Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
देवि त्वदावास्यमिदं न किञ्चि-
-द्वस्तु त्वदन्यद्बहुधेव भासि ।
देवासुरासृक्पनरादिरूपा
विश्वात्मिके ते सततं नमोऽस्तु ॥ ४१-१ ॥
न जन्म ते कर्म च देवि लोक-
-क्षेमाय जन्मानि दधासि मातः ।
करोषि कर्माणि च निस्पृहा त्वं
जगद्विधात्र्यै सततं नमस्ते ॥ ४१-२ ॥
तत्त्वत्पदं यद्ध्रुवमारुरुक्षुः
पुमान् व्रती निश्चलदेहचित्तः ।
करोति तीव्राणि तपांसि योगी
तस्यै नमस्ते जगदम्बिकायै ॥ ४१-३ ॥
त्वदाज्ञया वात्यनिलोऽनलश्च
ज्वलत्युदेति द्युमणिः शशी च ।
निजैर्निजैः कर्मभिरेव सर्वे
त्वां पूजयन्ते वरदे नमस्ते ॥ ४१-४ ॥
भक्तिर्न वन्ध्या यत एव देवि
रागादिरोगाभिभवाद्विमुक्ताः ।
मर्त्यादयस्त्वत्पदमाप्नुवन्ति
तस्यै नमस्ते भुवनेशि मातः ॥ ४१-५ ॥
सर्वात्मना यो भजते त्वदङ्घ्रिं
माया तवामुष्य सुखं ददाति ।
दुःखं च सा त्वद्विमुखस्य देवि
मायाधिनाथे सततं नमस्ते ॥ ४१-६ ॥
दुःखं न दुःखं न सुखं सुखं च
त्वद्विस्मृतिर्दुःखमसह्यभारम् ।
सुखं सदा त्वत्स्मरणं महेशि
लोकाय शं देहि नमो नमस्ते ॥ ४१-७ ॥
पतन्तु ते देवि कृपाकटाक्षाः
सर्वत्र भद्राणि भवन्तु नित्यम् ।
सर्वोऽपि मृत्योरमृतत्वमेतु
नश्यन्त्वभद्राणि शिवे नमस्ते ॥ ४१-८ ॥
नमो नमस्तेऽखिलशक्तियुक्ते
नमो नमस्ते जगतां विधात्रि ।
नमो नमस्ते करुणार्द्रचित्ते
नमो नमस्ते सकलार्तिहन्त्रि ॥ ४१-९ ॥
दुर्गे महालक्ष्मि नमो नमस्ते
भद्रे महावाणि नमो नमस्ते ।
कल्याणि मातङ्गि रमे भवानि
सर्वस्वरूपे सततं नमस्ते ॥ ४१-१० ॥
यत्किञ्चिदज्ञातवतेह देवी-
-नारायणीयं रचितं मयेदम् ।
अभद्रनाशाय सतां हिताय
तव प्रसादाय च नित्यमस्तु ॥ ४१-११ ॥
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.