Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीरुद्र उवाच ।
शृणु देवि प्रवक्ष्यामि मकरन्दस्तवं शुभम् ।
गोप्याद्गोप्यतरं गोप्यं महाकौतूहलं परम् ॥ १ ॥
बालायाः परमेशान्याः स्तोत्रचूडामणिः शिवे ।
मकरन्दस्य स्तोत्रस्य ऋषिर्नारदसञ्ज्ञकः ॥ २ ॥
छन्दोऽनुष्टुपुदाख्यातं श्रीबाला देवता स्मृता ।
ऐं बीजं शक्तिः सौः प्रोक्तं कीलकं क्लीं तथैव च ॥ ३ ॥
भोगमोक्षस्य सिद्ध्यर्थे विनियोगः प्रकीर्तितः ।
नमस्तेऽस्तु परां शक्तिं नमस्ते भक्तवत्सले ॥ ४ ॥
नमस्तेऽस्तु गुणातीतां बालां सिद्धिप्रदाम्बिकाम् ।
भवदुःखाब्धितरणीं परं निर्वाणदायिनीम् ॥ ५ ॥
धनदां ज्ञानदां सत्यां श्रीबालां प्रणमाम्यहम् ।
सिद्धिप्रदां ज्ञानरूपां चतुर्वर्गफलप्रदाम् ॥ ६ ॥
आधिव्याधिहरां वन्दे श्रीबालां परमेश्वरीम् ।
ऐङ्काररूपिणीं भद्रां क्लीङ्कारगुणसम्भवाम् ॥ ७ ॥
सौःकाररूपरूपेशीं बालां बालार्कसन्निभाम् ।
ऊर्ध्वाम्नायेश्वरीं देवीं रक्तां रक्तविलेपनाम् ॥ ८ ॥
रक्तवस्त्रधरां सौम्यां श्रीबालां प्रणमाम्यहम् ।
राजराजेश्वरीं देवीं रजोगुणात्मिकां भजे ॥ ९ ॥
ब्रह्मविद्यां महामायां त्रिगुणात्मकरूपिणीम् ।
पञ्चप्रेतासनस्थां च पञ्चमकारभक्षकाम् ॥ १० ॥
पञ्चभूतात्मिकां चैव नमस्ते करुणामयीम् ।
सर्वदुःखहरां दिव्यां सर्वसौख्यप्रदायिनीम् ॥ ११ ॥
सिद्धिदां मोक्षदां भद्रां श्रीबालां भावयाम्यहम् ।
नमस्तस्यै महादेव्यै देवदेवेश्वरि परे ॥ १२ ॥
सर्वोपद्रवनाशिन्यै बालायै सततं नमः ।
गुह्याद्गुह्यतरां गुप्तां गुह्येशीं देवपूजिताम् ॥ १३ ॥
हरमौलिस्थितां देवीं बालां वाक्सिद्धिदां शिवाम् ।
व्रणहां सोमतिलकां सोमपानरतां पराम् ॥ १४ ॥
सोमसूर्याग्निनेत्रां च वन्देऽहं हरवल्लभाम् ।
अचिन्त्याकाररूपाख्यां ओङ्काराक्षररूपिणीम् ॥ १५ ॥
त्रिकालसन्ध्यारूपाख्यां भजामि भक्ततारिणीम् ।
कीर्तिदां योगदां रादां सौख्यनिर्वाणदां तथा ॥ १६ ॥
मन्त्रसिद्धिप्रदामीडे सृष्टिस्थित्यन्तकारिणीम् ।
नमस्तुभ्यं जगद्धात्रि जगत्तारिणि चाम्बिके ॥ १७ ॥
सर्ववृद्धिप्रदे देवि श्रीविद्यायै नमोऽस्तु ते ।
दयारूप्यै नमस्तेऽस्तु कृपारूप्यै नमोऽस्तु ते ॥ १८ ॥
शान्तिरूप्यै नमस्तेऽस्तु धर्मरूप्यै नमो नमः ।
पूर्णब्रह्मस्वरूपिण्यै नमस्तेऽस्तु नमो नमः ॥ १९ ॥
ज्ञानार्णवायै सर्वायै नमस्तेऽस्तु नमो नमः ।
पूतात्मायै परात्मायै महात्मायै नमो नमः ॥ २० ॥
आधारकुण्डलीदेव्यै भूयो भूयो नमाम्यहम् ।
षट्चक्रभेदिनी पूर्णा षडाम्नायेश्वरी परा ॥ २१ ॥
परापरात्मिका सिद्धा श्रीबाला शरणं मम ।
इदं श्रीमकरन्दाख्यं स्तोत्रं सर्वागमोक्तकम् ॥ २२ ॥
स्तोत्रराजमिदं देवि धारय त्वं कुलेश्वरि ।
पुण्यं यशस्यमायुष्यं देवानामपि दुर्लभम् ।
पाठमात्रेण देवेशि सर्वारिष्टं विनश्यति ॥ २३ ॥
इति श्रीरुद्रयामले श्री बाला मकरन्द स्तवः ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.