Anamaya Stotram – अनामय स्तोत्रम्



तृष्णातन्त्रे मनसि तमसा दुर्दिने बन्धुवर्ती
मादृग्जन्तुः कथमधिकरोत्यैश्वरं ज्योतिरग्र्यम् ।
वाचः स्फीता भगवति हरेस्सन्निकृष्टात्मरूपा-
स्स्तुत्यात्मानस्स्वयमिवमुखादस्य मे निष्पतन्ति ॥ १ ॥

वेधा विष्णुर्वरुणधनदौ वासवो जीवितेश-
श्चन्द्रादित्यौ वसव इति या देवता भिन्नकक्ष्याः ।
मन्ये तासामपि न भजते भारती ते स्वरूपं
स्थूले त्वंशे स्पृशति सदृशं तत्पुनर्मादृशोऽपि ॥ २ ॥

तन्नस्थाणोस्स्तुतिरतिभरा भक्तिरुच्चैर्मुखी चे-
द्ग्राम्यस्तोता भवति पुरुषः कश्चिदारण्यको वा ।
नो चेद्भक्तिस्त्वयि च यदि वा ब्रह्मविद्यात्वधीते
नानुध्येयस्तव पशुरसावात्मकर्मानभिज्ञः ॥ ३ ॥

विश्वं प्रादुर्भवति लभते त्वामधिष्ठायकं चे-
न्नेह्युत्पत्तिर्यदि जनयिता नास्ति चैतन्ययुक्तः ।
क्षित्यादीनां भव निजकलावत्तया जन्मवत्ता
सिध्यत्येवं सति भगवतस्सर्वलोकाधिपत्यम् ॥ ४ ॥

भोग्यामाहुः प्रकृतिमृषयश्चेतनाशक्तिशून्यां
भोक्ता चैनां परिणमयितुं बुद्धिवर्ती समर्थः ।
भोगोप्यस्मिन् भवति मिथुने पुष्कलस्तत्र हेतु-
र्नीलग्रीव त्वमसि भुवनस्थापनासूत्रधारः ॥ ५ ॥

भिन्नावस्थं जगति बहुना देशकालप्रभेदा-
द्द्वाभ्यां पापान्यभिगिरि हरन् योनवद्यः क्रमाभ्याम् ।
प्रेक्ष्यारूढस्सृजति नियमादस्य सर्वं हि यत्त-
त्सर्वज्ञत्वं त्रिभुवन सृजा यत्र सूत्रं न किञ्चित् ॥ ६ ॥

चारूद्रेके रजसि जगतां जन्मसत्वे प्रकृष्टे
यात्रां भूयस्तमसि बहुले बिभ्रतस्संहृतिं च ।
ब्रह्माद्यैतत्प्रकृतिगहनं स्तंभपर्यन्तमासी-
त्क्रीडावस्तु त्रिनयन मनोवृत्तिमात्रानुगं ते ॥ ७ ॥

कृत्तिश्चित्रा निवसनपदे कल्पिता पौण्डरीकी
वासागारं पितृवनभुवं वाहनं कश्चिदुक्षा ।
एवं प्राहुः प्रलघुहृदया यद्यपि स्वार्थपोषं
त्वां प्रत्येकं ध्वनति भगवन्नीश इत्येष शब्दः ॥ ८ ॥

क्लृप्ताकल्पः किमयमशिवैरस्थिमुख्यैः पदार्थैः
कस्स्यादस्य स्तनकलशयोर्भारनम्रा भवानी ।
पाणौ खण्डः परशुरिदमप्यक्षसूत्रं किमस्ये-
त्या चक्षाणो हर कृतधियामस्तु हास्यैकवेद्यः ॥ ९ ॥

यत्कापालव्रतमपि महद्दृष्टमेकान्तघोरं
मुक्तेरध्वा स पुनरमलः पावनः किं न जातः ।
दाक्षायण्यां प्रियतमतया वर्तते योगमाया
सा स्याद्धत्ते मिथुनचरितं वृद्धिमूलं प्रजानाम् ॥ १० ॥

कश्चिन्मर्त्यः क्रतुकृशतनुर्नीलकण्ठ त्वया चे-
द्दृष्टिस्निग्धस्स पुनरमरस्त्रीभुजग्राह्यकण्ठः ।
अप्यारूढस्सुरपरिवृतं स्थानमाखण्डलीयं
त्वं चेत्क्रुद्धस्स पतति निरालंबनो ध्वान्तजाले ॥ ११ ॥

शश्वद्बाल्यं शरवणभवं षण्मुखं द्वादशाक्षं
तेजो यत्ते कनकनलिनीपद्मपत्रावदातम् ।
विस्मार्यन्ते सुरयुवतयस्तेन सेन्द्रावरोधा
दैत्येन्द्राणामसुरजयिनां बन्धनागारवासम् ॥ १२ ॥

वेगाकृष्टग्रहरविशशिव्यश्नुवानं दिगन्ता-
न्न्यक्कुर्वाणं प्रलयपयसामूर्मिभङ्गावलेपम् ।
मुक्ताकारं हर तव जटाबद्धसंस्पर्शि सद्यो
जज्ञे चूडा कुसुमसुभगं वारि भागीरथीयम् ॥ १३ ॥

कल्माषस्ते मरकतशिलाभङ्गकान्तिर्न कण्ठे
न व्याचष्टे भुवनविषयां त्वत्प्रसादप्रवृत्तिम् ।
वारां गर्भस्सहि विषमयो मन्दरक्षोभजन्मा
नैवं रुद्धो यदि न भवति स्थावरं जङ्गमं वा ॥ १४ ॥

सन्धायास्त्रं धनुषि नियमोन्माथि सम्मोहनाख्यं
पार्श्वे तिष्ठन् गिरिशसदृशे पञ्चबाणो मुहूर्तम् ।
तस्मादूर्ध्वं दहनपरिधौ रोषदृष्टि प्रसूते
रक्ताशोकस्तबकित इव प्रान्तधूमद्विरेफः ॥ १५ ॥

लङ्कानाथं लवणजलधिस्थूलवेलोर्मिदीर्घैः
कैलासं ते निलयनगरीं बाहुभिः कम्पयन्तम् ।
आक्रोशद्भिर्वमितरुधिरैराननैराप्लुताक्षै-
रापातालानयदलसाबद्धमङ्गुष्ठकर्म ॥ १६ ॥

ऐश्वर्यं तेऽप्यवृणतपतन्नेकमूर्धावशेषः
पादद्वन्द्वे दशमुखशिरः पुण्डरीकोपहारः ।
येनैवासावधिगतफलो राक्षसश्रीविधेय-
श्चक्रे देवासुरपरिषदो लोकपालैकशत्रुः ॥ १७ ॥

भक्तिर्बाणा सुरमपि भवत्पादपद्मं स्पृशन्तं
स्थानं चन्द्राभरण गमयामास लोकस्य मूर्ध्नि ।
सह्यस्यापि भ्रुकुटिनयनादग्निदंष्ट्राकरालं
द्रष्टुं कश्चिद्वदनमशकद्देवदैत्येश्वरेषु ॥ १८ ॥

पादन्यासान्नमति वसुधा पन्नगस्कन्धलग्ना
बाहुक्षेपाद्ग्रहगणयुतं घूर्णते मेघबृन्दम् ।
उत्साद्यन्ते क्षणमिव दिशो हुङ्कृतेनातिमात्रं
भिन्नावस्थं भवति भुवनं त्वय्युपक्रान्तनृत्ते ॥ १९ ॥

नोर्ध्वं गम्यं सरसिजभुवो नाप्यधश्शार्ङ्गपाणे-
रासीदन्तस्तव हुतवहस्तं भमूर्त्या स्थितस्य ।
भूयस्ताभ्यामुपरि लघुना विस्मयेन स्तुवद्भ्यां
कण्ठे कालं कपिलनयनं रूपमाविर्बभूव ॥ २० ॥

श्लाघ्यां दृष्टिं दुहितरि गिरेर्न्यस्य चापोर्ध्वकोट्यां
कृत्वा बाहुं त्रिपुरविजयानन्तरं ते स्थितस्य ।
मन्दाराणां मधुरसुरभयो वृष्टयः पेतुरार्द्रा-
स्स्वर्गोद्यानभ्रमरवनितादत्तदीर्घानुयाताः ॥ २१ ॥

उद्धृत्यैकं नयनमरुणं स्निग्धतारापरागं
पूर्णेथाद्यः परमसुलभे दुष्कराणां सहस्रे ।
चक्रं भेजे दहनजटिलं दक्षिणं तस्य हस्तं
बालस्येव द्यूतिवलयितं मण्डलं भास्करस्य ॥ २२ ॥

विष्णुश्चक्रे करतलगते विष्टपानां त्रयाणां
दत्ताश्वासो दनुसुतशिरश्छेददीक्षां बबन्ध ।
प्रत्यासन्नं तदपि नयनं पुण्डरीकानुकारि
श्लाघ्या भक्तिस्त्रिनयन भवत्यर्पिता किं न सूते ॥ २३ ॥

सव्ये शूलं त्रिशिखमपरे दोष्णि भिक्षाकपालं
सोमो मुग्धश्शिरसि भुजगः कश्चिदंसोत्तरीयः ।
कोऽयं वेषस्त्रिनयन कुतो दृष्ट इत्यद्रिकन्या
प्रायेण त्वां हसति भगवन् प्रेमनिर्यन्त्रितात्मा ॥ २४ ॥

आर्द्रं नागाजिनमवयवग्रन्थिमद्बिभ्रदंसे
रूपं प्रावृड्घनरुचिमहाभैरवं दर्शयित्वा ।
पश्यन् गौरीं भयचल करालंबित स्कन्धहस्तां
मन्ये प्रीत्या दृढ इति भवान् वज्रदेहेऽपि जातः ॥ २५ ॥

व्यालाकल्पा विषमनयना विद्रुमाताम्रभासो
जायामिश्रा जटिलशिरसश्चन्द्ररेखावतंसाः ।
नित्यानन्दा नियतललितास्स्निग्धकल्माषकण्ठाः
देवा रुद्रा धृतपरशवस्ते भविष्यन्ति भक्ताः ॥ २६ ॥

मन्त्राभ्यासो नियमविधयस्तीर्थयात्रानुरोधो
ग्रामे भिक्षाचरणमुटजे बीजवृत्तिर्वने वा
इत्यायासे महति रमतामप्रगल्भः फलार्थे
स्मृत्वेवाहं तवचरणयोर्निर्वृतिं साधयामि ॥ २७ ॥

आस्तां तावत्स्नपनमुपरिक्षीरधाराप्रवाहै-
स्स्नेहाभ्यङ्गो भवनकरणं गन्धधूपार्पणं वा ।
यस्ते कश्चित्किरति कुसुमान्युद्दिशन् पादपीठं
भूयो नैष भ्रमति जननीगर्भकारागृहेषु ॥ २८ ॥

मुक्ताकारं मुनिभिरनिशं चेतसि ध्यायमानं
मुक्तागौरं शिरसिजटिले जाह्नवीमुद्वहन्तम् ।
नानाकारं नवशशिकलाशेखरं नागहारं
नारीमिश्रं धृतनरतिरोमाल्यमीशं नमामि ॥ २९ ॥

तिर्यग्योनौ त्रिदशनिलये मानुषे राक्षसे वा
यक्षावासे विषधरपुरे देव विद्याधरे वा ।
यस्मिन् कस्मिंत्सुकृतनिलये जन्मनि श्रेयसे वा
भूयाद्युष्मच्चरणकमलध्यायिनी चित्तवृत्तिः ॥ ३० ॥

वन्दे रुद्रं वरदममलं दण्डिनं मुण्डधारिं
दिव्यज्ञानं त्रिपुरदहनं शङ्करं शूलपाणिम् ।
तेजोराशिं त्रिभुवनगुरुं तीर्थमौलिं त्रिनेत्रं
कैलासस्थं धनपतिसखं पार्वतीनाथमीशम् ॥ ३१ ॥

योगी भोगी विषभुगमृतश्शस्त्रपाणिः तपस्वी
शान्तः क्रूरः शमितविषयः शैलकन्यासहायः ।
भिक्षावृत्तिस्त्रिभुवनपतिः शुद्धिमानस्थिमाली
शक्यो ज्ञातुं कथमिव शिव त्वं विरुद्धस्वभावः ॥ ३२ ॥

उपदिशती यदुच्चैर्ज्योतिराम्नायविद्यां
परम परमदूरं दूरमाद्यन्तशून्याम् ।
त्रिपुरजयिनी तस्मिन् देवदेवे निविष्टां
भगवति परिवर्तोन्मादिनी भक्तिरस्तु ॥ ३३ ॥

इति विरचितमेतच्चारुचन्द्रार्धमौले-
र्ललितपदमुदारं दण्डिना पण्डितेन ।
स्तवनमवनकामेनात्मनोऽनामयाख्यं
भवति विगतरोगो जन्तुरेतज्जपेन ॥ ३४ ॥

स्तोत्रं सम्यक्परमविदुषा दण्डिना वाच्यवृत्ता-
न्मन्दाक्रान्तान् त्रिभुवनगुरोः पार्वतीवल्लभस्य ।
कृत्वा स्तोत्रं यदि सुभगमाप्नोति नित्यं हि पुण्यं
तेन व्याधिं हर हर नृणां स्तोत्रपाठेन सत्यम् ॥ ३५ ॥

इति दण्डिविरचितं अनामयस्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Anamaya Stotram – अनामय स्तोत्रम्



  1. Hello, I would just like to confirm if Anamay is Lord Shiva’s name.
    Please reply asap.
    Thanks in advance.

Leave a Reply

error: Not allowed