Samba Panchashika – साम्बपञ्चाशिका


पुष्णन् देवानमृतविसरैरिन्दुमास्राव्य सम्यग्
भाभिः स्वाभी रसयति रसं यः परं नित्यमेव ।
क्षीणं क्षीणं पुनरपि च तं पूरयत्येवमीदृग्
दोलालीलोल्लसितहृदयं नौमि चिद्भानुमेकम् ॥

शब्दार्थत्वविवर्तमानपरमज्योतीरुचो गोपते-
-रुद्गीथोऽभ्युदितः पुरोऽरुणतया यस्य त्रयीमण्डलम् ।
भास्यद्वर्णपदक्रमेरिततमः सप्तस्वराश्वैर्विय-
-द्विद्यास्यन्दनमुन्नयन्निव नमस्तस्मै परब्रह्मणे ॥ १ ॥

ओमित्यन्तर्नदति नियतं यः प्रतिप्राणि शब्दो
वाणी यस्मात्प्रसरति परा शब्दतन्मात्रगर्भा ।
प्राणापानौ वहति च समौ यो मिथो ग्राससक्तौ
देहस्थं तं सपदि परमादित्यमाद्यं प्रपद्ये ॥ २ ॥

यस्त्वक्चक्षुःश्रवणरसनाघ्राणपाण्यङ्घ्रिवाणी-
-पायूपस्थस्थितिरपि मनोबुद्ध्यहङ्कारमूर्तिः ।
तिष्ठत्यन्तर्बहिरपि जगद्भासयन्द्वादशात्मा
मार्तण्डं तं सकलकरणाधारमेकं प्रपद्ये ॥ ३ ॥

या सा मित्रावरुणसदनादुच्चरन्तो त्रिषष्टिं
वर्णानत्र प्रकटकरणैः प्राणसङ्गात्प्रसूतान् ।
तां पश्यन्तीं प्रथममुदितां मध्यमां बुद्धिसंस्थां
वाचं वक्त्रे करणविशदां वैखरीं च प्रपद्ये ॥ ४ ॥

ऊर्ध्वाधःस्थान्यतनुभुवनान्यन्तरा सं‍निविष्टा
नानानाडिप्रसवगहना सर्वभूतान्तरस्था ।
प्राणापानग्रसननिरतैः प्राप्यते ब्रह्मनाडी
सा नः श्वेता भवतु परमादित्यमूर्तिः प्रसन्ना ॥ ५ ॥

न ब्रह्माण्डव्यवहितपथा नातिशीतोष्णरूपा
नो वा नक्तं‍दिवगममिताऽतापनीयापराहुः ।
वैकुण्ठीया तनुरिव रवे राजते मण्डलस्था
सा नः श्वेता भवतु परमादित्यमूर्तिः प्रसन्ना ॥ ६ ॥

यत्रारूढं त्रिगुणवपुषि ब्रह्म तद्बिन्दुरूपं
योगीन्द्राणां यदपि परमं भाति निर्वाणमार्गः ।
त्रय्याधारः प्रणव इति यन्मण्डलं चण्डरश्मे-
-रन्तः सूक्ष्मं बहिरपि बृहन्मुक्तयेऽहं प्रपन्नः ॥ ७ ॥

यस्मिन्सोमः सुरपितृनरैरन्वहं पीयमानः
क्षीणः क्षीणः प्रविशति यतो वर्धते चापि भूयः ।
यस्मिन्वेदा मधुनि सरघाकारवद्भान्ति चाग्रे
तच्चण्डांशोरमितममृतं मण्डलस्थं प्रपद्ये ॥ ८ ॥

ऐन्द्रीमाशां पृथुकवपुषा पूरयित्वा क्रमेण
क्रान्ताः सप्त प्रकटहरिणा येन पादेन लोकाः ।
कृत्वा ध्वान्तं विगलितबलिव्यक्ति पाताललीनं
विश्वालोकः स जयति रविः सत्त्वमेवोर्ध्वरश्मिः ॥ ९ ॥

ध्यात्वा ब्रह्म प्रथममतनु प्राणमूले नदन्तं
दृष्ट्वा चान्तः प्रणवमुखरं व्याहृतीः सम्यगुक्त्वा ।
यत्तद्वेदे तदिति सवितुर्ब्रह्मणोक्तं वरेण्यं
तद्भर्गाख्यं किमपि परमं धामगर्भं प्रपद्ये ॥ १० ॥

त्वां स्तोष्यामि स्तुतिभिरिति मे यस्तु भेदग्रहोऽयं
सैवाविद्या तदपि सुतरां तद्विनाशाय युक्तः ।
स्तौम्येवाहं त्रिविधमुदितं स्थूलसूक्ष्मं परं वा
विद्योपायः पर इति बुधैर्गीयते खल्वविद्या ॥ ११ ॥

योऽनाद्यन्तोऽप्यतनुरगुणोऽणोरणीयान्महीया-
-न्विश्वाकारः सगुण इति वा कल्पनाकल्पिताङ्गः ।
नानाभूतप्रकृतिविकृतीर्दर्शयन्भाति यो वा
तस्मै तस्मै भवतु परमादित्य नित्यं नमस्ते ॥ १२ ॥

तत्त्वाख्याने त्वयि मुनिजनाः नेति नेति ब्रुवन्तः
श्रान्ताः सम्यक्त्वमिति न च तैरीदृशो वेति चोक्तः ।
तस्मात्तुभ्यं नम इति वचोमात्रमेवास्मि वच्मि
प्रायो यस्मात्प्रसरति तरां भारती ज्ञानगर्भा ॥ १३ ॥

सर्वाङ्गीणः सकलवपुषामन्तरे योऽन्तरात्मा
तिष्ठन्काष्ठे दहन इव नो दृश्यसे युक्तिशून्यैः ।
यश्च प्राणारणिषु नियतैर्मथ्यमानासु सद्भि-
-र्दृश्यं ज्योतिर्भवसि परमादित्य तस्मै नमस्ते ॥ १४ ॥

स्तोता स्तुत्यः स्तुतिरिति भवान्कर्तृकर्मक्रियात्मा
क्रीडत्येकस्तव नुतिविधावस्वतन्त्रस्ततोऽहम् ।
यद्वा वच्मि प्रणयसुभगं गोपते तच्च तथ्यं
त्वत्तो ह्यन्यत्किमिव जगतां विद्यते तन्मृषा स्यात् ॥ १५ ॥

ज्ञानं नान्तःकरणरहितं विद्यतेऽस्मद्विधानां
त्वं चात्यन्तं सकलकरणागोचरत्वादचिन्त्यः ।
ध्यानातीतस्त्वमिति न विना भक्तियोगेन लभ्य-
-स्तस्माद्भक्तिं शरणममृतप्राप्तयेऽहं प्रपन्नः ॥ १६ ॥

हार्दं हन्ति प्रथममुदिता या तमः संश्रितानां
सत्त्वोद्रेकात्तदनु च रजः कर्मयोगक्रमेण ।
स्वभ्यस्ता च प्रथयतितरां सत्त्वमेव प्रपन्ना
निर्वाणाय व्रजति शमिनां तेऽर्क भक्तिस्त्रयीव ॥ १७ ॥

तामासाद्य श्रियमिव गृहे कामधेनुं प्रवासे
ध्वान्ते भातिं धृतिमिव वने योजने ब्रह्मनाडिम् ।
नावं चास्मिन्विषमविषयग्राहसंसारसिन्धौ
गच्छेयं ते परमममृतं यन्न शीतं न चोष्णम् ॥ १८ ॥

अग्नीषोमावखिलजगतः कारणं तौ मयूखैः
सर्गादाने सृजसि भगवन्ह्रासवृद्धिक्रमेण ।
तावेवान्तर्विषुवति समौ जुह्वतामात्मवह्नौ
द्वावप्यस्तं नयसि युगपन्मुक्तये भक्तिभाजाम् ॥ १९ ॥

स्थूलत्वं ते प्रकृतिगहनं नैव लक्ष्यं ह्यनन्तं
सूक्ष्मत्वं वा तदपि सदसद्व्यक्त्यभावादचिन्त्यम् ।
ध्यायामीत्थं कथमविदितं त्वामनाद्यन्तमन्त-
-स्तस्मादर्क प्रणयिनि मयि स्वात्मनैव प्रसीद ॥ २० ॥

यत्तद्वेद्यं किमपि परमं शब्दतत्त्वं त्वमन्त-
-स्तत्सद्व्यक्तिं जिगमिषु शनैर्लाति मात्रा कलाः खे ।
अव्यक्तेन प्रणववपुषा बिन्दुनादोदितं स-
-च्छब्दब्रह्मोच्चरति करणव्यञ्जितं वाचकं ते ॥ २१ ॥

प्रातःसन्ध्यारुणकिरणभागृङ्मयं राजसं य-
-न्मध्ये चापि ज्वलदिव यजुः शुक्लभाः सात्त्विकं वा ।
सायं सामास्तमितकिरणं यत्तमोल्लासि रूपं
साह्नः सर्गस्थितिलयविधावाकृतिस्ते त्रयीव ॥ २२ ॥

ये पातालोदधिमुनिनगद्वीपलोकाधिबीज-
-च्छन्दोभूतस्वरमुखनदत्सप्तसप्तिं प्रपन्नाः ।
ये चैकाश्वं निरवयववाग्भावमात्राधिरूढं
ते त्वामेव स्वरगुणकलावर्जितं यान्त्यनश्वम् ॥ २३ ॥

दिव्यं ज्योतिः सलिलपवनैः पूरयित्वा त्रिलोकी-
-मेकीभूतं पुनरपि च तत्सारमादाय गोभिः ।
अन्तर्लीनो विशसि वसुधां तद्गतः सूयसेऽन्नं
तच्च प्राणां‍स्त्वमिति जगतां प्राणभृत्सूर्य आत्मा ॥ २४ ॥

अग्नीषोमौ प्रकृतिपुरुषौ बिन्दुनादौ च नित्यौ
प्राणापानावपि दिननिशे ये च सत्यानृते द्वे ।
धर्माधर्मौ सदसदुभयं योऽन्तरावेश्य योगी
वर्तेतात्मन्युपरतमतिर्निर्गुणं त्वां विशेत्सः ॥ २५ ॥

गर्भाधानप्रसवविधये सुप्तयोरिन्दुभासा
सापत्न्येनाभिमुखमिव खे कान्तयोर्मध्यसंस्थः ।
द्यावापृथ्व्योर्वदनकमले गोमुखैर्बोधयित्वा
पर्यायेणापिबसि भगवन् षड्रसास्वादलोलः ॥ २६ ॥

सोमं पूर्णामृतमिव चरुं तेजसा साधयित्वा
कृत्वा तेनानलमुखजगत्तर्पर्णं वैश्वदेवम् ।
आमावस्यं विघसमिव खे तत्कलाशेषमश्नन्
ब्रह्माण्डान्तर्गृहपतिरिव स्वात्मयागं करोषि ॥ २७ ॥

कृत्वा नक्तं‍दिनमिव जगद्बीजमाव्यक्तिकं य-
-त्तत्रैवान्तर्दिनकर तथा ब्राह्ममन्यत्ततोऽल्पम् ।
दैवं पित्र्यं क्रमपरिगतं मानुषं चाल्पमल्पं
कुर्वन्ककुर्वन्कलयसि जगत्पञ्चधावर्तनाभिः ॥ २८ ॥

तत्त्वालोके तपन सुदिने ये परं सम्प्रबुद्धाः
ये वा चित्तोपशमरजनीयोगनिद्रामुपेताः ।
तेऽहोरात्रोपरमपरमानन्दसन्ध्यासु सौरं
भित्त्वा ज्योतिः परमपरमं यान्ति निर्वाणसञ्ज्ञम् ॥ २९ ॥

आब्रह्मेदं नवमिव जगज्जङ्गमस्थावरान्तं
सर्गे सर्गे विसृजसि रवे गोभिरुद्रिक्तसोमैः ।
दीप्तैः प्रत्याहरसि च लये तद्यथायोनि भूयः
सर्गान्तादौ प्रकटविभवां दर्शयन्रश्मिलीलाम् ॥ ३० ॥

श्रित्वा नित्योपचितमुचितं ब्रह्मतेजः प्रकाशं
रूपं सर्गस्थितिलयमुचा सर्वभूतेषु मध्ये ।
अन्तेवासिष्विव सुगुरुणा यः परोक्षः प्रकृत्या
प्रत्यक्षोऽसौ जगति भवता दर्शितः स्वात्मनात्मा ॥ ३१ ॥

लोकाः सर्वे वपुषि नियतं ते स्थितास्त्वं च तेषा-
-मेकैकस्मिन्युगपदगुणो विश्वहेतोर्गुणीव ।
इत्थम्भूते भवति भगवन्न त्वदन्योऽस्मि सत्यं
किं तु ज्ञस्त्वं परमपुरुषोऽहं प्रकृत्यैव चाज्ञः ॥ ३२ ॥

सङ्कल्पेच्छाद्यखिलकरणप्राणवाण्यो वरेण्याः
सम्पन्ना मे त्वदभिनवनाज्जन्म चेदं शरण्यम् ।
मन्ये चास्तं जिगमिषु शनैः पुण्यपापद्वयं त-
-द्भक्तिश्रद्धे तव चरणयोरन्यथा नो भवेताम् ॥ ३३ ॥

सत्यं भूयो जननमरणे त्वत्प्रपन्नेषु न स्त-
-स्तत्राप्येकं तव नुतिफलं जन्म याचे तदित्थम् ।
त्रैलोक्येशः शम इव परः पुण्यकायोऽप्ययोनिः
संसाराब्धौ प्लव इव जगत्तारणाय स्थिरः स्याम् ॥ ३४ ॥

सौषुम्णेन त्वममृतपथेनैत्य शीतांशुभावं
पुष्णास्यग्रे सुरनरपितॄन् शान्तभाभिः कलाभिः ।
पश्चादम्भो विशसि विविधाश्चौषधीस्तद्गतोऽपि
प्रीणास्येवं त्रिभुवनमतस्ते जगन्मित्रतार्क ॥ ३५ ॥

मन्दाक्रान्ते तमसि भवता नाथ दोषावसाने
नान्तर्लीना मम मतिरियं गाढनिद्रां जहाति ।
तस्मादस्तङ्गमिततमसा पद्मिनीवात्मभासा
सौरीत्येषा दिनकर परं नीयतामाशु बोधम् ॥ ३६ ॥

येन ग्रासीकृतमिव जगत्सर्वमासीत्तदस्तं
ध्वान्तं नीत्वा पुनरपि विभो तद्दयाघ्रातचित्तः ।
धत्से नक्तं‍दिनमपि गती शुक्लकृष्णे विभज्य
त्राता तस्माद्भव परिभवे दुष्कृते मेऽपि भानो ॥ ३७ ॥

आसंसारोपचितसदसत्कर्मबन्धाश्रिताना-
-माधिव्याधिप्रजनमरणक्षुत्पिपासार्दितानाम् ।
मिथ्याज्ञानप्रबलतमसा नाथ चान्धीकृतानां
त्वं नस्त्राता भव करुणया यत्र तत्र स्थितानाम् ॥ ३८ ॥

सत्यासत्यस्खलितवचसां शौचलज्जोज्झिताना-
-मज्ञानानामफलसफलप्रार्थनाकातराणाम् ।
सर्वावस्थास्वखिलविषयाभ्यस्तकौतूहलानां
त्वं नस्त्राता भव पितृतया भोगलोलार्भकाणाम् ॥ ३९ ॥

यावद्देहं जरयति जरा नान्तकादेत्य दूती
नो वा भीमस्त्रिफणभुजगाकारदुर्वारपाशः ।
गाढं कण्ठे लगति सहसा जीवितं लेलिहान-
-स्तावद्भक्ताभयद सदयं श्रेयसे नः प्रसीद ॥ ४० ॥

विश्वप्राणग्रसनरसनाटोपकोपप्रगल्भं
मृत्योर्वक्त्रं दहननयनोद्दामदंष्ट्राकरालम् ।
यावदृष्ट्वा व्रजति न भिया पञ्चतामेष काय-
-स्तावन्नित्यामृतमय रवे पाहि नः कान्दिशीकान् ॥ ४१ ॥

शब्दाकारं वियदिव वपुस्ते यजुःसामधाम्नः
सप्तच्छन्दां‍स्यपि च तुरगा ऋङ्मयं मण्डलं च ।
एवं सर्वश्रुतिमयतया मद्दयानुग्रहाद्वा
क्षिप्रं मत्तः कृपणकरुणाक्रन्दमाकर्णयेमम् ॥ ४२ ॥

नाशं नास्मच्चरणशरणा यान्त्यपि ग्रस्यमाना
देवैरित्थं सितमिव यशो दर्शयन्स्वं त्रिलोक्याम् ।
मन्ये सोमं क्षततनुममागर्भवृद्ध्या विवस्वन्
शुक्लच्छायां नयसि शनकैः स्वां सुषुम्णांशुभासा ॥ ४३ ॥

आस्तां जन्मप्रभृति भवतः सेवनं तद्धि लोके
वाच्यं केनापरिमितफलं भुक्तिमुक्तिप्रकारम् ।
ज्योतिर्मात्रं स्मृतिपथमितो जीवितान्तेऽपि भास्व-
-न्निर्वाणाय प्रभवसि सतां तेन ते कः समोऽन्यः ॥ ४४ ॥

अप्रत्यक्षत्रिदशभजनाद्यत्परोक्षं फलं त-
-त्पुंसां युक्तं भवति हि समं कारणेनैव कार्यम् ।
प्रत्यक्षस्त्वं सकलजगतां यत्समक्षं फलं मे
युष्मद्भक्तेः समुचितमतस्तत्तु याचे यथा त्वाम् ॥ ४५ ॥

ये चारोग्यं दिशति भगवान्सेवितोऽप्येवमाहु-
-स्ते तत्त्वज्ञा जगति सुभगा भोगयोगप्रधानाः ।
भुक्तेर्मुक्तेरपि च जगतां यच्च पूर्णं सुखानां
तस्यान्योऽर्कादमृतवपुषः को हि नामास्तु दाता ॥ ४६ ॥

हित्वा हित्वा गुरुचपलतामप्यनेकान्निजार्था-
-न्यैरेकार्थीकृतमिव भवत्सेवनं मत्प्रियार्थम् ।
तेषामिच्छाम्युपकृतिमहं स्वेन्द्रियाणां प्रियाणा-
-मादौ तस्मान्मम दिनपते देहि तेभ्यः प्रसादम् ॥ ४७ ॥

किं तन्नामोच्चरति वचनं यस्य नोच्चारकस्त्वं
किं तद्वाच्यं सकलवचसां विश्वमूर्ते न यत्त्वम् ।
तस्मादुक्तं यदपि तदपि त्वन्नुतौ भक्तियोगा-
-दस्माभिस्तद्भवतु भगवंस्त्वत्प्रसादेन धन्यम् ॥ ४८ ॥

या पन्थानं दिशति शिशिराद्युत्तरं देवयानं
या वा कृष्णं पितृपथमथो दक्षिणं प्रावृडाद्यम् ।
ताभ्यामन्या विषुवदभिजिन्मध्यमा कृत्यशून्या
धन्या काश्चित्प्रकृतिपुरुषावन्तरा मेऽस्तु वृत्तिः ॥ ४९ ॥

स्थित्वा किञ्चिन्मन इव पिबन्सेतुबन्धस्य मध्ये
प्राप्योपेयं धृवपदमथो व्यक्तमुद्दाल्य तालु ।
सत्यादूर्ध्वं किमपि परमं व्योम सोमाग्निशून्यं
गच्छेयं त्वां सुरपितृगती चान्तरा ब्रह्मभूतः ॥ ५० ॥

सर्वात्मत्वं सवितुरिति यो वाङ्मनःकायबुद्ध्या
रागद्वेषोपशमसमतायोगमेवारुरुक्षुः ।
धर्माधर्मग्रसनरशनामुक्तये युक्तियुक्तां
स श्रीसाम्बः स्तुतिमिति रवेः स्वप्रशान्तां चकार ॥ ५१ ॥

भक्तिश्रद्धाद्यखिलतरुणीवल्लभेनेदमुक्तं
श्रीसाम्बेन प्रकटगहनं स्तोत्रमध्यात्मगर्भम् ।
यः सावित्रं पठति नियतं स्वात्मवत्सर्वलोका-
-न्पश्यन्सोऽन्ते व्रजति शुकवन्मण्डलं चण्डरश्मेः ॥ ५२ ॥

इति परमरहस्यश्लोकपञ्चाशदेषा
तपननवनपुण्या सागमब्रह्मचर्चा ।
हरतु दुरितमस्मद्वर्णिताकर्णिता वो
दिशतु च शुभसिद्धिं मातृवद्भक्तिभाजाम् ॥ ५३ ॥

श्रीस्वात्मसंविदभिन्नरूपशिवार्पणमस्तु ।
समाप्तं चेदं साम्बपञ्चाशिकाशास्त्रम् ॥

इति साम्बप्रणीता साम्बपञ्चाशिका सम्पूर्णा ॥


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed