Sri Kali Ekakshari Beeja Mantra (Chintamani) – श्री काली एकाक्षरी (चिन्तामणि)


श्रीगणेशाय नमः । श्रीगुरुभ्यो नमः । हरिः ओम् ।

शुचिः –
अपवित्रः पवित्रोवा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्ष ॥

आचम्य –
क्रीम् । क्रीम् । क्रीम् । (इति त्रिवारं जलं पिबेत्)
ओं काल्यै नमः । (ओष्टौ प्रक्षाल्य)
ओं कपाल्यै नमः । (ओष्टौ)
ओं कुल्लयै नमः । (हस्तप्रक्षालनं)
ओं कुरुकुल्लायै नमः । (मुखं)
ओं विरोधिन्यै नमः । (दक्षिण नासिका)
ओं विप्रचित्तायै नमः । (वाम नासिका)
ओं उग्रायै नमः । (दक्षिण नेत्रं)
ओं उग्रप्रभायै नमः । (वाम नेत्रं)
ओं दीप्तायै नमः । (दक्षिण कर्णं)
ओं नीलायै नमः । (वाम कर्णं)
ओं घनायै नमः । (नाभिं)
ओं बलाकायै नमः । (हृदयं)
ओं मात्रायै नमः । (मस्तकं)
ओं मुद्रायै नमः । (दक्षिण स्कन्धं)
ओं नित्यायै नमः । (वाम स्कन्धं)

॥ प्रार्थना ॥

गुरु प्रार्थना –
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥

ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥

श्रीगणेश प्रार्थना –
विघ्नेश्वराय वरदाय सुरप्रियाय
लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय
गौरीसुताय गणनाथ नमो नमस्ते ॥

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

श्रीदक्षिणामूर्ति प्रार्थना –
भस्मं व्यापाण्डुराङ्ग शशिशकलधरो ज्ञानमुद्राक्षमाला
वीणापुस्तेर्विराजत्करकमलधरो लोकपट्‍टाभिरामः ।
व्याख्यापीठेनिषण्णा मुनिवरनिकरैः सेव्यमान प्रसन्नः
सव्यालकृत्तिवासाः सततमवतु नो दक्षिणामूर्तिमीशः ॥

श्रीमहाकालभैरव प्रार्थना –
महाकालं यज्जेद्देव्या दक्षिणे धूम्रवर्णकं
बिभ्रतं दण्डखट्वाङ्गौ दंष्ट्राभीममुखं शिशुम् ।
त्रिनेत्रमूर्ध्वकेशं च मुण्डमालाविभूषितं
जटाभारलसच्चन्द्रखण्डमुग्रं ज्वलन्निभम् ॥

॥ सङ्कल्पम् ॥

ओं विष्णुर्विष्णुर्विष्णुः । ओं तत्सत् श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य श्रीब्रह्मणोऽह्नि द्वितीय परार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे, अष्टाविंशतितमे कलियुगे, कलिप्रथम चरणे जम्बूद्वीपे भरतखण्डे भारतवर्षे पुण्यभूप्रदेशे ___ प्रदेशे ___ संवत्सरे ___ अयणे ___ ऋतुः ___ मासे ___ पक्षे ___ तिथौ, ___ वासरे ___ गोत्रोत्पन्न ___ नामधेयाहं श्रीकालिका देवी प्रीत्यर्थं क्रीमिति एकाक्षरी मन्त्रजपं करिष्ये ।

॥ प्राणानायम्य ॥

क्रीं (इति बीजेन त्रिवारं प्राणायामं कुर्यात्)

॥ अथ काली कवचम् ॥

श्री दक्षिणकालिका कवचं पठतु ।

॥ अथ काली हृदयम् ॥

श्री दक्षिणकाली हृदयं पठतु ।

॥ मन्त्र विनियोगः ॥

अस्य श्री काली एकाक्षरी मन्त्रस्य भैरव ऋषिः उष्णिक् छन्दः श्री दक्षिणकालिका देवता कं बीजं ईं शक्तिः रं कीलकं सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

ऋष्यादि न्यासः –
ओं भैरव ऋषये नमः शिरसि ।
उष्णिक् छन्दसे नमः मुखे ।
दक्षिणकालिका देवतायै नमः हृदि ।
कं बीजाय नमः गुह्ये ।
ईं शक्तये नमः पादयोः ।
रं कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं क्रां अङ्गुष्ठाभ्यां नमः ।
ओं क्रीं तर्जनीभ्यां नमः ।
ओं क्रूं मध्यमाभ्यां नमः ।
ओं क्रैं अनामिकाभ्यां नमः ।
ओं क्रौं कनिष्ठिकाभ्यां नमः ।
ओं क्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं क्रां हृदयाय नमः ।
ओं क्रीं शिरसे स्वाहा ।
ओं क्रूं शिखायै वषट् ।
ओं क्रैं कवचाय हुम् ।
ओं क्रौं नेत्रत्रयाय वौषट् ।
ओं क्रः अस्त्राय फट् ।
ओं भूर्भुवस्सुवः इति दिग्बन्धः ।

व्यापक न्यासः- क्रीं (इति मन्त्रेण त्रिवारं व्यापकं कुर्यात्)

ध्यानम् ।
करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् ॥ १ ॥

सद्यश्छिन्नशिरः खड्गवामाधोर्ध्वकराम्बुजाम् ।
अभयं वरदं चैव दक्षिणोर्ध्वाधपाणिकाम् ॥ २ ॥

महामेघप्रभां श्यामां तथा चैव दिगम्बरीम् ।
कण्ठावसक्तमुण्डाली गलद्रुधिरचर्चिताम् ॥ ३ ॥

कर्णावतंसतानीत शवयुग्मभयानकाम् ।
घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधरीम् ॥ ४ ॥

शवानां करसङ्घातैः कृतकाञ्ची हसन्मुखीम् ।
सृक्कद्वयगलद्रक्तधारा विस्फुरिताननाम् ॥ ५ ॥

घोररावां महारौद्रीं श्मशानालयवासिनीम् ।
बालार्कमण्डलाकार लोचनत्रितयान्विताम् ॥ ६ ॥

दन्तुरां दक्षिणव्यापि मुक्तालम्बिक चोच्चयाम् ।
शवरूपमहादेवहृदयोपरिसंस्थिताम् ॥ ७ ॥

शिवाभिर्घोररावाभिश्चतुर्दिक्षुसमन्विताम् ।
महाकालेन च समं विपरीत रतातुराम् ॥ ८ ॥

सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ।
एवं सञ्चिन्तयेत् कालीं सर्वकामसमृद्धिदाम् ॥ ९ ॥

लमित्यादि पञ्चपूजा –
ओं क्रीं कालिकायै नमः लं पृथ्वीतत्त्वात्मकं गन्धं कालिका देवी प्रीतये समर्पयामि ।
ओं क्रीं कालिकायै नमः हं आकाशतत्वात्मकं पुष्पं कालिका देवी प्रीतये समर्पयामि ।
ओं क्रीं कालिकायै नमः यं वायुतत्त्वात्मकं धूपं कालिका देवी प्रीतये आघ्रापयामि ।
ओं क्रीं कालिकायै नमः रं वह्नितत्वात्मकं दीपं कालिका देवी प्रीतये दर्शयामि ।
ओं क्रीं कालिकायै नमः वं जलतत्त्वात्मकं नैवेद्यं कालिका देवी प्रीतये निवेदयामि ।
ओं क्रीं कालिकायै नमः सं सर्वतत्त्वात्मकं सर्वोपचाराणि मनसा परिकल्प्य कालिका देवी प्रीतये समर्पयामि ।

कुल्लुकादि मन्त्राः –
१। कुल्लुका – क्रीं हूं स्त्रीं ह्रीं फट् (शिखा स्थाने द्वादशवारं जपेत्)
२। सेतुः – ओं (इति हृदये स्थाने द्वादशवारं जपेत्)
३। महासेतुः – क्रीं (इति कण्ठस्थाने द्वादशवारं जपेत्)
४। मुखशोधन – क्रीं क्रीं क्रीं ओं ओं ओं क्रीं क्रीं क्रीं(इति सप्तवारं जपेत्)
५। निर्वाण – ओं अं क्रीं ऐम् । अं आं इं ईं उं ऊं ऋं ॠं लुं* लूं* एं ऐं ओं औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं क्षं ओं (इति नाभिं स्पृशेत्)
६। प्राणयोग – ह्रीं क्रीं ह्रीं (इति हृदये सप्तवारं जपेत्)
७। दीपनी – ओं क्रीं ओं (इति हृदये सप्तवारं जपेत्)
८। निद्राभङ्गः – ईं क्रीं ईं (इति हृदये स्थाने दशवारं जपेत्)
९। अशौचभङ्गः – ओं क्रीं ओं (इति हृदये सप्तवारं जपेत्)
१०। गायत्री – ओं कालिकायै च विद्महे श्मशानवासिन्यै धीमहि तन्नोऽघोरा प्रचोदयात् । (इति हृदये त्रिवारं जपेत्)

एकाक्षरी मन्त्रः – क्रीम् ।

उत्तरन्यासः –
ओं क्रां हृदयाय नमः ।
ओं क्रीं शिरसे स्वाहा ।
ओं क्रूं शिखायै वषट् ।
ओं क्रैं कवचाय हुम् ।
ओं क्रौं नेत्रत्रयाय वौषट् ।
ओं क्रः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्विमोकः ।

जपसमर्पणं –
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥

सर्वं श्रीमहाकाल्यर्पणमस्तु ।

क्षमायाचना –
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ १ ॥

आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ २ ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥ ३ ॥

बलि मन्त्रः – क्रीं कालीं नारिकेल/जम्बीर बलिं समर्पयामि नमः ।
होम मन्त्रः – क्रीं स्वाहा ।
तर्पण मन्त्रः – क्रीं नमः कालिकां तर्पयामि स्वाहा ।
मार्जन मन्त्रः – क्रीं कालिका देवीं अभिषिञ्चामि नमः ।


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed