Sri Chandramouleshwara Stotram – श्री चन्द्रमौलीश स्तोत्रम्


ओंकारजपरतानामोंकारार्थं मुदा विवृण्वानम् ।
ओजःप्रदं नतेभ्यस्तमहं प्रणमामि चन्द्रमौलीशम् ॥ १ ॥

नम्रसुरासुरनिकरं नलिनाहङ्कारहारिपदयुगलम् ।
नमदिष्टदानधीरं सततं प्रणमामि चन्द्रमौलीशम् ॥ २ ॥

मननाद्यत्पदयोः खलु महतीं सिद्धिं जवात्प्रपद्यन्ते ।
मन्देतरलक्ष्मीप्रदमनिशं प्रणमामि चन्द्रमौलीशम् ॥ ३ ॥

शितिकण्ठमिन्दुदिनकरशुचिलोचनमम्बुजाक्षविधिसेव्यम् ।
नतमतिदानधुरीणं सततं प्रणमामि चन्द्रमौलीशम् ॥ ४ ॥

वाचो विनिवर्तन्ते यस्मादप्राप्य सह हृदैवेति ।
गीयन्ते श्रुतिततिभिस्तमहं प्रणमामि चन्द्रमौलीशम् ॥ ५ ॥

यच्छन्ति यत्पदाम्बुजभक्ताः कुतुकात्स्वभक्तेभ्यः ।
सर्वानपि पुरुषार्थांस्तमहं प्रणमामि चन्द्रमौलीशम् ॥ ६ ॥

पञ्चाक्षरमनुवर्णैरादौ क्लुप्तां स्तुतिं पठन्नेनाम् ।
प्राप्य दृढां शिवभक्तिं भुक्त्वा भोगाँल्लभेत मुक्तिमपि ॥ ७ ॥

इति श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामिभिः विरचितं श्री चन्द्रमौलीश स्तोत्रम् ॥


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed