Mrityunjaya manasika puja stotram – मृत्युञ्जय मानसिक पूजा स्तोत्रम्



कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं
कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम् ।
गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं
कण्ठालङ्कृतशेषभूषणममुं मृत्युञ्जयं भावये ॥ १ ॥

आगत्य मृत्युञ्जय चन्द्रमौले
व्याघ्राजिनालङ्कृत शूलपाणे ।
स्वभक्तसंरक्षणकामधेनो
प्रसीद विश्वेश्वर पार्वतीश ॥ २ ॥

भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालङ्कृते
सौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते ।
ब्रह्मेन्द्रामरयोगिपुङ्गवगणैर्युक्ते च कल्पद्रुमैः
श्रीमृत्युञ्जय सुस्थिरो भव विभो माणिक्यसिंहासने ॥ ३ ॥

मन्दारमल्लीकरवीरमाधवी-
-पुन्नागनीलोत्पलचम्पकान्वितैः ।
कर्पूरपाटीरसुवासितैर्जलै-
-राधत्स्व मृत्युञ्जय पाद्यमुत्तमम् ॥ ४ ॥

सुगन्धपुष्पप्रकरैः सुवासितै-
-र्वियन्नदीशीतलवारिभिः शुभैः ।
त्रिलोकनाथार्तिहरार्घ्यमादरा-
-द्गृहाण मृत्युञ्जय सर्ववन्दित ॥ ५ ॥

हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः ।
मृत्युञ्जय महादेव शुद्धाचमनमाचर ॥ ६ ॥

गुडदधिसहितं मधुप्रकीर्णं
सुघृतसमन्वितधेनुदुग्धयुक्तम् ।
शुभकर मधुपर्कमाहर त्वं
त्रिनयन मृत्युहर त्रिलोकवन्द्य ॥ ७ ॥

पञ्चास्त्र शान्त पञ्चास्य पञ्चपातकसंहर ।
पञ्चामृतस्नानमिदं कुरु मृत्युञ्जय प्रभो ॥ ८ ॥

जगत्त्रयीख्यात समस्ततीर्थ-
-समाहृतैः कल्मषहारिभिश्च ।
स्नानं सुतोयैः समुदाचर त्वं
मृत्युञ्जयानन्तगुणाभिराम ॥ ९ ॥

आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात् ।
मार्जयामि जटाभारं शिव मृत्युञ्जय प्रभो ॥ १० ॥

नानाहेमविचित्राणि चीरचीनाम्बराणि च ।
विविधानि च दिव्यानि मृत्युञ्जय सुधारय ॥ ११ ॥

विशुद्धमुक्ताफलजालरम्यं
मनोहरं काञ्चनहेमसूत्रम् ।
यज्ञोपवीतं परमं पवित्र-
-माधत्स्व मृत्युञ्जय भक्तिगम्य ॥ १२ ॥

श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं
कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितम् ।
दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं
सर्वाङ्गेषु विलेपयामि सततं मृत्युञ्जय श्रीविभो ॥ १३ ॥

अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः ।
मृत्युञ्जय महादेव पूजयामि वृषध्वज ॥ १४ ॥

चम्पकपङ्कजकुरवककुन्दैः करवीरमल्लिकाकुसुमैः ।
विस्तारय निजमकुटं मृत्युञ्जय पुण्डरीकनयनाप्त ॥ १५ ॥

माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे ।
पादौ सत्पद्मसदृशौ मृत्युञ्जय निवेशय ॥ १६ ॥

माणिक्यकेयूरकिरीटहारैः
काञ्चीमणिस्थापितकुण्डलैश्च ।
मञ्जीरमुख्याभरणैर्मनोज्ञै-
-रङ्गानि मृत्युञ्जय भूषयामि ॥ १७ ॥

गजवदनस्कन्दधृते-
-नातिस्वच्छेन चामरयुगेन ।
गलदलकाननपद्मं
मृत्युञ्जय भावयामि हृत्पद्मे ॥ १८ ॥

मुक्तातपत्रं शशिकोटिशुभ्रं
शुभप्रदं काञ्चनदण्डयुक्तम् ।
माणिक्यसंस्थापितहेमकुम्भं
सुरेश मृत्युञ्जय तेऽर्पयामि ॥ १९ ॥

मणिमुकुरे निष्पटले
त्रिजगद्गाढान्धकारसप्ताश्वे ।
कन्दर्पकोटिसदृशं
मृत्युञ्जय पश्य वदनमात्मीयम् ॥ २० ॥

कर्पूरचूर्णं कपिलाज्यपूतं
दास्यामि कालेयसमान्वितैश्च ।
समुद्भवं पावनगन्धधूपितं
मृत्युञ्जयाङ्गं परिकल्पयामि ॥ २१ ॥

वर्तित्रयोपेतमखण्डदीप्त्या
तमोहरं बाह्यमथान्तरं च ।
साज्यं समस्तामरवर्गहृद्यं
सुरेश मृत्युञ्जय वंशदीपम् ॥ २२ ॥

राजान्नं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं
हिङ्गूजीरकसन्मरीचिमिलितैः शाकैरनेकैः शुभैः ।
शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं
श्रीमृत्युञ्जय पार्वतीप्रिय विभो सापोशनं भुज्यताम् ॥ २३ ॥

कूश्माण्डवार्ताकपटोलिकानां
फलानि रम्याणि च कारवल्ल्या ।
सुपाकयुक्तानि ससौरभाणि
श्रीकण्ठ मृत्युञ्जय भक्षयेश ॥ २४ ॥

शीतलं मधुरं स्वच्छं पावनं वासितं लघु ।
मध्ये स्वीकुरु पानीयं शिव मृत्युञ्जय प्रभो ॥ २५ ॥

शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम् ।
कदलीफलसंमिश्रं भुज्यतां मृत्युसंहर ॥ २६ ॥

केवलमतिमाधुर्यं
दुग्धैः स्निग्धैश्च शर्करामिलितैः ।
एलामरीचमिलितं
मृत्युञ्जय देव भुङ्क्ष्व परमान्नम् ॥ २७ ॥

रम्भाचूतकपित्थकण्ठकफलैर्द्राक्षारसस्वादुम-
-त्खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः ।
कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो
श्रीमृत्युञ्जय पूरय त्रिभुवनाधारं विशालोदरम् ॥ २८ ॥

मनोज्ञरम्भावनखण्डखण्डिता-
-न्रुचिप्रदान्सर्षपजीरकांश्च ।
ससौरभान्सैन्धवसेवितांश्च
गृहाण मृत्युञ्जय लोकवन्द्य ॥ २९ ॥

हिङ्गूजीरकसहितं
विमलामलकं कपित्थमतिमधुरम् ।
बिसखण्डाँल्लवणयुता-
-न्मृत्युञ्जय तेऽर्पयामि जगदीश ॥ ३० ॥

एलाशुण्ठीसहीतं
दध्यन्नं चारुहेमपात्रस्थम् ।
अमृतप्रतिनिधिमाढ्यं
मृत्युञ्जय भुज्यतां त्रिलोकेश ॥ ३१ ॥

जम्बीरनीराञ्चितशृङ्गबेरं
मनोहरानम्लशलाटुखण्डान् ।
मृदूपदंशान्सहसोपभुङ्क्ष्व
मृत्युञ्जय श्रीकरुणासमुद्र ॥ ३२ ॥

नागररामठयुक्तं
सुललितजम्बीरनीरसम्पूर्णम् ।
मथितं सैन्धवसहितं
पिब हर मृत्युञ्जय क्रतुध्वंसिन् ॥ ३३ ॥

मन्दारहेमाम्बुजगन्धयुक्तै-
-र्मन्दाकिनीनिर्मलपुण्यतोयैः ।
गृहाण मृत्युञ्जय पूर्णकाम
श्रीमत्परापोशनमभ्रकेश ॥ ३४ ॥

गगनधुनीविमलजलै-
-र्मृत्युञ्जय पद्मरागपात्रगतैः ।
मृगमदचन्दनपूर्णं
प्रक्षालय चारु हस्तपदयुग्मम् ॥ ३५ ॥

पुंनागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः ।
मृत्युञ्जय महादेव पुनराचमनं कुरु ॥ ३६ ॥

मौक्तिकचूर्णसमेतै-
-र्मृगमदघनसारवासितैः पूगैः ।
पर्णैः स्वर्णसमानै-
-र्मृत्युञ्जय तेऽर्पयामि ताम्बूलम् ॥ ३७ ॥

नीराजनं निर्मलदीप्तिमद्भि-
-र्दीपाङ्कुरैरुज्ज्वलमुच्छ्रितैश्च ।
घण्टानिनादेन समर्पयामि
मृत्युञ्जयाय त्रिपुरान्तकाय ॥ ३८ ॥

विरिञ्चिमुख्यामरबृन्दवन्दिते
सरोजमत्स्याङ्कितचक्रचिह्निते ।
ददामि मृत्युञ्जय पादपङ्कजे
फणीन्द्रभूषे पुनरर्घ्यमीश्वर ॥ ३९ ॥

पुंनागनीलोत्पलकुन्दजाजी-
-मन्दारमल्लीकरवीरपङ्कजैः ।
पुष्पाञ्जलिं बिल्वदलैस्तुलस्या
मृत्युञ्जयाङ्घ्रौ विनिवेशयामि ॥ ४० ॥

पदे पदे सर्वतमोनिकृन्तनं
पदे पदे सर्वशुभप्रदायकम् ।
प्रदक्षिणं भक्तियुतेन चेतसा
करोमि मृत्युञ्जय रक्ष रक्ष माम् ॥ ४१ ॥

नमो गौरीशाय स्फटिकधवलाङ्गाय च नमो
नमो लोकेशाय स्तुतविबुधलोकाय च नमः ।
नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो
नमः फालाक्षाय स्मरमदविनाशाय च नमः ॥ ४२ ॥

संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते
नित्यं पुत्रकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम् ।
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो
श्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥ ४३ ॥

सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे
कौशेयेन मनोहरेण धवलेनाच्छादिते सर्वशः ।
कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये
पार्वत्याः करपद्मलालितपदं मृत्युञ्जयं भावये ॥ ४४ ॥

चतुश्चत्वारिंशद्विलसदुपचारैरभिमतै-
-र्मनः पद्मे भक्त्या बहिरपि च पूजां शुभकरीम् ।
करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमा-
-न्प्रयाति श्रीमृत्युञ्जयपदमनेकाद्भुतपदम् ॥ ४५ ॥

प्रातर्लिङ्गमुमापतेरहरहः सन्दर्शनात्स्वर्गदं
मध्याह्ने हयमेधतुल्यफलदं सायन्तने मोक्षदम् ।
भानोरस्तमये प्रदोषसमये पञ्चाक्षराराधनं
तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम् ॥ ४६ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमृत्युञ्जय मानसिकपूजा स्तोत्रं सम्पूर्णम् ॥


इतर श्री शिव स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed