Deena Bandhu Ashtakam – दीनबन्ध्वष्टकम्


यस्मादिदं जगदुदेति चतुर्मुखाद्यं
यस्मिन्नवस्थितमशेषमशेषमूले ।
यत्रोपयाति विलयं च समस्तमन्ते
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ १ ॥

चक्रं सहस्रकरचारु करारविन्दे
गुर्वी गदा दरवरश्च विभाति यस्य ।
पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ २ ॥

येनोद्धृता वसुमती सलिले निमग्ना
नग्ना च पाण्डववधूः स्थगिता दुकूलैः ।
सम्मोचितो जलचरस्य मुखाद्गजेन्द्रो
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ३ ॥

यस्यार्द्रदृष्टिवशतस्तु सुरास्समृद्धिं
कोपेक्षणेन दनुजा विलयं व्रजन्ति ।
भीताश्चरन्ति च यतोऽर्कयमानिलाद्याः
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ४ ॥

गायन्ति सामकुशला यमजं मखेषु
ध्यायन्ति धीरमतयो यतयो विविक्ते ।
पश्यन्ति योगिपुरुषाः पुरुषं शरीरे
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ५ ॥

आकाररूपगुणयोगविवर्जितोऽपि
भक्तानुकम्पननिमित्तगृहीतमूर्तिः ।
यस्सर्वगोऽपि कृतशेषशरीरशय्यो
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ६ ॥

यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रबृन्दै-
राराध्यते भवदवानलदाहशान्त्यै ।
सर्वापराधमविचिन्त्य ममाखिलात्मा
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ७ ॥

यन्नामकीर्तनपरः श्वपचोऽपि मानं
हित्वाखिलं कलिमलं भुवनं पुनाति ।
दग्ध्वा ममाघमखिलं करुणेक्षणेन
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ८ ॥

दीनबन्ध्वष्टकं पुण्यं ब्रह्मानन्देन भाषितं ।
यः पठेत्प्रयतो नित्यं तस्य विष्णुः प्रसीदति ॥ ९ ॥

इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं दीनबन्ध्वष्टकम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed