Sri Brihaspati Panchavimshati Nama Stotram 1 – श्री बृहस्पति पञ्चविंशतिनाम स्तोत्रम् १


चराचरगुरुं नौमि गुरुं सर्वोपकारकम् ।
यस्य सङ्कीर्तनादेव क्षणादिष्टं प्रजायते ॥ १ ॥

बृहस्पतिः सुराचार्यो नीतिज्ञो नीतिकारकः ।
गुरुर्जीवोऽथ वागीशो वेदवेत्ता विदांवरः ॥ २ ॥

सौम्यमूर्तिः सुधादृष्टिः पीतवासाः पितामहः ।
अग्रवेदी दीर्घश्मश्रुर्हेमाङ्गः कुङ्कुमच्छविः ॥ ३ ॥

सर्वज्ञः सर्वदः सर्वः सर्वपूज्यो ग्रहेश्वरः ।
सत्यधामाऽक्षमाली च ग्रहपीडानिवारकः ॥ ४ ॥

पञ्चविंशतिनामानि गुरुं स्मृत्वा तु यः पठेत् ।
आयुरारोग्यसम्पन्नो धनधान्यसमन्वितः ॥ ५ ॥

जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ।
कर्मणा मनसा वाचा यत्पापं समुपार्जितम् ॥ ६ ॥

तदेतत्पठनादेव दह्यतेऽग्निरिवेन्धनम् ।
गुरोर्दिनेऽर्चयेद्यस्तु पीतवस्त्रानुलेपनैः ॥ ७ ॥

धूपदीपोपहारैश्च विप्रभोजनपूर्वकम् ।
पीडाशान्तिर्भवेत्तस्य स्वयमाह बृहस्पतिः ॥ ८ ॥

मेरुमूर्ध्नि समाक्रान्तो देवराजपुरोहितः ।
ज्ञाता यः सर्वशास्त्राणां स गुरुः प्रीयतां मम ॥ ९ ॥

इति बृहस्पति स्तोत्रम् ।


इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed