Balakanda Sarga 44 – बालकाण्ड चतुश्चत्वारिंशः सर्गः (४४)


॥ सागरोद्धारः ॥

स गत्वा सागरं राजा गङ्गयाऽनुगतस्तदा ।
प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥ १ ॥

भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै ।
सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥ २ ॥

तारिता नरशार्दूल दिवं याताश्च देववत् ।
षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥ ३ ॥

सागरस्य जलं लोके यावत् स्थास्यति पार्थिव ।
सगरस्यात्मजास्तावत्स्वर्गे स्थास्यन्ति देववत् ॥ ४ ॥

इयं हि दुहिता ज्येष्ठा तव गङ्गा भविष्यति ।
त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ॥ ५ ॥

गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च ।
[* त्रीन् पथो भावयन्तीति ततस्त्रिपथगा स्मृता । *]
पितामहानां सर्वेषां त्वमेव मनुजाधिप ॥ ६ ॥

कुरुष्व सलिलं राजन्प्रतिज्ञामपवर्जय ।
पूर्वकेण हि ते राजंस्तेनातियशसा तदा ॥ ७ ॥

धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथः ।
तथैवांशुमता तात लोकेऽप्रतिमतेजसा ॥ ८ ॥

गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ।
राजर्षिणा गुणवता महर्षिसमतेजसा ॥ ९ ॥

मत्तुल्यतपसा चैव क्षत्रधर्मे स्थितेन च ।
दिलीपेन महाभाग तव पित्रातितेजसा ॥ १० ॥

पुनर्न शङ्किता नेतुं गङ्गां प्रार्थयताऽनघ ।
सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ ॥ ११ ॥

प्राप्तोऽसि परमं लोके यशः परमसंमतम् ।
यच्च गङ्गावतरणं त्वया कृतमरिन्दम ॥ १२ ॥

अनेन च भवान्प्राप्तो धर्मस्यायतनं महत् ।
प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते ॥ १३ ॥

सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव ।
पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् ॥ १४ ॥

स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ।
इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः ॥ १५ ॥

यथाऽऽगतं तथागच्छद्देवलोकं महायशाः ।
भगीरथोऽपि राजर्षिः कृत्वा सलिलमुत्तमम् ॥ १६ ॥

यथाक्रमं यथान्यायं सागराणां महायशाः ।
कृतोदकः शुची राजा स्वपुरं प्रविवेश ह ॥ १७ ॥

समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह ।
प्रमुमोद च लोकस्तं नृपमासाद्य राघव ॥ १८ ॥

नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ।
एष ते राम गङ्गाया विस्तरोऽभिहितो मया ॥ १९ ॥

स्वस्ति प्राप्नुहि भद्रं ते सन्ध्याकालोऽतिवर्तते ।
धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमतीव च ॥ २० ॥

यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ।
प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च ॥ २१ ॥

इदमाख्यानमव्यग्रो गङ्गावतरणं शुभम् ।
यः शृणोति च काकुत्स्थ सर्वान्कामानवाप्नुयात् ।
सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥

बालकाण्ड पञ्चचत्वारिंशः सर्गः (४५) >>


सम्पूर्ण वाल्मीकि रामायणे बालकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed