Sri Bala Trishati Stotram – श्री बाला त्रिशती स्तोत्रम्


अस्य श्रीबालात्रिपुरसुन्दरी त्रिशतनाम स्तोत्रमहामन्त्रस्य आनन्दभैरव ऋषिः, अनुष्टुप् छन्दः, श्रीबालात्रिपुरसुन्दरी देवता, ऐं बीजं, सौः शक्तिः, क्लीं कीलकं, श्रीबालात्रिपुरसुन्दरी प्रीत्यर्थं श्रीबालात्रिपुरसुन्दरी त्रिशतनामस्तोत्र पारायणे विनियोगः ।

करन्यासः –
ऐं अङ्गुष्ठाभ्यां नमः ।
क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः ।
सौः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ऐं हृदयाय नमः ।
क्लीं शिरसे स्वाहा ।
सौः शिखायै वषट् ।
ऐं कवचाय हुम् ।
क्लीं नेत्रत्रयाय वौषट् ।
सौः अस्त्राय फट् ।
भूर्भुवस्सुवरों इति दिग्बन्धः ॥

ध्यानम् –
रक्ताम्बरां चन्द्रकलावतंसां
समुद्यदादित्यनिभां त्रिनेत्राम् ।
विद्याक्षमालाभयदामहस्तां
ध्यायामि बालामरुणाम्बुजस्थाम् ॥

स्तोत्रम् –
ऐङ्काररूपा ऐङ्कारनिलया ऐम्पदप्रिया ।
ऐङ्काररूपिणी चैव ऐङ्कारवरवर्णिनी ॥ १ ॥

ऐङ्कारबीजसर्वस्वा ऐङ्काराकारशोभिता ।
ऐङ्कारवरदानाढ्या ऐङ्कारवररूपिणी ॥ २ ॥

ऐङ्कारब्रह्मविद्या च ऐङ्कारप्रचुरेश्वरी ।
ऐङ्कारजपसन्तुष्टा ऐङ्कारामृतसुन्दरी ॥ ३ ॥

ऐङ्कारकमलासीना ऐङ्कारगुणरूपिणी ।
ऐङ्कारब्रह्मसदना ऐङ्कारप्रकटेश्वरी ॥ ४ ॥

ऐङ्कारशक्तिवरदा ऐङ्काराप्लुतवैभवा ।
ऐङ्कारामितसम्पन्ना ऐङ्काराच्युतरूपिणी ॥ ५ ॥

ऐङ्कारजपसुप्रीता ऐङ्कारप्रभवा तथा ।
ऐङ्कारविश्वजननी ऐङ्कारब्रह्मवन्दिता ॥ ६ ॥

ऐङ्कारवेद्या ऐङ्कारपूज्या ऐङ्कारपीठिका ।
ऐङ्कारवाच्या ऐङ्कारचिन्त्या ऐं ऐं शरीरिणी ॥ ७ ॥

ऐङ्कारामृतरूपा च ऐङ्कारविजयेश्वरी ।
ऐङ्कारभार्गवीविद्या ऐङ्कारजपवैभवा ॥ ८ ॥

ऐङ्कारगुणरूपा च ऐङ्कारप्रियरूपिणी ।
क्लीङ्काररूपा क्लीङ्कारनिलया क्लीम्पदप्रिया ॥ ९ ॥

क्लीङ्कारकीर्तिचिद्रूपा क्लीङ्कारकीर्तिदायिनी ।
क्लीङ्कारकिन्नरीपूज्या क्लीङ्कारकिंशुकप्रिया ॥ १० ॥

क्लीङ्कारकिल्बिषहरी क्लीङ्कारविश्वरूपिणी ।
क्लीङ्कारवशिनी चैव क्लीङ्कारानङ्गरूपिणी ॥ ११ ॥

क्लीङ्कारवदना चैव क्लीङ्काराखिलवश्यदा ।
क्लीङ्कारमोदिनी चैव क्लीङ्कारहरवन्दिता ॥ १२ ॥

क्लीङ्कारशम्बररिपुः क्लीङ्कारकीर्तिदा तथा ।
क्लीङ्कारमन्मथसखी क्लीङ्कारवंशवर्धिनी ॥ १३ ॥

क्लीङ्कारपुष्टिदा चैव क्लीङ्कारकुधरप्रिया ।
क्लीङ्कारकृष्णसम्पूज्या क्लीं क्लीं किञ्जल्कसन्निभा ॥ १४ ॥

क्लीङ्कारवशगा चैव क्लीङ्कारनिखिलेश्वरी ।
क्लीङ्कारधारिणी चैव क्लीङ्कारब्रह्मपूजिता ॥ १५ ॥

क्लीङ्कारालापवदना क्लीङ्कारनूपुरप्रिया ।
क्लीङ्कारभवनान्तस्था क्लीं क्लीं कालस्वरूपिणी ॥ १६ ॥

क्लीङ्कारसौधमध्यस्था क्लीङ्कारकृत्तिवासिनी ।
क्लीङ्कारचक्रनिलया क्लीं क्लीं किम्पुरुषार्चिता ॥ १७ ॥

क्लीङ्कारकमलासीना क्लीं क्लीं गन्धर्वपूजिता ।
क्लीङ्कारवासिनी चैव क्लीङ्कारक्रुद्धनाशिनी ॥ १८ ॥

क्लीङ्कारतिलकामोदा क्लीङ्कारक्रीडसम्भ्रमा ।
क्लीङ्कारविश्वसृष्ट्यम्बा क्लीङ्कारविश्वमालिनी ॥ १९ ॥

क्लीङ्कारकृत्स्नसम्पूर्णा क्लीं क्लीं कृपीटवासिनी ।
क्लीं मायाक्रीडविद्वेषी क्लीं क्लीङ्कारकृपानिधिः ॥ २० ॥

क्लीङ्कारविश्वा क्लीङ्कारविश्वसम्भ्रमकारिणी ।
क्लीङ्कारविश्वरूपा च क्लीङ्कारविश्वमोहिनी ॥ २१ ॥

क्लीं मायाकृत्तिमदना क्लीं क्लीं वंशविवर्धिनी ।
क्लीङ्कारसुन्दरीरूपा क्लीङ्कारहरिपूजिता ॥ २२ ॥

क्लीङ्कारगुणरूपा च क्लीङ्कारकमलप्रिया ।
सौःकाररूपा सौःकारनिलया सौःपदप्रिया ॥ २३ ॥

सौःकारसारसदना सौःकारसत्यवादिनी ।
सौःप्रासादसमासीना सौःकारसाधनप्रिया ॥ २४ ॥

सौःकारकल्पलतिका सौःकारभक्ततोषिणी ।
सौःकारसौभरीपूज्या सौःकारप्रियसाधिनी ॥ २५ ॥

सौःकारपरमाशक्तिः सौःकाररत्नदायिनी ।
सौःकारसौम्यसुभगा सौःकारवरदायिनी ॥ २६ ॥

सौःकारसुभगानन्दा सौःकारभगपूजिता ।
सौःकारसम्भवा चैव सौःकारनिखिलेश्वरी ॥ २७ ॥

सौःकारविश्वा सौःकारविश्वसम्भ्रमकारिणी ।
सौःकारविभवानन्दा सौःकारविभवप्रदा ॥ २८ ॥

सौःकारसम्पदाधारा सौः सौः सौभाग्यवर्धिनी ।
सौःकारसत्त्वसम्पन्ना सौःकारसर्ववन्दिता ॥ २९ ॥

सौःकारसर्ववरदा सौःकारसनकार्चिता ।
सौःकारकौतुकप्रीता सौःकारमोहनाकृतिः ॥ ३० ॥

सौःकारसच्चिदानन्दा सौःकाररिपुनाशिनी ।
सौःकारसान्द्रहृदया सौःकारब्रह्मपूजिता ॥ ३१ ॥

सौःकारवेद्या सौःकारसाधकाभीष्टदायिनी ।
सौःकारसाध्यसम्पूज्या सौःकारसुरपूजिता ॥ ३२ ॥

सौःकारसकलाकारा सौःकारहरिपूजिता ।
सौःकारमातृचिद्रूपा सौःकारपापनाशिनी ॥ ३३ ॥

सौःकारयुगलाकारा सौःकारसूर्यवन्दिता ।
सौःकारसेव्या सौःकारमानसार्चितपादुका ॥ ३४ ॥

सौःकारवश्या सौःकारसखीजनवरार्चिता ।
सौःकारसम्प्रदायज्ञा सौः सौः बीजस्वरूपिणी ॥ ३५ ॥

सौःकारसम्पदाधारा सौःकारसुखरूपिणी ।
सौःकारसर्वचैतन्या सौः सर्वापद्विनाशिनी ॥ ३६ ॥

सौःकारसौख्यनिलया सौःकारसकलेश्वरी ।
सौःकाररूपकल्याणी सौःकारबीजवासिनी ॥ ३७ ॥

सौःकारविद्रुमाराध्या सौः सौः सद्भिर्निषेविता ।
सौःकाररससल्लापा सौः सौः सौरमण्डलगा ॥ ३८ ॥

सौःकाररससम्पूर्णा सौःकारसिन्धुरूपिणी ।
सौःकारपीठनिलया सौःकारसगुणेश्वरी ॥ ३९ ॥

सौः सौः पराशक्तिः सौः सौः साम्राज्यविजयप्रदा ।
ऐं क्लीं सौः बीजनिलया ऐं क्लीं सौः पदभूषिता ॥ ४० ॥

ऐं क्लीं सौः ऐन्द्रभवना ऐं क्लीं सौः सफलात्मिका ।
ऐं क्लीं सौः संसारान्तस्था ऐं क्लीं सौः योगिनीप्रिया ॥ ४१ ॥

ऐं क्लीं सौः ब्रह्मपूज्या च ऐं क्लीं सौः हरिवन्दिता ।
ऐं क्लीं सौः शान्तनिर्मुक्ता ऐं क्लीं सौः वश्यमार्गगा ॥ ४२ ॥

ऐं क्लीं सौः कुलकुम्भस्था ऐं क्लीं सौः पटुपञ्चमी ।
ऐं क्लीं सौः पैलवंशस्था ऐं क्लीं सौः कल्पकासना ॥ ४३ ॥

ऐं क्लीं सौः चित्प्रभा चैव ऐं क्लीं सौः चिन्तितार्थदा ।
ऐं क्लीं सौः कुरुकुल्लाम्बा ऐं क्लीं सौः धर्मचारिणी ॥ ४४ ॥

ऐं क्लीं सौः कुणपाराध्या ऐं क्लीं सौः सौम्यसुन्दरी ।
ऐं क्लीं सौः षोडशकला ऐं क्लीं सौः सुकुमारिणी ॥ ४५ ॥

ऐं क्लीं सौः मन्त्रमहिषी ऐं क्लीं सौः मन्त्रमन्दिरा ।
ऐं क्लीं सौः मानुषाराध्या ऐं क्लीं सौः मागधेश्वरी ॥ ४६ ॥

ऐं क्लीं सौः मौनिवरदा ऐं क्लीं सौः मञ्जुभाषिणी ।
ऐं क्लीं सौः मधुराराध्या ऐं क्लीं सौः शोणितप्रिया ॥ ४७ ॥

ऐं क्लीं सौः मङ्गलाकारा ऐं क्लीं सौः मदनावती ।
ऐं क्लीं सौः साध्यगमिता ऐं क्लीं सौः मानसार्चिता ॥ ४८ ॥

ऐं क्लीं सौः राज्यरसिका ऐं क्लीं सौः रामपूजिता ।
ऐं क्लीं सौः रात्रिज्योत्स्ना च ऐं क्लीं सौः रात्रिलालिनी ॥ ४९ ॥

ऐं क्लीं सौः रथमध्यस्था ऐं क्लीं सौः रम्यविग्रहा ।
ऐं क्लीं सौः पूर्वपुण्येशा ऐं क्लीं सौः पृथुकप्रिया ॥ ५० ॥

ऐं क्लीं सौः वटुकाराध्या ऐं क्लीं सौः वटवासिनी ।
ऐं क्लीं सौः वरदानाढ्या ऐं क्लीं सौः वज्रवल्लकी ॥ ५१ ॥

ऐं क्लीं सौः नारदनता ऐं क्लीं सौः नन्दिपूजिता ।
ऐं क्लीं सौः उत्पलाङ्गी च ऐं क्लीं सौः उद्भवेश्वरी ॥ ५२ ॥

ऐं क्लीं सौः नागगमना ऐं क्लीं सौः नामरूपिणी ।
ऐं क्लीं सौः सत्यसङ्कल्पा ऐं क्लीं सौः सोमभूषणा ॥ ५३ ॥

ऐं क्लीं सौः योगपूज्या च ऐं क्लीं सौः योगगोचरा ।
ऐं क्लीं सौः योगिवन्द्या च ऐं क्लीं सौः योगिपूजिता ॥ ५४ ॥

ऐं क्लीं सौः ब्रह्मगायत्री ऐं क्लीं सौः ब्रह्मवन्दिता ।
ऐं क्लीं सौः रत्नभवना ऐं क्लीं सौः रुद्रपूजिता ॥ ५५ ॥

ऐं क्लीं सौः चित्रवदना ऐं क्लीं सौः चारुहासिनी ।
ऐं क्लीं सौः चिन्तिताकारा ऐं क्लीं सौः चिन्तितार्थदा ॥ ५६ ॥

ऐं क्लीं सौः वैश्वदेवेशी ऐं क्लीं सौः विश्वनायिका ।
ऐं क्लीं सौः ओघवन्द्या च ऐं क्लीं सौः ओघरूपिणी ॥ ५७ ॥

ऐं क्लीं सौः दण्डिनीपूज्या ऐं क्लीं सौः दुरतिक्रमा ।
ऐं क्लीं सौः मन्त्रिणीसेव्या ऐं क्लीं सौः मानवर्धिनी ॥ ५८ ॥

ऐं क्लीं सौः वाणीवन्द्या च ऐं क्लीं सौः वागधीश्वरी ।
ऐं क्लीं सौः वाममार्गस्था ऐं क्लीं सौः वारुणीप्रिया ॥ ५९ ॥

ऐं क्लीं सौः लोकसौन्दर्या ऐं क्लीं सौः लोकनायिका ।
ऐं क्लीं सौः हंसगमना ऐं क्लीं सौः हंसपूजिता ॥ ६० ॥

ऐं क्लीं सौः मदिरामोदा ऐं क्लीं सौः महदर्चिता ।
ऐं क्लीं सौः ज्ञानगम्या ऐं क्लीं सौः ज्ञानवर्धिनी ॥ ६१ ॥

ऐं क्लीं सौः धनधान्याढ्या ऐं क्लीं सौः धैर्यदायिनी ।
ऐं क्लीं सौः साध्यवरदा ऐं क्लीं सौः साधुवन्दिता ॥ ६२ ॥

ऐं क्लीं सौः विजयप्रख्या ऐं क्लीं सौः विजयप्रदा ।
ऐं क्लीं सौः वीरसंसेव्या ऐं क्लीं सौः वीरपूजिता ॥ ६३ ॥

ऐं क्लीं सौः वीरमाता च ऐं क्लीं सौः वीरसन्नुता ।
ऐं क्लीं सौः सच्चिदानन्दा ऐं क्लीं सौः सद्गतिप्रदा ॥ ६४ ॥

ऐं क्लीं सौः भण्डपुत्रघ्नी ऐं क्लीं सौः दैत्यमर्दिनी ।
ऐं क्लीं सौः भण्डदर्पघ्नी ऐं क्लीं सौः भण्डनाशिनी ॥ ६५ ॥

ऐं क्लीं सौः शरभदमना ऐं क्लीं सौः शत्रुमर्दिनी ।
ऐं क्लीं सौः सत्यसन्तुष्टा ऐं क्लीं सौः सर्वसाक्षिणी ॥ ६६ ॥

ऐं क्लीं सौः सम्प्रदायज्ञा ऐं क्लीं सौः सकलेष्टदा ।
ऐं क्लीं सौः सज्जननुता ऐं क्लीं सौः हतदानवा ॥ ६७ ॥

ऐं क्लीं सौः विश्वजननी ऐं क्लीं सौः विश्वमोहिनी ।
ऐं क्लीं सौः सर्वदेवेशी ऐं क्लीं सौः सर्वमङ्गला ॥ ६८ ॥

ऐं क्लीं सौः मारमन्त्रस्था ऐं क्लीं सौः मदनार्चिता ।
ऐं क्लीं सौः मदघूर्णाङ्गी ऐं क्लीं सौः कामपूजिता ॥ ६९ ॥

ऐं क्लीं सौः मन्त्रकोशस्था ऐं क्लीं सौः मन्त्रपीठगा ।
ऐं क्लीं सौः मणिदामाढ्या ऐं क्लीं सौः कुलसुन्दरी ॥ ७० ॥

ऐं क्लीं सौः मातृमध्यस्था ऐं क्लीं सौः मोक्षदायिनी ।
ऐं क्लीं सौः मीननयना ऐं क्लीं सौः दमनपूजिता ॥ ७१ ॥

ऐं क्लीं सौः कालिकाराध्या ऐं क्लीं सौः कौलिकप्रिया ।
ऐं क्लीं सौः मोहनाकारा ऐं क्लीं सौः सर्वमोहिनी ॥ ७२ ॥

ऐं क्लीं सौः त्रिपुरादेवी ऐं क्लीं सौः त्रिपुरेश्वरी ।
ऐं क्लीं सौः देशिकाराध्या ऐं क्लीं सौः देशिकप्रिया ॥ ७३ ॥

ऐं क्लीं सौः मातृचक्रेशी ऐं क्लीं सौः वर्णरूपिणी ।
ऐं क्लीं सौः त्रिबीजात्मकबालात्रिपुरसुन्दरी ॥ ७४ ॥

इत्येवं त्रिशतीस्तोत्रं पठेन्नित्यं शिवात्मकम् ।
सर्वसौभाग्यदं चैव सर्वदौर्भाग्यनाशनम् ॥ ७५ ॥

आयुष्करं पुष्टिकरं आरोग्यं चेप्सितप्रदम् ।
धर्मज्ञत्व धनेशत्व विश्वाद्यत्व विवेकदम् ॥ ७६ ॥

विश्वप्रकाशदं चैव विज्ञानविजयप्रदम् ।
विधातृत्वं वैष्णवत्वं शिवत्वं लभते यतः ॥ ७७ ॥

सर्वमङ्गलमाङ्गल्यं सर्वमङ्गलदायकम् ।
सर्वदारिद्र्यशमनं सर्वदा तुष्टिवर्धनम् ॥ ७८ ॥

पूर्णिमायां दिने शुक्रे उच्चरेच्च विशेषतः ।
अथो विशेषपूजां च पौष्यस्नानं समाचरेत् ॥ ७९ ॥

सायाह्नेऽप्यथ मध्याह्ने देवीं ध्यात्वा मनुं जपेत् ।
जपेत्सूर्यास्तपर्यन्तं मौनी भूत्वा महामनुम् ॥ ८० ॥

परेऽहनि तु सन्तर्प्य एलावासितसज्जलैः ।
जुहुयात्सर्वसामग्र्या पायसान्नफलैः सुमैः ॥ ८१ ॥

दध्ना मधुघृतैर्युक्तलाजैः पृथुकसम्युतैः ।
ब्राह्मणान् भोजयेत्पश्चात् सुवासिन्या समन्वितान् ॥ ८२ ॥

सम्पूज्य मन्त्रमाराध्य कुलमार्गेण सम्भ्रमैः ।
एवमाराध्य देवेशीं यं यं काममभीच्छति ॥ ८३ ॥

तत्तत्सिद्धिमवाप्नोति देव्याज्ञां प्राप्य सर्वदा ।
त्रिशतीं यः पठेद्भक्त्या पौर्णमास्यां विशेषतः ॥ ८४ ॥

ग्रहणे सङ्क्रमे चैव शुक्रवारे शुभे दिने ।
सुन्दरीं चक्रमध्ये तु समाराध्य सदा शुचिः ॥ ८५ ॥

सुवासिन्यर्चनं कुर्यात्कन्यां वा समवर्णिनीम् ।
चक्रमध्ये निवेश्याथ घटीं करतले न्यसेत् ॥ ८६ ॥

सम्पूज्य परया भक्त्या साङ्गैः सावरणैः सह ।
षोडशैरुपचारैश्च पूजयेत्परदेवताम् ॥ ८७ ॥

सन्तर्प्य कौलमार्गेण त्रिशतीपादपूजने ।
सर्वसिद्धिमवाप्नोति साधकोऽभीष्टमाप्नुयात् ॥ ८८ ॥

उत्तर करन्यासः –
ऐं अङ्गुष्ठाभ्यां नमः ।
क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः ।
सौः करतलकरपृष्ठाभ्यां नमः ।
उत्तर हृदयादिन्यासः –
ऐं हृदयाय नमः ।
क्लीं शिरसे स्वाहा ।
सौः शिखायै वषट् ।
ऐं कवचाय हुम् ।
क्लीं नेत्रत्रयाय वौषट् ।
सौः अस्त्राय फट् ।
भूर्भुवस्सुवरों इति दिग्विमोकः ॥

इति श्रीकुलावर्णवतन्त्रे योगिनीरहस्ये श्री बाला त्रिशती स्तोत्रम् ।


इतर श्री बाला स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed