Sri Guhya Kali Sudha Dhara Stava – श्री गुह्यकाली सुधाधारा स्तवः


महाकाल रुद्र उवाच ।
अचिन्त्यामिताकारशक्तिस्वरूपा
प्रतिव्यक्त्यधिष्ठानसत्त्वैकमूर्तिः ।
गुणातीतनिर्द्वन्द्वबोधैकगम्या
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १ ॥

अगोत्राकृतित्वादनैकान्तिकत्वा-
-दलक्ष्यागमत्वादशेषाकरत्वात् ।
प्रपञ्चालसत्वादनारम्भकत्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २ ॥

असाधारणत्वादसम्बन्धकत्वा-
-दभिन्नाश्रयत्वादनाकारकत्वात् ।
अविद्यात्मकत्वादनाद्यन्तकत्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३ ॥

यदा नैव धाता न विष्णुर्न रुद्रो
न कालो न वा पञ्चभूतानि नाशा ।
तदा कारणीभूत सत्त्वैकमूर्ति-
-स्त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४ ॥

न मीमांसका नैव कालादितर्का
न साङ्ख्या न योगा न वेदान्तवेदाः ।
न देवा विदुस्ते निराकारभावं
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५ ॥

न ते नामगोत्रे न ते जन्ममृत्यू
न ते धामचेष्टे न ते दुःखसौख्ये ।
न ते मित्रशत्रू न ते बन्धमोक्षौ
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ६ ॥

न बाला न च त्वं वयस्का न वृद्धा
न च स्त्री न षण्ढः पुमान्नैव च त्वम् ।
न च त्वं सुरो नासुरो नो नरो वा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ७ ॥

जले शीतलत्वं शुचौ दाहकत्वं
विधौ निर्मलत्वं रवौ तापकत्वम् ।
तवैवाम्बिके यस्य कस्यापि शक्ति-
-स्त्वमेका परब्रह्मरूपेण सिद्धा ॥ ८ ॥

पपौ क्ष्वेडमुग्रं पुरा यन्महेशः
पुनः संहरत्यन्तकाले जगच्च ।
तवैव प्रसादान्न च स्वस्य शक्त्या
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ९ ॥

करालाकृतीन्याननानि श्रयन्ती
भजन्ती करास्त्रादि बाहुल्यमित्थम् ।
जगत्पालनायाऽसुराणां वधाय
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १० ॥

रुवन्ती शिवाभिर्वहन्ती कपालं
जयन्ती सुरारीन् वधन्ती प्रसन्ना ।
नटन्ती पतन्ती चलन्ती हसन्ती
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ११ ॥

अपादाऽपि वाताधिकं धावसि त्वं
श्रुतिभ्यां विहीनाऽपि शब्दं शृणोषि ।
अनासाऽपि जिघ्रस्य नेत्राऽपि पश्य-
-स्वजिह्वाऽपि नानारसास्वाद विज्ञा ॥ १२ ॥

यथा बिम्बमेकं रवेरम्बरस्थं
प्रतिच्छायया यावदेकोदकेषु ।
समुद्भासतेऽनेकरूपं यथावत्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १३ ॥

यथा भ्रामयित्वा मृदं चक्रमध्ये
कुलालो विधत्ते शरावं घटं च ।
महामोहयन्त्रेषु भूतान्यशेषान्
तथा मानुषांस्त्वं सृजस्यादिसर्गे ॥ १४ ॥

यथा रङ्गरज्ज्वर्कदृष्टिष्वकस्मा-
-नृणां रूपदर्वीकराम्बुभ्रमः स्यात् ।
जगत्यत्र तत्तन्मये तद्वदेव
त्वमेकैव तत्तन्निवृतौ समस्तम् ॥ १५ ॥

महाज्योति एकार सिंहासनं यत्-
स्वकीयान् सुरान् वाहयस्युग्रमूर्ते ।
अवष्टभ्य पद्भ्यां शिवं भैरवं च
स्थिता तेन मध्ये भवत्येव मुख्या । १६ ॥

क्व योगासने योगमुद्रादिनीतिः
क्व गोमायुपोतस्य बालाननं च ।
जगन्मातरादृक् तवाऽपूर्वलीला
कथं कारमस्मद्विधैर्देवि गम्या ॥ १७ ॥

विशुद्धा परा चिन्मयी स्वप्रकाशा-
-मृतानन्दरूपा जगद्व्यापिका च ।
तवेदृग्विधाया निजाकारमूर्तिः
किमस्माभिरन्तर्हृदि ध्यायितव्या ॥ १८ ॥

महाघोरकालानल ज्वालज्वाला
हिता त्यक्तवासा महाट्‍टाट्‍टहासा ।
जटाभारकाला महामुण्डमाला
विशाला त्वमीदृङ्मया ध्यायसेऽम्ब ॥ १९ ॥

तपो नैव कुर्वन् वपुः खेदयामि
व्रजन्नापि तीर्थं पदे खञ्जयामि ।
पठन्नापि वेदं जनिं पावयामि
त्वदङ्घ्रिद्वये मङ्गलं साधयामि ॥ २० ॥

तिरस्कुर्वतोऽन्यामरोपासनार्चे
परित्यक्तधर्माध्वरस्यास्य जन्तोः ।
त्वदाराधनान्यस्त चित्तस्य किं मे
करिष्यन्त्यमी धर्मराजस्य दूताः ॥ २१ ॥

न मन्ये हरिं नो विधातारमीशं
न वह्निं न ह्यर्कं न चेन्द्रादि देवान् ।
शिवोदीरितानेक वाक्यप्रबन्धै-
-स्त्वदर्चाविधानं विशत्वम्ब मत्याम् ॥ २२ ॥

न वा मां विनिन्दन्तु नाम त्यजेन्मां
त्यजेद्बान्धवा ज्ञातयः सन्त्यजन्तु ।
यमीया भटा नारके पातयन्तु
त्वमेका गतिर्मे त्वमेका गतिर्मे ॥ २३ ॥

महाकालरुद्रोदितस्तोत्रमेतत्
सदा भक्तिभावेन योऽध्येति भक्तः ।
न चापन्न शोको न रोगो न मृत्यु-
-र्भवेत् सिद्धिरन्ते च कैवल्यलाभः ॥ २४ ॥

इदं शिवायाः कथितं सुधाधाराख्यं स्तवम् ।
एतस्य सतताभ्यासात् सिद्धिः करतलेस्थिता ॥ २५ ॥

एतत् स्तोत्रं च कवचं पद्यं त्रितयमप्यदः ।
पठनीयं प्रयत्नेन नैमित्तिकसमर्पणे ॥ २६ ॥

सौम्येन्दीवरनीलनीरदघटाप्रोद्दामदेहच्छटा
लास्योन्मादनिनादमङ्गलचयैः श्रोण्यन्तदोलज्जटाः ।
सा काली करवालकालकलना हन्त्वश्रियं चण्डिका ॥ २७ ॥

काली क्रोधकरालकालभयदोन्मादप्रमोदालया
नेत्रोपान्तकृतान्तदैत्यनिवहाप्रोद्दाम देहाभया ।
पायाद्वो जयकालिका प्रवलिका हूङ्कारघोरानना
भक्तानामभयप्रदा विजयदा विश्वेशसिद्धासना ॥ २८ ॥

करालोन्मुखी कालिका भीमकान्ता
कटिव्याघ्रचर्मावृता दानवान्ता ।
हूं हूं कड्मडीनादिनी कालिका तु
प्रसन्ना सदा नः प्रसन्नान् पुनातु ॥ २९ ॥

इत्यादिनाथविरचित महाकालसंहितायां श्री गुह्यकाली सुधाधारा स्तवः ॥


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed