणाहङ्कारं सृष्टवान् । स वै त्रिविधः सात्त्विको राजसस्तामसश्चेति । सात्त्विकी ज्ञानशक्तिः । राजसी क्रियाशक्तिः । तामसी द्रव्यशक्तिः । तामस्याः पञ्चतन्मात्रा अजायन्त पञ्चभूतान्यजायन्त । राजस्याः पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च वायवश्चाजायन्त । सात्त्विक्या दिशो वायुः सूर्यो वरुणोऽश्विनाविति ज्ञानेन्द्रियदेवता अग्निरिन्द्रो विष्णुः प्रजापतिर्मित्र इति कर्मेन्द्रियदेवताः । इदमादिपुरुषरूपम् । परमात्मनः सूक्ष्मशरीरमिदमेवोच्यते । अथ द्वितीयम् । पञ्चतन्मात्राः पञ्चसूक्ष्मभूतान्युपादाय पञ्चीकरणे कृते पञ्चमहाभूतान्यजायन्त ।
अवशिष्टानां पञ्चपञ्चाशानां कल्पारंभसमये भूतविभागे चैतन्यप्रवेशादहमित्यभिमानः । तस्मादादिगणेशो भवानुच्यते । ततो वै भूतेभ्यश्चतुर्दश लोका अजायेरन् । तदन्तर्गतजीवराशयः स्थूलशरीरैः सह विराडित्युच्यते । इति द्वितीयम् । राजसो ब्रह्मा सात्त्विको विष्णुस्तामसो वै हरः । त्रयं मिलित्वा परस्परमुवाच अहमेव सर्वस्येश इति । ततो वै परस्परमसहमानाश्चोर्ध्वं जग्मुः । तत्र न किञ्चिद्ददृशुः । ततश्चाधःप्रदेशे दशदिक्षु भ्रमन्तो न किञ्चित्पश्यन्ति स्म । ततो वै ध्यानस्थिता अभूवन् । ततश्च हृद्देशे महान्तं पुरुषं गजवक्त्रमसंख्यशीर्षमसंख्यपादमनन्तकरं तेजसा व्याप्ताखिललोकं ब्रह्ममूर्धानं दिक्श्रवणं ब्रह्माण्डगण्डं चिद्व्योमतालुकं सत्यजननं च जगदुत्पत्त्यपायोन्मेषनिमेषं सोमार्काग्निनेत्रं पर्वतेशरदं पुण्यापुण्योष्ठं ग्रहोडुदशनं भारतीजिह्वं शक्रघ्राणं कुलगोत्रांसं सोमेन कण्ठं हरशिरोरुहं सरिन्नदभुजमुरगाङ्गुलिकमृक्षनखं श्रीहृत्कामाकाशनाभिकं सागरोदरं महीकटिदेशं सृष्टिलिङ्गकं पर्वतेशोरुं दस्रजानुकं जठरान्तःस्थितयक्षगन्धर्वरक्षःकिन्नरमानुषं पातालजंघकं मुनिचरणं कालाङ्गुष्ठकं तारकाजाललाङ्गुलं दृष्ट्वा स्तुवन्ति स्म । यतो वा इमानि भूतानि जायन्ते यतोऽग्निः पृथिव्यप्तेजो वायुर्यत्कराग्राद्ब्रह्मविष्णुरुद्रा अजायन्त यतो वै समुद्राः सरितः पर्वताश्च यतो वै चराचरमिति स्तवनात्प्रसन्नो भूत्वोवाचाऽहं सर्वस्येशो मत्तः सर्वाणि भूतानि मत्तः सर्वं चराचरं भवन्तो वै न मद्भिन्ना गुणा मे वै न संशयः । गुणेशं मां हृदि सञ्चिन्त्य राजस त्वं जगत्कुरु सात्त्विक त्वं पालय तामस त्वं हरेत्युक्त्वान्तर्हितः । स वै गणेशः । सर्वात्मा विज्ञेयः सर्वदेवात्मा वै स एकः । य एवं वेद स गणेशो भवति । इत्युपनिषत् ।

इति गणेशोत्तरतापिन्युपनिषत्सु चतुर्थोपनिषत् ॥ ४ ॥

—–

ओं ॥ देवा ह वै रुद्रमब्रुवन् कथमेतस्योपासनम् । स होवाच रुद्रो गणको निचृद्गायत्री श्रीगणपतेरेनं मन्त्रराजमन्योन्याभावात्प्रणवस्वरूपस्यास्य परमात्मनोऽङ्गानि जानीते स जानाति सोऽमृतत्वं च गच्छति । योऽधीते स सर्वं तरति । य एनं मन्त्रराजं गणपतेः सर्वदं नित्यं जपति सोऽग्निं स्तंभयति स उदकं स्तंभयति स वायुं स्तंभयति स सूर्यं स्तंभयति स सर्वान्देवान् स्तंभयति स विषं स्तंभयति स सर्वोपद्रवान् स्तंभयति । इत्युपनिषत् । य एनं मन्त्रराजं नित्यमधीते स विघ्नानाकर्षयति देवान्यक्षान् रोगान् ग्रहान्मनुष्यान् सर्वानाकर्षयति । स भूर्लोकं जयति स भुवर्लोकं जयति स स्वर्लोकं स महर्लोकं स जनोलोकं स तपोलोकं स सत्यलोकं स सप्तलोकं स सर्वलोकं जयति । सोऽग्निष्टोमेन यजते सोऽत्यग्निष्टोमेन स उक्थ्येन स षोडशीयेन स वाजपेयेन सोऽतिरात्रेण सोऽप्तोर्यामेण स सर्वैः क्रतुभिर्यजते । य एनं मन्त्रराजं वैघ्नराजं नित्यमधीते स ऋचोऽधीते स यजूंष्यधीते स सामान्यधीते सोऽथर्वणमधीते सोऽङ्गिरसमधीते स शाखा अधीते स पुराणान्यधीते स कल्पानधीते स गाथा अधीते स नाराशंसीरधीते स प्रणवमधीते । य एनं मन्त्रराजं गाणेशं वेद स सर्वं वेद स सर्वं वेद । स वेदसमः स मुनिसमः स नागसमः स सूर्यसमः सोऽग्निसम इति । उपनीतैकाधिकशतं गृहस्थैकाधिकशतं वानप्रस्थकाधिकशतं रुद्रजापकसमम् । यतीनामेकाधिकशतमथर्वशिरःशिखाध्यापकसमम् ।
रुद्रजापकैकाधिकशतमथर्वशिरःशिखाध्यापकैकाधिकशतं गाणेशतापनीयोपनिषदध्यापकसमम् । मन्त्रराजजापकस्य यत्र रविसोमौ न तपतो यत्र वायुर्नक्षत्राणि न वाति भान्ति यत्राग्निर्मृत्युर्न दहति प्रविशति यत्र मोहो न दुःखं सदानन्दं परानन्दं समं शाश्वतं सदाशिवं परं ब्रह्मादिवन्दितं योगिध्येयं परमं पदं चिन्मात्रं ब्रह्मणस्पतिमेकाक्षरमेवं परमात्मानं बाह्यान्ते लब्धांशं हृदि समावेश्य किञ्चिज्जप्त्वा ततो न जपो न माला नासनं न ध्यानावाहनादि । स्वयमवतीर्णो ह्ययमात्मा ब्रह्म सोऽहमात्मा चतुष्पात् । बहिःप्रज्ञः प्रविविक्तभुक् तैजसः । यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । तत्रैकीभूतः प्रज्ञानघन एवानन्दभुक् चेतोमुखः प्राज्ञः । एष सर्वेश्वरः सर्वान्तर्यामी एष योनिः सर्वभूतानाम् । न बहिःप्रज्ञं नान्तःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनमव्यपदेश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतमेवं चतुष्पादं ध्यायन् स एवात्मा भवति । स आत्मा विज्ञेयः सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धरहितो द्वैतरहितो निरस्ताविद्यातमोमोहाहङ्कारप्रधानमहमेव सर्वमिति संभाव्य विघ्नराजब्रह्मण्यमृते तेजोमये परंज्योतिर्मये सदानन्दमये स्वप्रकाशे सदोदिते नित्ये शुद्धे मुक्ते ज्ञेश्वरे परे ब्रह्मणि रमते रमते रमते रमते । य एवं गणेशतापनीयोपनिषदं वेद स संसारं तरति घोरं तरति दुःखं तरति विघ्नांस्तरति महोपसर्गं तरति । आनन्दो भवति स नित्यो भवति स शुद्धो भवति स मुक्तो भवति स स्वप्रकाशो भवति स ईश्वरो भवति स मुख्यो भवति स वैश्वानरो भवति स तैजसो भवति स प्राज्ञो भवति स साक्षी भवति स एव भवति स सर्वो भवति स सर्वो भवतीति । इत्युपनिषत् । ओं स ह नाववतु ॥

इति गणेशोत्तरतापिन्युपनिषत्सु पञ्चमोपनिषत् ॥ ५ ॥

—–

ओं ॥ अथोवाच भगवती गौरी ह वै रुद्रमेतस्य मन्त्रराजस्यानुष्ठानविधिं मे ब्रूहीति । स होवाच रुद्रो विधिं लब्धांशं गुरुदेवतयोरालभ्य मनसा पुष्पं निवेद्योपक्रम्य भूतोत्सारणमासनबन्धाद्यात्मरक्षासुनियमभूतशुद्धि-प्राणस्थापनप्रणवावर्तन-मातृपूजनान्तर्मातृकान्तर्यागादि सम्पाद्यात्र केचन समन्त्रं मूलवैदिककल्पैरुपक्रमं ग्रहणसमर्पणनिवेदनानि बाह्येऽन्यथेति महार्घ्यं शङ्खं त्रिपाद्योर्गन्धादिना पूजितयोः स्थाप्य पात्रासादनं दक्षिणोपक्रमेण पाद्यार्घ्याचमनमधुपर्क-पुनराचमननिवेदनपात्राणि संस्थासु यथोपदिष्टं चतुर्थ्योः पर्वणि संस्थासु यथाविधि स्थाप्य निवेदने प्रक्षालनमेव ततोऽर्वाक् पञ्चामृतपात्राणि रिक्तं च मूलेनालभ्य निवेदिन्यार्घ्योदकेनात्मानं पात्राणि संभारं च प्रोक्ष्य पात्रातिरिक्तानि महार्घ्योदकेन सर्वनिवेदनं करशुद्धिं मूलासुनियमं यथोक्तर्षिच्छन्दोदैवतं स्मृत्वा विनियोगश्च नित्ये पूजाङ्गो जपो जपाङ्गा पूजा जप इत्यङ्गुष्ठव्यापकस्वान्ताष्टाङ्गदण्डिमुण्डिन्यासादि कृत्वा मुखमवेक्ष्यात्मानं देवरूपिणं संभाव्य मूर्ध्नि पुष्पं दत्त्वा पीठं सम्पूज्यासनं दत्त्वा ऋष्यादि कृत्वा ध्यात्वा हृदयांभोजे योगिनोऽत्र जपन्ति । स्वान्तांभोजाद्देवमावाह्य मुद्रां दर्शयित्वा देवस्य सकलीकरणाङ्गुष्ठहृदयार्पिन्या स्वान्ते मुद्रां निवेद्य पात्राणि च मूलेन दत्त्वा रिक्ते पञ्चामृतं संयोज्य तेन पञ्चवारं सकृद्वाऽभिषिच्य नित्येन संतर्प्य कल्पस्तवनादिपुरुषसूक्त-रुद्राध्यायघोषशान्त्यादिना मूलेन चाभिषिच्य सर्वपूजां निवेद्य दीपं त्रिर्भ्राम्य सव्येनाप्लाव्य महानैवेद्यपीठावरणान्युपसंहृत्य दर्शयेत् । तांबूलान्ते किञ्चिन्मूलमावर्त्य पुनर्धूपादित्रयभक्ष्यादि निवेद्य मुद्राः सर्वोपचारस्य दर्शयित्वा निवेदनमिदमासनं नमः पाद्ये एषोऽर्घ्यः स्वाहेति दक्षिणकरेऽर्घ्ये इदं स्वधेति पुरस्त्रिके मुखे नम इति स्नानेष्वेष गन्धो नमोऽक्षतेषु ओं पुष्पाणि नमः पुष्पेष्वेष धूपो दीपो नमो धूपदीपयोः समर्पयामीति नैवेद्यफलतांबूलेषु निवेदयामि नमो हिरण्ये एष पुष्पाञ्जलिर्नम इति मालायामिति परमं रहस्यमप्रकाश्यं बीजं य एवं वेद स सर्वं वेद स सर्वं वेद । वर्णार्थं लब्धांशेन मन्त्रार्थेन च पीठावरणदेवतावधानेन वा जपति स जपति । मुख्यं लब्धांशमासनं मृदुलं भुक्तरिक्तवासःकौसुंभमाञ्जिष्ठ-रक्तकंबलचित्रमृगव्याघ्राजिनं वा यथोक्तमुक्तान्यतरै-रासनान्तरयोजनास्फटिककमल-भद्राक्षमणिमुक्ताप्रवालरुद्राक्ष-
कुशग्रन्थिषु वा जपति स जपति । कुशमयी नित्याक्षालनं चन्दनालेपो धूपेनाभिमन्त्र्य पृथगभिमन्त्रणं सद्योजातैः पञ्चभिः प्राणस्थापनजीवनतर्पणगुप्तानि च स्वमूले गुह्यं वामेन स्पृशेन्न दर्शयेत् । एवं श्रावणे पवित्रेण मधौ दमनेन जपमालया महानवम्यां तापस्यां चतुर्थ्यां तिललड्डुकैः सप्तम्यां शीतलचन्दनेन शिवरात्र्यां बिल्वदलमालयाऽन्यस्मिन्पर्वणि महत्यार्चयन्ति तेऽर्चयन्ति । मोदकपृथुकलाजसक्तुरंभाफलेक्षुनारीकेलापूपानन्यानि च यथोपदिष्टमाहुतिभिर्जुहोति । जपश्च प्राक्प्रवणे होमोऽन्यथोपास्यः । एवं यः करोति सोऽमृतत्वं विन्दति स प्रतिष्ठां प्राप्नोति मुक्तिं विन्दति भुक्तिं भुनक्ति वाचं वदति यशो लभते । इदं रहस्यं यो जानाति स जानाति योऽधीते सोऽधीते स आनन्दो भवति स नित्यो भवति स विशुद्धो भवति स मुक्तो भवति स प्रकाशो भवति स दयावान्भवति ज्ञानवान्भवत्यानन्दवान्भवति विज्ञानवान्भवति विज्ञानानन्दो भवति सोऽमृतत्वं भवत्यमृतत्वं भवतीति । ओं सह नाववत्विति शान्तिः ॥

इति गणेशोत्तरतापिन्युपनिषत्सु षष्ठोपनिषत् ॥ ६ ॥

इत्याथर्वणीया गणेशतापिन्युपनिषत्समाप्ता ।


గమనిక: "శ్రీ సుబ్రహ్మణ్య స్తోత్రనిధి" ప్రచురించబోవుచున్నాము.

Facebook Comments
error: Not allowed
%d bloggers like this: