Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीः जय राम सदाराम सच्चिदानन्दविग्रहः ।
अविद्यापङ्कगलितनिर्मलाकार ते नमः ॥ १ ॥
जयाऽखिलजगद्भारधारण श्रमवर्जित ।
तापत्रयविकर्षाय हलं कलयते सदा ॥ २ ॥
प्रपन्नदीनत्राणाय बलरामाय ते नमः ।
त्वमेवेश पराशेषकलुषक्षालनप्रभुः ॥ ३ ॥
प्रपन्नकरुणासिन्धो भक्तप्रिय नमोऽस्तु ते ।
चराचरफणाग्रेणधृता येन वसुन्धरा ॥ ४ ॥
मामुद्धरास्मद्दुष्पाराद्भवांभोधेरपारतः ।
परापराणां परमं परमेश नमोऽस्तु ते ॥ ५ ॥
इमं स्तवं यः पठति बलरामाधिदैवतम् ।
बलिष्ठः सर्वकार्येषु गरिष्ठः सोऽभिजायते ॥ ६ ॥
इति श्री बलराम स्तोत्रम् ।
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.