Yuddha Kanda Sarga 130 – युद्धकाण्ड त्रिंशदुत्तरशततमः सर्गः (१३०)


॥ भरतसमागमः ॥

श्रुत्वा तु परमानंदं भरतः सत्यविक्रमः ।
हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा ॥ १ ॥

दैवतानि च सर्वाणि चैत्यानि नगरस्य च ।
सुगंधमाल्यैर्वादित्रैरर्चंतु शुचयॊ नराः ॥ २ ॥

सूताः स्तुतिपुराणज्ञाः सर्वॆ वैतालिकास्तथा ।
सर्वॆ वादित्रकुशला गणकाश्चापि संघशः ॥ ३ ॥

अभिनिर्यांतु रामस्य द्रष्टुं शशिनिभं मुखम् ।
भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा ॥ ४ ॥

विष्टीरनॆकसाहस्राश्चॊदयामास वीर्यवान् ।
समीकुरुत निम्नानि विषमाणि समानि च ॥ ५ ॥

स्थलानि च निरस्यंतां नंदिग्रामादितः परम् ।
सिंचंतु पृथिवीं कृत्स्नां हिमशीतॆन वारिणा ॥ ६ ॥

ततॊऽभ्यवकिरंत्वन्यॆ लाजैः पुष्पैश्च सर्वशः ।
समुच्छ्रितपताकास्तु रथ्याः पुरवरॊत्तमॆ ॥ ७ ॥

शॊभयंतु च वॆश्मानि सूर्यस्यॊदयनं प्रति ।
स्रग्दामभिर्मुक्तपुष्पैः सुगंधैः पंचवर्णकैः ॥ ८ ॥

राजमार्गमसंबाधं किरंतु शतशॊ नराः ।
राजदारास्तथाऽमात्याः सैन्याः सॆनागणांगनाः ॥ ९ ॥

ब्राह्मणाश्च सराजन्याः श्रॆणीमुख्य़ास्तथा गणाः ।
धृष्टिर्जयंतॊ विजयः सिद्धार्थॊ ह्यर्थसाधकः ॥ १० ॥

अशॊकॊ मंत्रपालश्च सुमंत्रश्चापि निर्ययुः ।
मत्तैर्नागसहस्रैश्च शातकुंभविभूषितैः ॥ ११ ॥

अपरॆ हॆमकक्ष्याभिः सगजाभिः करॆणुभिः ।
निर्ययुस्तुरगाक्रांतै रथैश्च सुमहारथाः ॥ १२ ॥

शक्त्युष्टिप्रासहस्तानां सध्वजानां पताकिनाम् ।
तुरगाणां सहस्रैश्च मुख्यैर्मुख्यनरान्वितैः ॥ १३ ॥

पदातीनां सहस्रैश्च वीराः परिवृता ययुः ।
ततॊ यानान्युपारूढाः सर्वा दशरथस्त्रियः ॥ १४ ॥

कौसल्यां प्रमुखॆ कृत्वा सुमित्रां चापि निर्ययुः ।
कैकॆय्या सहिताः सर्वा नंदिग्राममुपागमन् ॥ १५ ॥

कृत्स्नं च नगरं तत्तु नंदिग्राममुपागमत् ।
अश्वानां खुरशब्दॆन रथनॆमिस्वनॆन च ॥ १६ ॥

शंखदुंदुभिनादॆन संचचालॆव मॆदिनी ।
द्विजातिमुख्यैर्धर्मात्मा श्रॆणीमुख्यैः सनैगमैः ॥ १७ ॥

माल्यमॊदकहस्तैश्च मंत्रिभिर्भरतॊ वृतः ।
शंखभॆरीनिनादैश्च वंदिभिश्चाभिवंदितः ॥ १८ ॥

आर्यपादौ गृहीत्वा तु शिरसा धर्मकॊविदः ।
पांडुरं छत्रमादाय शुक्लमाल्यॊपशॊभितम् ॥ १९ ॥

शुक्लॆ च वालव्यजनॆ राजार्हॆ हॆमभूषितॆ ।
उपवासकृशॊ दीनश्चीरकृष्णाजिनांबरः ॥ २० ॥

भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः ।
प्रत्युद्ययौ ततॊ रामं महात्मा सचिवैः सह ॥ २१ ॥

समीक्ष्य भरतॊ वाक्यमुवाच पवनात्मजम् ।
कच्चिन्न खलु कापॆयी सॆव्यतॆ चलचित्तता ॥ २२ ॥

न हि पश्यामि काकुत्स्थं राममार्यं परंतपम् ।
कच्चिन्न खलु दृश्यंतॆ वानराः कामरूपिणः ॥ २३ ॥

अथैवमुक्तॆ वचनॆ हनुमानिदमब्रवीत् ।
अर्थं विज्ञापयन्नॆव भरतं सत्यविक्रमम् ॥ २४ ॥

सदाफलान्कुसुमितान्वृक्षान्प्राप्य मधुस्रवान् ।
भरद्वाजप्रसादॆन मत्तभ्रमरनादितान् ॥ २५ ॥

तस्य चैष वरॊ दत्तॊ वासवॆन परंतप ।
ससैन्यस्य तदाऽऽतिथ्यं कृतं सर्वगुणान्वितम् ॥ २६ ॥

निस्वनः श्रूयतॆ भीमः प्रहृष्टानां वनौकसाम् ।
मन्यॆ वानरसॆना सा नदीं तरति गॊमतीम् ॥ २७ ॥

रजॊवर्षं समुद्धूतं पश्य वालुकिनीं प्रति ।
मन्यॆ सालवनं रम्यं लॊलयंति प्लवंगमाः ॥ २८ ॥

तदॆतद्दृश्यतॆ दूराद्विमलं चंद्रसन्निभम् ।
विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् ॥ २९ ॥

रावणं बांधवैः सार्धं हत्वा लब्धं महात्मना ।
तरुणादित्यसंकाशं विमानं रामवाहनम् ॥ ३० ॥

धनदस्य प्रसादॆन दिव्यमॆतन्मनॊजवम् ।
ऎतस्मिन्भ्रातरौ वीरौ वैदॆह्या सह राघवौ ॥ ३१ ॥

सुग्रीवश्च महातॆजा राक्षसॆंद्रॊ विभीषणः ।
ततॊ हर्षसमुद्भूतॊ निस्वनॊ दिवमस्पृशत् ॥ ३२ ॥

स्त्रीबालयुववृद्धानां रामॊऽयमिति कीर्तितॆ ।
रथकुंजरवाजिभ्यस्तॆऽवतीर्य महीं गताः ॥ ३३ ॥

ददृशुस्तं विमानस्थं नराः सॊममिवांबरॆ ।
प्रांजलिर्भरतॊ भूत्वा प्रहृष्टॊ राघवॊन्मुखः ॥ ३४ ॥

स्वागतॆन यथार्थॆन ततॊ राममपूजयत् ।
मनसा ब्रह्मणा सृष्टॆ विमानॆ भरताग्रजः ॥ ३५ ॥

रराज पृथुदीर्घाक्षॊ वज्रपाणिरिवापरः ।
ततॊ विमानाग्रगतं भरतॊ भ्रातरं तदा ॥ ३६ ॥

ववंदॆ प्रयतॊ रामं मॆरुस्थमिव भास्करम् ।
ततॊ रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ॥ ३७ ॥

हंसयुक्तं महावॆगं निष्पपात महीतलॆ ।
आरॊपितॊ विमानं तद्भरतः सत्यविक्रमः ॥ ३८ ॥

राममासाद्य मुदितः पुनरॆवाभ्यवादयत् ।
तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम् ॥ ३९ ॥

अंकॆ भरतमारॊप्य मुदितः परिषस्वजॆ ।
ततॊ लक्ष्मणमासाद्य वैदॆहीं चाभ्यवादयत् ॥ ४० ॥ [परंतप]

अभिवाद्य ततः प्रीतॊ भरतॊ नाम चाब्रवीत् ।
सुग्रीवं कैकयीपुत्रॊ जांबवंतं तथाऽंगदम् ॥ ४१ ॥

मैंदं च द्विविदं नीलमृषभं परिषस्वजॆ ।
सुषॆणं च नलं चैव गवाक्षं गंधमादनम् ॥ ४२ ॥

शरभं पनसं चैव भरतः परिषस्वजॆ ।
तॆ कृत्वा मानुषं रूपं वानराः कामरूपिणः ॥ ४३ ॥

कुशलं पर्यपृच्छंस्तॆ प्रहृष्टा भरतं तदा ।
अथाब्रवीद्राजपुत्रः सुग्रीवं वानरर्षभम् ॥ ४४ ॥

परिष्वज्य महातॆजा भरतॊ धर्मिणां वरः ।
त्वमस्माकं चतुर्णां तु भ्राता सुग्रीव पंचमः ॥ ४५ ॥

सौहृदाज्जायतॆ मित्रमपकारॊऽरिलक्षणम् ।
विभीषणं च भरतः सांत्ववाक्यमथाब्रवीत् ॥ ४६ ॥

दिष्ट्या त्वया सहायॆन कृतं कर्म सुदुष्करम् ।
शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् ॥ ४७ ॥

सीतायाश्चरणौ पश्चाद्विनयादभ्यवाफ़्दयत् ।
रामॊ मातरमासाद्य विषण्णां शॊककर्शिताम् ॥ ४८ ॥

जग्राह प्रणतः पादौ मनॊ मातुः प्रसादयन् ।
अभिवाद्य सुमित्रां च कैकॆयीं च यशस्विनीं ॥ ४९ ॥

स मातॄश्च ततः सर्वाः पुरॊहितमुपागमत् ।
स्वागतं तॆ महाबाहॊ कौसल्यानंदवर्धन ॥ ५० ॥

इति प्रांजलयः सर्वॆ नागरा राममब्रुवन् ।
तान्यंजलिसहस्राणि प्रगृहीतानि नागरैः ॥ ५१ ॥

व्याकॊशानीव पद्मानि ददर्श भरताग्रजः ।
पादुकॆ तॆ तु रामस्य गृहीत्वा भरतः स्वयम् ॥ ५२ ॥

चरणाभ्यां नरॆंद्रस्य यॊजयामास धर्मवित् ।
अब्रवीच्च तदा रामं भरतः स कृतांजलिः ॥ ५३ ॥

ऎतत्तॆ रक्षितं राजन्राज्यं निर्यातितं मया ।
अद्य जन्म कृतार्थं मॆ संवृत्तश्च मनॊरथः ॥ ५४ ॥

यस्त्वां पश्यामि राजानमयॊध्यां पुनरागतम् ।
अवॆक्षतां भवान्कॊशं कॊष्ठागारं पुरं बलम् ॥ ५५ ॥

भवतस्तॆजसा सर्वं कृतं दशगुणं मया ।
तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् ॥ ५६ ॥

मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः ।
ततः प्रहर्षाद्भरतमंकमारॊप्य राघवः ॥ ५७ ॥

ययौ तॆन विमानॆन ससैन्यॊ भरताश्रमम् ।
भरताश्रममासाद्य ससैन्यॊ राघवस्तदा ॥ ५८ ॥

अवतीर्य विमानाग्रादवतस्थॆ महीतलॆ ।
अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम् ॥ ५९ ॥

वह वैश्रवणं दॆवमनुजानामि गम्यताम् ।
ततॊ रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ।
उत्तरां दिशमागम्य जगाम धनदालयम् ॥ ६० ॥

पुरॊहितस्यात्मसमस्य राघवॊ
बृहस्पतॆः शक्र इवामराधिपः ।
निपीड्य पादौ पृथगासनॆ शुभॆ
सहैव तॆनॊपविवॆश राघवः ॥ ६१ ॥

इत्यार्षॆ श्रीमद्रामायणॆ वाल्मीकीयॆ आदिकाव्यॆ युद्धकांडॆ त्रिंशदुत्तरशततमः सर्गः ॥ १३० ॥

युद्धकाण्ड एकत्रिंशदुत्तरशततमः सर्गः (१३१) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed