Sri Brihaspati Panchavimshati Nama Stotram 2 – श्री बृहस्पति पञ्चविंशतिनाम स्तोत्रम् २


बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः ।
लोकत्रयगुरुः श्रीमान् सर्वज्ञः सर्वकोविदः ॥ १ ॥

सर्वेशः सर्वदाऽभीष्टः सर्वजित्सर्वपूजितः ।
अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता गुरुः पिता ॥ २ ॥

विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः ।
भूर्भुवः सुवरों चैव भर्ता चैव महाबलः ॥ ३ ॥

पञ्चविंशतिनामानि पुण्यानि नियतात्मना ।
नन्दगोपगृहासीन विष्णुना कीर्तितानि वै ॥ ४ ॥

यः पठेत् प्रातरुत्थाय प्रयतः सुसमाहितः ।
विपरीतोऽपि भगवान् प्रीतो भवति वै गुरुः ॥ ५ ॥

यः शृणोति गुरुस्तोत्रं चिरं जीवेन्न संशयः ।
बृहस्पतिकृता पीडा न कदाचिद्भविष्यति ॥ ६ ॥

इति श्री बृहस्पति पञ्चविंशतिनाम स्तोत्रम् ।


इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed