Sri Lakshmi Narayana Ashtakam – श्री लक्ष्मीनारायणाष्टकम्


आर्तानां दुःखशमने दीक्षितं प्रभुमव्ययम् ।
अशेषजगदाधारं लक्ष्मीनारायणं भजे ॥ १ ॥

अपारकरुणाम्भोधिं आपद्बान्धवमच्युतम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ २ ॥

भक्तानां वत्सलं भक्तिगम्यं सर्वगुणाकरम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ३ ॥

सुहृदं सर्वभूतानां सर्वलक्षणसम्युतम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ४ ॥

चिदचित्सर्वजन्तूनां आधारं वरदं परम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ५ ॥

शङ्खचक्रधरं देवं लोकनाथं दयानिधिम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ६ ॥

पीताम्बरधरं विष्णुं विलसत्सूत्रशोभितम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ७ ॥

हस्तेन दक्षिणेन यजं अभयप्रदमक्षरम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ८ ॥

यः पठेत् प्रातरुत्थाय लक्ष्मीनारायणाष्टकम् ।
विमुक्तस्सर्वपापेभ्यः विष्णुलोकं स गच्छति ॥ ९ ॥

इति श्री लक्ष्मीनारायणाष्टकम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed