Sri Shukra Stavaraja Stotram – श्री शुक्र स्तवराज स्तोत्रम्


अस्य श्रीशुक्रस्तवराजस्य प्रजापतिरृषिः अनुष्टुप् छन्दः श्रीशुक्रो देवता श्रीशुक्रप्रीत्यर्थे जपे विनियोगः ॥

नमस्ते भार्गवश्रेष्ठ दैत्यदानवपूजित ।
वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमो नमः ॥ १ ॥

देवयानिपतिस्तुभ्यं वेदवेदाङ्गपारगः ।
परेण तपसा शुद्धः शङ्करो लोकसुन्दरः ॥ २ ॥

प्राप्तो विद्यां जीवनाख्यां तस्मै शुक्रात्मने नमः ।
नमस्तस्मै भगवते भृगुपुत्राय वेधसे ॥ ३ ॥

तारामण्डलमध्यस्थ स्वभासाभासिताम्बर ।
यस्योदये जगत्सर्वं मङ्गलार्हं भवेदिह ॥ ४ ॥

अस्तं याते ह्यरिष्टं स्यात्तस्मै मङ्गलरूपिणे ।
त्रिपुरावासिनो दैत्यान् शिवबाणप्रपीडितान् ॥ ५ ॥

विद्ययाऽजीवयच्छुक्रो नमस्ते भृगुनन्दन ।
ययातिगुरवे तुभ्यं नमस्ते कविनन्दन ॥ ६ ॥

बलिराज्यप्रदो जीवस्तस्मै जीवात्मने नमः ।
भार्गवाय नमस्तुभ्यं पूर्वगीर्वाणवन्दित ॥ ७ ॥

जीवपुत्राय यो विद्या प्रादात्तस्मै नमो नमः ।
नमः शुक्राय काव्याय भृगुपुत्राय धीमहि ॥ ८ ॥

नमः कारणरूपाय नमस्ते कारणात्मने ।
स्तवराजमिदं पुण्यं भार्गवस्य महात्मनः ॥ ९ ॥

यः पठेच्छृणुयाद्वापि लभते वाञ्छितं फलम् ।
पुत्रकामो लभेत्पुत्रान् श्रीकामो लभते श्रियम् ॥ १० ॥

राज्यकामो लभेद्राज्यं स्त्रीकामः स्त्रियमुत्तमाम् ।
भृगुवारे प्रयत्नेन पठितव्यं समाहितैः ॥ ११ ॥

अन्यवारे तु होरायां पूजयेद्भृगुनन्दनम् ।
रोगार्तो मुच्यते रोगाद्भयार्तो मुच्यते भयात् ॥ १२ ॥

यद्यत् प्रार्थयते जन्तुस्तत्तत्प्राप्नोति सर्वदा ।
प्रातःकाले प्रकर्तव्या भृगुपूजा प्रयत्नतः ।
सर्वपापविनिर्मुक्तः प्राप्नुयाच्छिवसन्निधिम् ॥ १३ ॥

इति श्रीब्रह्मयामले श्री शुक्र स्तवराजः ।


इतर नवग्रह स्तोत्राणि पश्यतु |


పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed