Sri Budha Stotram 2 – श्री बुध स्तोत्रम् २


ध्यानम् –
भुजैश्चतुर्भिर्वरदाभयासि-
गदा वहन्तं सुमुखं प्रशान्तम् ।
पीतप्रभं चन्द्रसुतं सुरेढ्यं
सिंहेनिषण्णं बुधमाश्रयामि ॥

अथ स्तोत्रम् –
पीताम्बरः पीतवपुः किरीटी च चतुर्भुजः ।
पीतध्वजपताकी च रोहिणीगर्भसम्भवः ॥ १ ॥

ईशान्यादिषुदेशेषु बाणासन उदङ्मुखः ।
नाथो मगधदेशस्य मन्त्रो मन्त्रार्थतत्त्ववित् ॥ २ ॥

सुखासनः कर्णिकारो जैत्रश्चात्रेयगोत्रवान् ।
भरद्वाज ऋषिप्रख्यैर्ज्योतिर्मण्डलमण्डितः ॥ ३ ॥

अधिप्रत्यधिदेवाभ्यामन्यतो ग्रहमण्डले ।
प्रविष्टः सूक्ष्मरूपेण समस्तवरदः सुखी ॥ ४ ॥

सदा प्रदक्षिणं मेरोः कुर्वाणः कामरूपवान् ।
असिदण्डौ च बिभ्राणः सम्प्राप्तसुफलप्रदः ॥ ५ ॥

कन्याया मिथुनस्यापि राशेरधिपतिर्द्वयोः ।
मुद्गधान्यप्रदो नित्यं मर्त्यामर्त्यसुरार्चितः ॥ ६ ॥

यस्तु सौम्येन मनसा स्वमात्मानं प्रपूजयेत् ।
तस्य वश्यो भवेन्नित्यं सौम्यनामधरो बुधः ॥ ७ ॥

बुधस्तोत्रमिदं गुह्यं वसिष्ठेनोदितं पुरा ।
दिलीपाय च भक्ताय याचमानाय भूभृते ॥ ८ ॥

यः पठेदेकवारं वा सर्वाभीष्टमवाप्नुयात् ।
स्तोत्रराजमिदं पुण्यं गुह्याद्गुह्यतमं महत् ॥ ९ ॥

एकवारं द्विवारं वा त्रिवारं यः पठेन्नरः ।
तस्यापस्मारकुष्ठादिव्याधिबाधा न विद्यते ॥ १० ॥

सर्वग्रहकृतापीडा पठितेऽस्मिन्न विद्यते ।
कृत्रिमौषधदुर्मन्त्रं कृत्रिमादिनिशाचरैः ॥ ११ ॥

यद्यद्भयं भवेत्तत्र पठितेऽस्मिन्न विद्यते ।
प्रतिमा या सुवर्णेन लिखिता तु भुजाष्टका ॥ १२ ॥

मुद्गधान्योपरिन्यस्त पीतवस्त्रान्विते घटे ।
विन्यस्य विधिना सम्यक् मासमेकं निरन्तरम् ॥ १३ ॥

ये पूजयन्ति ते यान्ति दीर्घमायुः प्रजाधनम् ।
आरोग्यं भस्मगुल्मादि सर्वव्याधिविनाशनम् ।
यं यं कामयते सम्यक् तत्तदाप्नोत्यसंशयः ॥ १४ ॥

इति श्रीस्कान्दपुराणे श्री बुध स्तोत्रम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed