Shiva Bhujanga Stotram – शिवभुजङ्गम्

गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।
कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १ ॥

अनाद्यन्तमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम् ।
हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महःशैवमीडे ॥ २ ॥

स्वशक्त्यादि शक्त्यन्त सिंहासनस्थं मनोहारि सर्वाङ्गरत्नोरुभूषम् ।
जटाहीन्दुगङ्गास्थिशम्याकमौलिं पराशक्तिमित्रं नमः पञ्चवक्त्रम् ॥ ३ ॥

शिवेशानतत्पूरुषाघोरवामादिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ।
अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथं वेत्ति को वा ॥ ४ ॥

प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणि श्रीमहः श्याममर्धम् ।
गुणस्यूतमेतद्वपुः शैवमन्तः स्मरामि स्मरापत्तिसम्पत्तिहेतुम् ॥ ५ ॥

स्वसेवासमायातदेवासुरेन्द्रा नमन्मौलिमन्दारमालाभिषिक्तम् ।
नमस्यामि शम्भो पदाम्भोरुहं ते भवाम्भोधिपोतं भवानी विभाव्यम् ॥ ६ ॥

जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ।
महःस्तोममूर्ते समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७ ॥

विरूपाक्ष विश्वेश विश्वादिदेव त्रयी मूल शम्भो शिव त्र्यम्बक त्वम् ।
प्रसीद स्मर त्राहि पश्यावमुक्त्यै क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥ ८ ॥

महादेव देवेश देवादिदेव स्मरारे पुरारे यमारे हरेति ।
ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तं ततो मे दयाशील देव प्रसीद ॥ ९ ॥

त्वदन्यः शरण्यः प्रपन्नस्य नेति प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् ।
न चेत्ते भवेद्भक्तवात्सल्यहानिस्ततो मे दयालो सदा सन्निधेहि ॥ १० ॥

अयं दानकालस्त्वहं दानपात्रं भवानेव दाता त्वदन्यं न याचे ।
भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शम्भो कृतार्थोऽस्मि तस्मात् ॥ ११ ॥

पशुं वेत्सि चेन्मां तमेवाधिरूढः कलङ्कीति वा मूर्ध्नि धत्से तमेव ।
द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ १२ ॥

न शक्नोमि कर्तुं परद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश ।
तथाहि प्रसन्नोऽसि कस्यापि कान्तासुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३ ॥

स्तुतिं ध्यानमर्चां यथावद्विधातुं भजन्नप्यजानन्महेशावलम्बे ।
त्रसन्तं सुतं त्रातुमग्रे मृकण्डोर्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ १४ ॥

शिरो दृष्टि हृद्रोग शूल प्रमेहज्वरार्शो जरायक्ष्महिक्काविषार्तान् ।
त्वमाद्यो भिषग्भेषजं भस्म शम्भो त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५ ॥

दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम् ।
भवान्प्राणिनामन्तरात्मासि शम्भो ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥ १६ ॥

त्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्र क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते ।
किरीटस्फुरच्चामरच्छत्रमालाकलाचीगजक्षौमभूषाविशेषैः ॥ १७ ॥

भवान्यै भवायापि मात्रे च पित्रे मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ।
शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै शिवायाम्बिकायै नमस्त्र्यम्बकाय ॥ १८ ॥

भवद्गौरवं मल्लघुत्वं विदित्वा प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ।
शिवात्मानुभावस्तुतावक्षमोऽहं स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥ १९ ॥

यदा कर्णरन्ध्रं व्रजेत्कालवाहद्विषत्कण्ठघण्टा घणात्कारनादः ।
वृषाधीशमारुह्य देवौपवाह्यन्तदा वत्स मा भीरिति प्रीणय त्वम् ॥ २० ॥

यदा दारुणाभाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः ।
तदा मन्मनस्त्वत्पदाम्भोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शम्भो ॥ २१ ॥

यदा दुर्निवारव्यथोऽहं शयानो लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।
तदा जह्नुकन्याजलालङ्कृतं ते जटामण्डलं मन्मनोमन्दिरं स्यात् ॥ २२ ॥

यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीदृशीयं दशेति ।
तदा देवदेवेश गौरीश शम्भो नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ २३ ॥

यदा पश्यतां मामसौ वेत्ति नास्मानयं श्वास एवेति वाचो भवेयुः ।
तदा भूतिभूषं भुजङ्गावनद्धं पुरारे भवन्तं स्फुटं भावयेयम् ॥ २४ ॥

यदा यातनादेहसन्देहवाही भवेदात्मदेहे न मोहो महान्मे ।
तदा काशशीतांशुसङ्काशमीश स्मरारे वपुस्ते नमस्ते स्मरामि ॥ २५ ॥

यदापारमच्छायमस्थानमद्भिर्जनैर्वा विहीनं गमिष्यामि मार्गम् ।
तदा तं निरुन्धङ्कृतान्तस्य मार्गं महादेव मह्यं मनोज्ञं प्रयच्छ ॥ २६ ॥

यदा रौरवादि स्मरन्नेव भीत्या व्रजाम्यत्र मोहं महादेव घोरम् ।
तदा मामहो नाथ कस्तारयिष्यत्यनाथं पराधीनमर्धेन्दुमौले ॥ २७ ॥

यदा श्वेतपत्रायतालङ्घ्यशक्तेः कृतान्ताद्भयं भक्तिवात्सल्यभावात् ।
तदा पाहि मां पार्वतीवल्लभान्यं न पश्यामि पातारमेतादृशं मे ॥ २८ ॥

इदानीमिदानीं मृतिर्मे भवित्रीत्यहो सन्ततं चिन्तया पीडितोऽस्मि ।
कथं नाम मा भून्मृतौ भीतिरेषा नमस्ते गतीनां गते नीलकण्ठ ॥ २९ ॥

अमर्यादमेवाहमाबालवृद्धं हरन्तं कृतान्तं समीक्ष्यास्मि भीतः ।
मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादाद्भवानीपते निर्भयोऽहं भवानि ॥ ३० ॥

जराजन्मगर्भाधिवासादिदुःखान्यसह्यानि जह्यां जगन्नाथ देव ।
भवन्तं विना मे गतिर्नैव शम्भो दयालो न जागर्ति किं वा दया ते ॥ ३१ ॥

शिवायेति शब्दो नमःपूर्व एष स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ।
महेशान मा गान्मनस्तो वचस्तः सदा मह्यमेतत्प्रदानं प्रयच्छ ॥ ३२ ॥

त्वमप्यम्ब मां पश्य शीतांशुमौलिप्रिये भेषजं त्वं भवव्याधिशान्तौ ।
बहुक्लेशभाजं पदाम्भोजपोते भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ ३३ ॥

अनुद्यल्ललाटाक्षि वह्नि प्ररोहैरवामस्फुरच्चारुवामोरुशोभैः ।
अनङ्गभ्रमद्भोगिभूषाविशेषैरचन्द्रार्धचूडैरलं दैवतैर्नः ॥ ३४ ॥

अकण्ठेकलङ्कादनङ्गेभुजङ्गादपाणौकपालादफालेऽनलाक्षात् ।
अमौलौशशाङ्कादवामेकलत्रादहं देवमन्यं न मन्ये न मन्ये ॥ ३५ ॥

महादेव शम्भो गिरीश त्रिशूलिंस्त्वदीयं समस्तं विभातीति यस्मात् ।
शिवादन्यथा दैवतं नाभिजाने शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३६ ॥

यतोऽजायतेदं प्रपञ्चं विचित्रं स्थितिं याति यस्मिन्यदेकान्तमन्ते ।
स कर्मादिहीनः स्वयञ्ज्योतिरात्मा शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३७ ॥

किरीटे निशेशो ललाटे हुताशो भुजे भोगिराजो गले कालिमा च ।
तनौ कामिनी यस्य तत्तुल्यदेवं न जाने न जाने न जाने न जाने ॥ ३८ ॥

अनेन स्तवेनादरादम्बिकेशं परां भक्तिमासाद्य यं ये नमन्ति ।
मृतौ निर्भयास्ते जनास्तं भजन्ते हृदम्भोजमध्ये सदासीनमीशम् ॥ ३९ ॥

भुजङ्गप्रियाकल्प शम्भो मयैवं भुजङ्गप्रयातेन वृत्तेन कॢप्तम्।
नरः स्तोत्रमेतत्पठित्वोरुभक्त्या सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ ४० ॥

Facebook Comments

You may also like...

Leave a Reply

Your email address will not be published.

error: Not allowed
%d bloggers like this: