Balakanda Sarga 43 – बालकाण्ड त्रिचत्वारिंशः सर्गः (४३)



॥ गङ्गावतरणम् ॥

देवदेवे गते तस्मिन्सोङ्गुष्ठाग्रनिपीडिताम् ।
कृत्वा वसुमतीं राम संवत्सरमुपासत ॥ १ ॥

ऊर्ध्वबाहुर्निरालम्बो वायुभक्षो निराश्रयः ।
अचलः स्थाणुवत्स्थित्वा रात्रिन्दिवमरिन्दम ॥ २ ॥

अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः ।
उमापतिः पशुपती राजानमिदमब्रवीत् ॥ ३ ॥

प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् ।
शिरसा धारयिष्यामि शैलराजसुतामहम् ॥ ४ ॥

ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता ।
तदा सा सुमहद्रूपं कृत्वा वेगं च दुःसहम् ॥ ५ ॥

आकाशादपतद्राम शिवे शिवशिरस्युत ।
अचिन्तयच्च सा देवी गङ्गां परमदुर्धरा ॥ ६ ॥

विशाम्यहं हि पातालं स्रोतसा गृह्य शङ्करम् ।
तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान्हरः ॥ ७ ॥

तिरोभावयितुं बुद्धिं चक्रे त्रिणयनस्तदा ।
सा तस्मिन्पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि ॥ ८ ॥

हिमवत्प्रतिमे राम जटामण्डलगह्वरे ।
सा कथञ्चिन्महीं गन्तुं नाशक्नोद्यत्नमास्थिता ॥ ९ ॥

नैव निर्गमनं लेभे जटामण्डलमोहिता ।
तत्रैवाबम्भ्रमद्देवी संवत्सरगणान्बहून् ॥ १० ॥

तामपश्यन्पुनस्तत्र तपः परममास्थितः ।
अनेन तोषितश्चाभूदत्यर्थं रघुनन्दन ॥ ११ ॥

विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति ।
तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ॥ १२ ॥

ह्लादिनी पावनी चैव नलिनी च तथाऽपरा ।
तिस्रः प्राचीं दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः ॥ १३ ॥

सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी ।
तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ॥ १४ ॥

सप्तमी चान्वगात्तासां भगीरथमथो नृपम् ।
भगीरथोऽपि रजर्षिर्दिव्यं स्यन्दनमास्थितः ॥ १५ ॥

प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् ।
गगनाच्छङ्करशिरस्ततो धरणिमागता ॥ १६ ॥

व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् ।
मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तथा ॥ १७ ॥

पतद्भिः पतितैश्चान्यैर्व्यरोचत वसुन्धरा ।
ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तथा ॥ १८ ॥

व्यलोकयन्त ते तत्र गगनाद्गां गतां तदा ।
विमानैर्नगराकारैर्हयैर्गजवरैस्तदा ॥ १९ ॥

पारिप्लवगतैश्चापि देवतास्तत्र विष्ठिताः ।
तदद्भुततमं लोके गङ्गापतनमुत्तमम् ॥ २० ॥

दिदृक्षवो देवगणाः समीयुरमितौजसः ।
सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा ॥ २१ ॥

शतादित्यमिवाभाति गगनं गततोयदम् ।
शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः ॥ २२ ॥

विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा ।
पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ॥ २३ ॥

शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवैः ।
क्वचिद्द्रुततरं याति कुटिलं क्वचिदायतम् ॥ २४ ॥

विनतं क्वचिदुद्भूतं क्वचिद्याति शनैः शनैः ।
सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ॥ २६ ॥

मुहुरूर्ध्वपथं गत्वा पपात वसुधातलम् ।
[* तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः । *]
व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ॥ २७ ॥

तत्र देवर्षिगन्धर्वा वसुधातलवासिनः ।
भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ॥ २८ ॥

शापात्प्रपतिता ये च गगनाद्वसुधातलम् ।
कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः ॥ २९ ॥

धूतपापाः पुनस्तेन तोयेनाथ सुभास्वता ।
पुनराकाशमाविश्य स्वाँल्लोकान्प्रतिपेदिरे ॥ ३० ॥

मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ।
कृताभिषेको गङ्गायां बभूव विगतक्लमः ॥ ३१ ॥

भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः ।
प्रायादग्रे महातेजास्तं गङ्गा पृष्ठतोऽन्वगात् ॥ ३२ ॥

देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः ।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ ३३ ॥

सर्वाश्चाप्सरसो राम भगीरथरथानुगाम् ।
गङ्गामन्वगमन्प्रीताः सर्वे जलचराश्च ये ॥ ३४ ॥

यतो भगीरथो राजा ततो गङ्गा यशस्विनी ।
जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी ॥ ३५ ॥

ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ।
गङ्गा सम्प्लावयामास यज्ञवाटं महत्मनः ॥ ३६ ॥

तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव ।
अपिबच्च जलं सर्वं गङ्गायाः परमाद्भुतम् ॥ ३७ ॥

ततो देवाः सगन्धर्वा ऋषयश्च सुविस्मिताः ।
पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् ॥ ३८ ॥

गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः ।
ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत्पुनः ॥ ३९ ॥

तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ।
जगाम च पुनर्गङ्गा भगीरथरथानुगा ॥ ४० ॥

सागरं चापि सम्प्राप्ता सा सरित्प्रवरा तदा ।
रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः ॥ ४१ ॥

भगीरथोऽपि राजार्षिर्गङ्गामादाय यत्नतः ।
पितामहान्भस्मकृतानपश्यद्दीनचेतनः ॥ ४२ ॥

अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् ।
प्लावयद्धूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम ॥ ४३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥

बालकाण्ड चतुश्चत्वारिंशः सर्गः (४४) >>


सम्पूर्ण वाल्मीकि रामायणे बालकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed