Sri Sharva Stuti (Krishna Arjuna Krutam) – श्री शर्व स्तुतिः (कृष्णार्जुन कृतम्)


कृष्णार्जुनावूचतुः ।
नमो भवाय शर्वाय रुद्राय वरदाय च ।
पशूनां पतये नित्यमुग्राय च कपर्दिने ।
महादेवाय भीमाय त्र्यम्बकाय च शान्तये ॥ १ ॥

ईशानाय भगघ्नाय नमोऽस्त्वन्धकघातिने ।
कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे ॥ २ ॥

पिनाकिने हविष्याय सत्याय विभवे सदा ।
विलोहिताय धूम्राय व्याधाय नपराजिते ॥ ३ ॥

नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे ।
होत्रे पोत्रे त्रिनेत्राय व्याधये वसुरेतसे ॥ ४ ॥

अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ।
वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे ॥ ५ ॥

तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ।
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ॥ ६ ॥

नमो नमस्ते सेव्याय भूतानां प्रभवे सदा ।
ब्रह्मवक्त्राय सर्वाय शङ्कराय शिवाय च ॥ ७ ॥

नमोऽस्तु वाचस्पतये प्रजानां पतये नमः ।
नमो विश्वस्य पतये महतां पतये नमः ॥ ८ ॥

नमः सहस्रशिरसे सहस्रभुजमन्यवे ।
सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे ॥ ९ ॥

नमो हिरण्यवर्णाय हिरण्यकवचाय च ।
भक्तानुकम्पिने नित्यं सिद्ध्यतां नो वरः प्रभो ॥ १० ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अर्जुनस्वप्नदर्शने अशीतितमोऽध्याये शर्व स्तुतिः ॥


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed