Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
१) वार्ताली –
रक्ताम्भोरुहकर्णिकोपरिगते शावासने संस्थितां
मुण्डस्रक्परिराजमानहृदयां नीलाश्मसद्रोचिषम् ।
हस्ताब्जैर्मुसलंहलाऽभयवरान् सम्बिभ्रतीं सत्कुचां
वार्तालीमरुणाम्बरां त्रिनयनां वन्दे वराहाननाम् ॥
वार्ताली वाराही देव्यै नमः ।
२) अश्वारूढा –
रक्तामश्वाधिरूढां शशिधरशकलाबद्धमौलिं त्रिनेत्रां
पाशेनाबध्य साध्यां स्मरशरविवशां दक्षिणेनानयन्तीम् ।
हस्तेनान्येन वेत्रं वरकनकमयं धारयन्तीं मनोज्ञां
देवीं ध्यायेदजस्रं कुचभरनमितां दिव्यहाराभिरामाम् ॥
अश्वारूढा वाराही देव्यै नमः ।
३) धूम्र वाराही –
वाराही धूम्रवर्णा च भक्षयन्ती रिपून् सदा ।
पशुरूपान् मुनिसुरैर्वन्दितां धूम्ररूपिणीम् ॥
धूम्र वाराही देव्यै नमः ।
४) अस्त्र वाराही –
नमस्ते अस्त्रवाराहि वैरिप्राणापहारिणि ।
गोकण्ठमिव शार्दूलो गजकण्ठं यथा हरिः ॥
शत्रुरूपपशून् हत्वा आशु मांसं च भक्षय ।
वाराहि त्वां सदा वन्दे वन्द्ये चास्त्रस्वरूपिणी ॥
अस्त्र वाराही देव्यै नमः ।
५) सुमुखी वाराही –
गुञ्जानिर्मितहारभूषितकुचां सद्यौवनोल्लासिनीं
हस्ताभ्यां नृकपालखड्गलतिके रम्ये मुदा बिभ्रतीम् ।
रक्तालङ्कृतिवस्त्रलेपनलसद्देहप्रभां ध्यायतां
नॄणां श्रीसुमुखीं शवासनगतां स्युः सर्वदा सम्पदः ॥
सुमुखी वाराही देव्यै नमः ।
६) निग्रह वाराही –
विद्युद्रोचिर्हस्तपद्मैर्दधाना
पाशं शक्तिं मुद्गरं चाङ्कुशं च ।
नेत्रोद्भूतैर्वीतिहोत्रैस्त्रिनेत्रा
वाराही नः शत्रुवर्गं क्षिणोतु ॥
निग्रह वाराही देव्यै नमः ।
७) स्वप्न वाराही –
मेघश्यामरुचिं मनोहरकुचां नेत्रत्रयोद्भासितां
कोलास्यां शशिशेखरामचलया दंष्ट्रातले शोभिनीम् ।
बिभ्राणां स्वकराम्बुजैरसिलतां चर्मासि पाशं सृणिं
वाराहीमनुचिन्तयेद्धयवरारूढां शुभालङ्कृतिम् ॥
स्वप्न वाराही देव्यै नमः ।
८) वश्य वाराही –
तारे तारिणि देवि विश्वजननी प्रौढप्रतापान्विते
तारे दिक्षु विपक्षपक्षदलिनि वाचाचला वारुणी ।
लक्ष्मीकारिणी कीर्तिधारिणि महासौभाग्यसन्धायिनि
रूपं देहि यशश्च सततं वश्यं जगत्यावृतम् ॥
वश्य वाराही देव्यै नमः ।
९) किरात वाराही –
घोणी घर्घर निस्वनाञ्चितमुखां कौटिल्य चिन्तां परां
उग्रां कालिमकालमेघपटलच्छन्नोरु तेजस्विनीम् ।
क्रूरां दीर्घविनील रोमपटलामश्रूयतामीश्वरीं
ध्यायेत्क्रोडमुखीं त्रिलोकजननीमुग्रासि दण्डान्विता ॥
किरात वाराही देव्यै नमः ।
१०) लघु वाराही –
महार्णवे निपतितां उद्धरन्तीं वसुन्धराम् ।
महादंष्ट्रां महाकायां नमाम्युन्मत्तभैरवीम् ॥
मुसलासिलसद्घण्टाहलोद्यत्कर पङ्कजाम् ।
गदावरदसम्युक्तां वाराहीं नीरदप्रभाम् ॥
लघु वाराही देवतायै नमः ।
११) बृहद्वाराही –
रक्ताम्बुजे प्रेतवरासनस्थामर्थोरुकामार्भटिकासनस्थाम् ।
दंष्ट्रोल्लसत्पोत्रिमुखारविन्दां कोटीरसञ्च्छिन्न हिमांशुरेखाम् ।
हलं कपालं दधतीं कराभ्यां वामेतराभ्यां मुसलेष्टदौ च ।
रक्ताम्बरां रक्तपटोत्तरीयां प्रवालकर्णाभरणां त्रिनेत्राम् ।
श्यामां समस्ताभरणं सृगाढ्यां वाराहि सञ्ज्ञां प्रणमामि नित्यम् ॥
बृहद्वाराही देवतायै नमः ।
१२) महावाराही –
प्रत्यग्रारुणसङ्काशपद्मान्तर्गर्भसंस्थिताम् ।
इन्द्रनीलमहातेजः प्रकाशां विश्वमातरम् ॥
कदम्बमुण्डमालाढ्यां नवरत्नविभूषिताम् ।
अनर्घ्यरत्नघटितमुकुटश्रीविराजिताम् ॥
कौशेयार्धोरुकां चारुप्रवालमणिभूषणाम् ।
दण्डेन मुसलेनापि वरदेनाऽभयेन च ॥
विराजितचतुर्बाहुं कपिलाक्षीं सुमध्यमाम् ।
नितम्बिनीमुत्पलाभां कठोरघनसत्कुचाम् ॥
महावाराही देवतायै नमः ।
इतर श्री वाराही स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

