Yuddha Kanda Sarga 16 – युद्धकाण्ड षोडशः सर्गः (१६)


॥ विभीषणाक्रोशः ॥

सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् ।
अब्रवीत्परुषं वाक्यं रावणः कालचोदितः ॥ १ ॥

वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा ।
न तु मित्रप्रवादेन संवसेच्छत्रुसेविना ॥ २ ॥

जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस ।
हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा ॥ ३ ॥

प्रधानं साधनं वैद्यं धर्मशीलं च राक्षस ।
ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च ॥ ४ ॥

नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः ।
प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः ॥ ५ ॥

श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्वचित् ।
पाशहस्तान्नरान्दृष्ट्वा शृणु तान्गदतो मम ॥ ६ ॥

नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ।
घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥ ७ ॥

उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः ।
कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः ॥ ८ ॥

विद्यते गोषु सम्पन्नं विद्यते ब्राह्मणे दमः ।
विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् ॥ ९ ॥

ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः ।
ऐश्वर्येणाभिजातश्च रिपूणां मूर्ध्नि च स्थितः ॥ १० ॥

यथा पुष्करपर्णेषु पतितास्तोयबिन्दवः ।
न श्लेषमुपगच्छन्ति तथाऽनार्येषु सौहृदम् ॥ ११ ॥ [सङ्गतम्]

यथा मधुकरस्तर्षाद्रसं विन्दन्न विद्यते ।
तथा त्वमपि तत्रैव तथाऽनार्येषु सौहृदम् ॥ १२ ॥

यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः ।
दूषयत्यात्मनो देहं तथाऽनार्येषु सौहृदम् ॥ १३ ॥

यथा शरदि मेघानां सिञ्चतामपि गर्जताम् ।
न भवत्यम्बुसङ्क्लेदस्तथाऽनार्येषु सौहृदम् ॥ १४ ॥

अन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर ।
अस्मिन्मुहूर्ते न भवेत्त्वां तु धिक्कुलपांसनम् ॥ १५ ॥

इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः ।
उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः ॥ १६ ॥

अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः ।
अन्तरिक्षगतः श्रीमान् भ्रातरं राक्षसाधिपम् ॥ १७ ॥

स त्वं भ्राताऽसि मे राजन् ब्रूहि मां यद्यदिच्छसि ।
ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः ॥ १८ ॥

इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव ।
सुनीतं हितकामेन वाक्यमुक्तं दशानन ॥ १९ ॥

न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः ।
सुलभाः पुरुषा राजन्सततं प्रियवादिनः ॥ २० ॥

अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।
बद्धं कालस्य पाशेन सर्वभूतापहारिणा ॥ २१ ॥

न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा ।
दीप्तपावकसङ्काशैः शितैः काञ्चनभूषणैः ॥ २२ ॥

न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः ।
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे ॥ २३ ॥

कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ।
तन्मर्षयतु यच्चोक्तं गुरुत्वाद्धितमिच्छता ॥ २४ ॥

आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् ।
स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना ॥ २५ ॥

नूनं न ते रावण कश्चिदस्ति
रक्षोनिकायेषु सुहृत्सखा वा ।
हितोपदेशस्य स मन्त्रवक्ता
यो वारयेत्त्वां स्वयमेव पापात् ॥ २६ ॥

निवार्यमाणस्य मया हितैषिणा
न रोचते ते वचनं निशाचर ।
परीतकाला हि गतायुषो नरा
हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षोडशः सर्गः ॥ १६ ॥

युद्धकाण्ड सप्तदशः सर्गः (१७) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed