Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्री याज्ञवल्क्याष्टोत्तर शतनामस्तोत्रस्य, कात्यायन ऋषिः अनुष्टुप् छन्दः, श्री याज्ञवल्क्यो गुरुः, ह्रां बीजम्, ह्रीं शक्तिः, ह्रूं कीलकम्, मम श्री याज्ञवल्क्यस्य प्रसाद सिद्ध्यर्थे जपे विनियोगः ।
न्यासम् ।
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुम् ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
भूर्भुवस्स्वरोमिति दिग्बन्धः ॥
ध्यानम् ।
वन्देऽहं मङ्गलात्मानं भास्वन्तं वेदविग्रहम् ।
याज्ञवल्क्यं मुनिश्रेष्ठं जिष्णुं हरिहरप्रभम् ॥
जितेन्द्रियं जितक्रोधं सदाध्यानपरायणम् ।
आनन्दनिलयं वन्दे योगानन्दं मुनीश्वरम् ॥
वेदान्तवेद्यं सकलागमग्नं
दयासुधासिन्धुमनन्तरूपम् ।
श्री याज्ञवल्क्यं परिपूर्णचन्द्रं
श्रीमद्गुरुं नित्यमहं नमामि ॥
प्रणमाद्यं दिनमणिं योगीश्वर शिरोमणिम् ।
सर्वज्ञं याज्ञवल्क्यं तच्छिष्यं कात्यायनं मुनिम् ॥
पञ्चपूजा ।
लं पृथिव्यात्मने गन्धान् धारयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने दिव्यामृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मने समस्तराजोपचारान् देवोपचारान् समर्पयामि ।
मुनयः ऊचुः ।
भगवन्मुनिशार्दूल गौतम ब्रह्मवित्तमः ।
उपायं कृपया ब्रूहि तत्त्वज्ञानस्य नो दृढम् ॥
कृतप्रश्नेषु तेष्वेवं कृपया मुनिसत्तमः ।
ध्यात्वामुहूर्तं धर्मात्मा इदं प्राह स गौतमः ॥
गौतम उवाच ।
उपायश्श्रूयतां सम्यक् तत्त्व ज्ञानस्य सिद्धये ।
यथा मति प्रवक्ष्यामि विचार्य मनसा मुहुः ॥
श्रुणुध्वं मुनयो यूयं तत्त्वज्ञान बुभुत्सवः।
यस्य स्मरणमात्रेण सुलभस्तत्व निश्चयः ॥
ब्रह्मिष्ठ प्रवरस्याऽस्य याज्ञवल्क्यस्य शोभनम् ।
नाम्नामष्टोत्तरशतं तत्त्वज्ञानप्रदायकम् ॥
सर्वपापप्रशमनं चाऽयुरारोग्यवर्धनम् ।
अष्टोत्तर शतस्याऽस्य ऋषिः कात्यायनः स्मृतः ॥
छन्दोऽनुष्टुप् देवता च याज्ञवल्क्यो महामुनिः ।
इदं जपन्ति ये वै ते मुक्ति मे वसमाप्नुयुः ॥
॥ स्तोत्रम् ॥
श्रीयाज्ञ्यवल्क्यो ब्रह्मिष्ठो जनकस्यगुरुस्तथा ।
लोकाचार्यस्तथा ब्रह्ममनोजो योगिनाम्पतिः ॥
शाकल्य प्राणदाता च मैत्रेयी ज्ञानदो महान् ।
कात्यायनीप्रियः शान्तः शरणत्राणतत्परः ॥
धर्मशास्त्रप्रणेता च ब्रह्मविद् ब्राह्मणोत्तमः ।
योगीश्वरो योगमूर्तिः योगशास्त्रप्रवर्तकः ॥
गताऽगतज्ञोभूतानां विद्याऽविद्याविभागवित् ।
भगवान् शास्त्रतत्त्वज्ञः तपस्वीशरणंविभुः ॥
तत्त्वज्ञान प्रदाता च सर्वज्ञः करुणात्मवान् ।
सन्यासिनामादिमश्च सूर्यशिष्यो जितेन्द्रियः ॥
अयातयाम सञ्ज्ञायां प्रवर्तन परो गुरुः ।
वाजि विप्रोत्तमः सत्यः सत्यवादी दृढव्रतः ॥
धातृ प्रसाद संलब्ध गायत्री महिमा मतिः ।
गार्गिस्तुतो धर्मपुत्र यागाध्वर्युर्विचक्षणः ॥
दुष्टराज्ञांशापदाता शिष्टानुग्रहकारकः ।
अनन्तगुणरत्नाढ्यो भवसागरतारकः ॥
स्मृतिमात्रात्पापहन्ता ज्योतिर्ज्योतिविदां वरः ।
विश्वाचार्यो विष्णुरूपो विश्वप्रिय हितेरतः ॥
श्रुतिप्रसिद्धः सिद्धात्मा समचित्तः कलाधरः ।
आदित्यरूप आदित्यसहिष्णुर्मुनिसत्तमः ॥
सामश्रवादिशिष्यैश्च पूजताङ्घ्रिः दयानिधिः ।
ब्रह्मरातसुतः श्रीमान् पङ्क्तिपावन पावनः ॥
संशयस्यापिसर्वस्यनिवर्तनपटुव्रतः ।
सनकादिमहायोगिपूजितः पुण्यकृत्तमः ॥
सूर्यावतारः शुद्धात्मा यज्ञनारायणांशभृत् ।
आदिवैदेहशालाङ्क-ऋषिजेतात्रयीमयः ॥
होताश्वलमुनिप्राप्तप्रभावः कार्यसाधकः ।
शरणागतवैदेहः कृपालुः लोकपावनः ॥
ब्रह्मिष्ठप्रवरो दान्तो वेदवेद्यो महामुनिः ।
वाजीवाजसनेयश्च वाजिविप्रकृताधिकृत् ॥
कल्याणदो यज्ञराशिर्यज्ञात्मा यज्ञवत्सलः ।
यज्ञप्रधानो यज्ञेशप्रीतिसञ्जननो धृवः ॥
कृष्णद्वैपायनाचार्यो ब्रह्मदत्तप्रसादकः ।
शाण्डिल्यविद्या प्रभृति विद्यावादेषु निष्ठितः ॥
अज्ञानान्धतमःसूर्यो भगवद्ध्यान पूजितः ।
त्रयीमयो गवांनेता जयशीलः प्रभाकरः ॥
वैशम्पायन शिष्याणां तैत्तरीयत्वदायकः ।
कण्वादिभ्यो यात याम शाखाध्या पयितृत्त्व भाक् ॥
पङ्क्तिपावनविप्रेभ्यः परमात्मैकबुद्धिमान् ।
तेजोराशिः पिशङ्गाक्षः परिव्राजकराण्मुनिः ॥
नित्याऽनित्यविभागज्ञः सत्याऽसत्यविभागवित्।
फलश्रुति:-
एतदष्टोत्तरशतं नाम्नां गुह्यतमं विदुः ।
याज्ञवल्क्यप्रसादेन ज्ञात्वोक्तं भवतां मयम् ॥
जपध्वं मुनि शार्दूलास्तत्वज्ञानं दृढं भवेत् ।
प्रातः काले समुत्थाय स्नात्वा नियत मानसः ॥
इदं जपति योगीश नाम्नामष्टोत्तरंशतम् ।
स एव मुनिशार्दूलो दृढ तत्त्व धियां वरः ॥
विद्यार्थी चाप्नुयात् विद्यां धनार्थी चाप्नुयाद्धनम् ।
आयुरर्थी च दीर्घायुः नाऽपमृत्युरवाप्नुयात् ॥
राज्यार्थी राज्यभाग्भूयात् कन्यार्थी कन्यकां लभेत् ।
रोगर्तो मुच्यते रोगात् त्रिंशद्वारञ्जपेन्नरः ॥
शतवारं भानुवारे जप्त्वाऽभीष्ट मवाप्नुयात् ।
इत्युक्तं समुपाश्रित्य गौतमेन महात्मना ॥
तथैव जजपुस्तत्र ते सर्वेऽपि यथाक्रमम् ।
ब्राह्मणान्भोजयामासुः पुनश्चरणकर्मणि ॥
अष्टोत्तरशतस्यास्य यज्ञवल्क्यस्य धीमतः ।
अत्यन्तगूढ माहात्म्यं भस्मच्छन्मानलोपमम् ॥
ततस्तु ब्रह्मविच्छेष्टो गौतमो मुनिसत्तमः ।
प्राणायामपरो भूत्वा स्नात्वा तद्ध्यानमास्थितः ॥
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुम् ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
भूर्भुवस्स्वरोमिति दिग्विमोकः ॥
इति श्रीमदादित्यपुराणे सनत्कुमारसंहितायां गौतममुनिवृन्द संवादे श्री याज्ञवल्क्यस्याऽष्टोत्तर शतनाम स्तोत्रम् सम्पूर्णम् ।
ओं योगीश्वराय विद्महे याज्ञवल्क्यय धीमहि। तन्न श्शुक्लः प्रचोदयात् ॥
इतर श्री गुरु स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

