Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ गङ्गावतरणम् ॥
देवदेवे गते तस्मिन्सोङ्गुष्ठाग्रनिपीडिताम् ।
कृत्वा वसुमतीं राम संवत्सरमुपासत ॥ १ ॥
ऊर्ध्वबाहुर्निरालम्बो वायुभक्षो निराश्रयः ।
अचलः स्थाणुवत्स्थित्वा रात्रिन्दिवमरिन्दम ॥ २ ॥
अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः ।
उमापतिः पशुपती राजानमिदमब्रवीत् ॥ ३ ॥
प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् ।
शिरसा धारयिष्यामि शैलराजसुतामहम् ॥ ४ ॥
ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता ।
तदा सा सुमहद्रूपं कृत्वा वेगं च दुःसहम् ॥ ५ ॥
आकाशादपतद्राम शिवे शिवशिरस्युत ।
अचिन्तयच्च सा देवी गङ्गां परमदुर्धरा ॥ ६ ॥
विशाम्यहं हि पातालं स्रोतसा गृह्य शङ्करम् ।
तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान्हरः ॥ ७ ॥
तिरोभावयितुं बुद्धिं चक्रे त्रिणयनस्तदा ।
सा तस्मिन्पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि ॥ ८ ॥
हिमवत्प्रतिमे राम जटामण्डलगह्वरे ।
सा कथञ्चिन्महीं गन्तुं नाशक्नोद्यत्नमास्थिता ॥ ९ ॥
नैव निर्गमनं लेभे जटामण्डलमोहिता ।
तत्रैवाबम्भ्रमद्देवी संवत्सरगणान्बहून् ॥ १० ॥
तामपश्यन्पुनस्तत्र तपः परममास्थितः ।
अनेन तोषितश्चाभूदत्यर्थं रघुनन्दन ॥ ११ ॥
विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति ।
तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ॥ १२ ॥
ह्लादिनी पावनी चैव नलिनी च तथाऽपरा ।
तिस्रः प्राचीं दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः ॥ १३ ॥
सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी ।
तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ॥ १४ ॥
सप्तमी चान्वगात्तासां भगीरथमथो नृपम् ।
भगीरथोऽपि रजर्षिर्दिव्यं स्यन्दनमास्थितः ॥ १५ ॥
प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् ।
गगनाच्छङ्करशिरस्ततो धरणिमागता ॥ १६ ॥
व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् ।
मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तथा ॥ १७ ॥
पतद्भिः पतितैश्चान्यैर्व्यरोचत वसुन्धरा ।
ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तथा ॥ १८ ॥
व्यलोकयन्त ते तत्र गगनाद्गां गतां तदा ।
विमानैर्नगराकारैर्हयैर्गजवरैस्तदा ॥ १९ ॥
पारिप्लवगतैश्चापि देवतास्तत्र विष्ठिताः ।
तदद्भुततमं लोके गङ्गापतनमुत्तमम् ॥ २० ॥
दिदृक्षवो देवगणाः समीयुरमितौजसः ।
सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा ॥ २१ ॥
शतादित्यमिवाभाति गगनं गततोयदम् ।
शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः ॥ २२ ॥
विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा ।
पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ॥ २३ ॥
शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवैः ।
क्वचिद्द्रुततरं याति कुटिलं क्वचिदायतम् ॥ २४ ॥
विनतं क्वचिदुद्भूतं क्वचिद्याति शनैः शनैः ।
सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ॥ २६ ॥
मुहुरूर्ध्वपथं गत्वा पपात वसुधातलम् ।
[* तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः । *]
व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ॥ २७ ॥
तत्र देवर्षिगन्धर्वा वसुधातलवासिनः ।
भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ॥ २८ ॥
शापात्प्रपतिता ये च गगनाद्वसुधातलम् ।
कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः ॥ २९ ॥
धूतपापाः पुनस्तेन तोयेनाथ सुभास्वता ।
पुनराकाशमाविश्य स्वाँल्लोकान्प्रतिपेदिरे ॥ ३० ॥
मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ।
कृताभिषेको गङ्गायां बभूव विगतक्लमः ॥ ३१ ॥
भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः ।
प्रायादग्रे महातेजास्तं गङ्गा पृष्ठतोऽन्वगात् ॥ ३२ ॥
देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः ।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ ३३ ॥
सर्वाश्चाप्सरसो राम भगीरथरथानुगाम् ।
गङ्गामन्वगमन्प्रीताः सर्वे जलचराश्च ये ॥ ३४ ॥
यतो भगीरथो राजा ततो गङ्गा यशस्विनी ।
जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी ॥ ३५ ॥
ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ।
गङ्गा सम्प्लावयामास यज्ञवाटं महत्मनः ॥ ३६ ॥
तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव ।
अपिबच्च जलं सर्वं गङ्गायाः परमाद्भुतम् ॥ ३७ ॥
ततो देवाः सगन्धर्वा ऋषयश्च सुविस्मिताः ।
पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् ॥ ३८ ॥
गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः ।
ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत्पुनः ॥ ३९ ॥
तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ।
जगाम च पुनर्गङ्गा भगीरथरथानुगा ॥ ४० ॥
सागरं चापि सम्प्राप्ता सा सरित्प्रवरा तदा ।
रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः ॥ ४१ ॥
भगीरथोऽपि राजार्षिर्गङ्गामादाय यत्नतः ।
पितामहान्भस्मकृतानपश्यद्दीनचेतनः ॥ ४२ ॥
अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् ।
प्लावयद्धूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम ॥ ४३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥
बालकाण्ड चतुश्चत्वारिंशः सर्गः (४४) >>
सम्पूर्ण वाल्मीकि रामायणे बालकाण्ड पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.