Shyamala Navaratna Malika Stotram – श्री श्यामला नवरत्नमालिका स्तोत्रम्


ओङ्कारपञ्जरशुकीं उपनिषदुद्यानकेलिकलकण्ठीम् ।
आगमविपिनमयूरीं आर्यामन्तर्विभावये गौरीम् ॥ १ ॥

दयमानदीर्घनयनां देशिकरूपेण दर्शिताभ्युदयाम् ।
वामकुचनिहितवीणां वरदां सङ्गीतमातृकां वन्दे ॥ २ ॥

श्यामतनुसौकुमार्यां सौन्दर्यानन्दसम्पदुन्मेषाम् ।
तरुणिमकरुणापूरां मदजलकल्लोललोचनां वन्दे ॥ ३ ॥

नखमुखमुखरितवीणानादरसास्वादनवनवोल्लासम् ।
मुखमम्ब मोदयतु मां मुक्ताताटङ्कमुग्धहसितं ते ॥ ४ ॥

सरिगमपधनिरतां तां वीणासङ्क्रान्तकान्तहस्तां ताम् ।
शान्तां मृदुलस्वान्तां कुचभरतान्तां नमामि शिवकान्ताम् ॥ ५ ॥

अवटुतटघटितचूलीताडिततालीपलाशताटङ्काम् ।
वीणावादनवेलाकम्पितशिरसं नमामि मातङ्गीम् ॥ ६ ॥

वीणारवानुषङ्गं विकचमुखाम्भोजमाधुरीभृङ्गम् ।
करुणापूरतरङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ ७ ॥

मणिभङ्गमेचकाङ्गीं मातङ्गीं नौमि सिद्धमातङ्गीम् ।
यौवनवनसारङ्गीं सङ्गीताम्भोरुहानुभवभृङ्गीम् ॥ ८ ॥

मेचकमासेचनकं मिथ्यादृष्टान्तमध्यभागं ते ।
मातस्तव स्वरूपं मङ्गलसङ्गीतसौरभं मन्ये ॥ ९ ॥

नवरत्नमाल्यमेतद्रचितं मातङ्गकन्यकाभरणम् ।
यः पठति भक्तियुक्तः सः भवेद्वागीश्वरः साक्षात् ॥ १० ॥

इति कालिदास कृत श्री श्यामला नवरत्नमालिका स्तोत्रम् ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed