Sri Shukra Stotram 2 – श्री शुक्र स्तोत्रम् २


कवीश्वर नमस्तुभ्यं हव्यकव्यविदां वर ।
उपासक सरस्वत्या मृतसञ्जीवनप्रिय ॥ १ ॥

दैत्यपूज्य नमस्तुभ्यं दैत्येन्द्रशासनकर ।
नीतिशास्त्रकलाभिज्ञ बलिजीवप्रभावन ॥ २ ॥

प्रह्लादपरमाह्लाद विरोचनगुरो सित ।
आस्फूर्जिज्जितशिष्यारे नमस्ते भृगुनन्दन ॥ ३ ॥

सुराशन सुरारातिचित्तसंस्थितिभावन ।
उशना सकलप्राणिप्राणाश्रय नमोऽस्तु ते ॥ ४ ॥

नमस्ते खेचराधीश शुक्र शुक्लयशस्कर ।
वारुण वारुणीनाथ मुक्तामणिसमप्रभ ॥ ५ ॥

क्षीबचित्त कचोद्भूतिहेतो जीवरिपो नमः ।
देवयानीययातीष्ट दुहितृस्थेयवत्सल ॥ ६ ॥

वह्निकोणपते तुभ्यं नमस्ते खगनायक ।
त्रिलोचन तृतीयाक्षिसंस्थित शुकवाहन ॥ ७ ॥

इत्थं दैत्यगुरोः स्तोत्रं यः स्मरेन्मानवः सदा ।
दशादौ गोचरे तस्य भवेद्विघ्नहरः सितः ॥ ८ ॥

सोमतुल्या प्रभा यस्य चासुराणां गुरुस्तथा ।
जेता यः सर्वशत्रूणां स काव्यः प्रीयतां मम ॥ ९ ॥

इति शुक्र स्तोत्रम् ।


इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed