Taittiriya Upanishad Shikshavalli – तैत्तिरीयोपनिषत् – १. शीक्षावल्ली

(तै.आ.७-१-१)

ओं श्री गुरुभ्यो नमः । हरिः ओं ॥

ओं शं नो॑ मि॒त्रश्शं वरु॑णः । शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पति॑ः । शं नो॒ विष्णु॑रुरुक्र॒मः ।
नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्ष॒ं ब्रह्मा॑सि ।
त्वमे॒व प्र॒त्यक्ष॒ं ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दिष्यामि ।
स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु ।
अव॑तु॒ माम् । अव॑तु व॒क्तारम्॓ ।
ओं शान्ति॒ः शान्ति॒ः शान्ति॑ः ॥ १ ॥

इति प्रथमोऽनुवाकः ॥

शीक्षां व्या॓ख्यास्या॒मः । वर्ण॒स्स्वरः । मात्रा॒ बलम् ।
साम॑ सन्ता॒नः । इत्युक्तश्शी॓क्षाध्या॒यः ॥ १ ॥

इति द्वितीयोऽनुवाकः ॥

स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसम् ।
अथातस्सग्ंहिताया उपनिषदं व्या॓ख्यास्या॒मः ।
पञ्चस्वधिक॑रणे॒षु ।
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज॑मध्या॒त्मम् ।
ता महासग्ंहिता इ॑त्याच॒क्षते । अथा॑धिलो॒कम् ।
पृथिवी पू॓र्वरू॒पम् । द्यौरुत्त॑ररू॒पम् ।
आका॑शस्स॒न्धिः ॥ १ ॥

वायु॑स्सन्धा॒नम् । इत्य॑धिलो॒कम् । अथा॑धिज्यौ॒तिषम् ।
अग्निः पू॓र्वरू॒पम् । आदित्य उत्त॑ररू॒पम् । आ॑पस्स॒न्धिः ।
वैद्युत॑स्सन्धा॒नम् । इत्य॑धिज्यौ॒तिषम् । अथा॑धिवि॒द्यम् ।
आचार्यः पू॓र्वरू॒पम् ॥ २ ॥

अन्तेवास्युत्त॑ररू॒पम् । वि॑द्या स॒न्धिः ।
प्रवचनग्॑ं सन्धा॒नम् ।
इत्य॑धिवि॒द्यम् । अथाधि॒प्रजम् । माता पू॓र्वरू॒पम् ।
पितोत्त॑ररू॒पम् । प्र॑जा स॒न्धिः । प्रजननग्॑ं सन्धा॒नम् ।
इत्यधि॒प्रजम् ॥ ३ ॥

अथाध्या॒त्मम् । अधरा हनुः पू॓र्वरू॒पम् ।
उत्तरा हनुरुत्त॑ररू॒पम् । वाक्स॒न्धिः । जिह्वा॑ सन्धा॒नम् ।
इत्यध्या॒त्मम् । इतीमा म॑हास॒ग्॒ंहिताः ।
य एवमेता महासग्ंहिता व्याख्या॑ता वे॒द ।
सन्धीयते प्रज॑या प॒शुभिः ।
ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण॑ लोके॒न ॥ ४ ॥

इति तृतीयोऽनुवाकः ॥

यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः ।
छन्दो॒भ्योऽध्य॒मृता॓थ्सं ब॒भूव॑ ।
स मेन्द्रो॑ मे॒धया॓ स्पृणोतु ।
अ॒मृत॑स्य देव॒ धार॑णो भूयासम् ।
शरी॑रं मे॒ विच॑र्षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा ।
कर्णा॓भ्यां भूरि॒ विश्रु॑वम् ।
ब्रह्म॑णः को॒शो॑ऽसि मे॒धयाऽपि॑हितः ।
श्रु॒तं मे॑ गोपाय । आ॒वह॑न्ती वितन्वा॒ना ॥ १ ॥

कु॒र्वा॒णा चीर॑मा॒त्मन॑ः । वासाग्॑ंसि॒ मम॒ गाव॑श्च ।
अ॒न्न॒पा॒ने च॑ सर्व॒दा । ततो॑ मे॒ श्रिय॒माव॑ह ।
लो॒म॒शां प॒शुभि॑स्स॒ह स्वाहा॓ ।
आमा॑ यन्तु ब्रह्मचा॒रिण॒स्स्वाहा॓ ।
विमा॑ऽऽयन्तु ब्रह्मचा॒रिण॒स्स्वाहा॓ ।
प्रमा॑ऽऽयन्तु ब्रह्मचा॒रिण॒स्स्वाहा॓ ।
दमा॑यन्तु ब्रह्मचा॒रिण॒स्स्वाहा॓ ।
शमा॑यन्तु ब्रह्मचा॒रिण॒स्स्वाहा॓ ॥ २ ॥

यशो॒ जने॑ऽसानि॒ स्वाहा॓ । श्रेया॒न्वस्य॑सोऽसानि॒ स्वाहा॓ ।
तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा॓ ।
स मा॑ भग॒ प्रवि॑श॒ स्वाहा॓ ।
तस्मि॓न्थ्स॒हस्र॑शाखे । निभ॑गा॒हं त्वयि॑ मृजे॒ स्वाहा॓ ।
यथाऽऽप॒ः प्रव॑ता॒ऽऽयन्ति॑ । यथा॒ मासा॑ अहर्ज॒रम् ।
ए॒वं मां ब्र॑ह्मचा॒रिण॑ः । धात॒राय॑न्तु स॒र्वत॒स्स्वाहा॓ ।
प्र॒ति॒वे॒शो॑ऽसि॒ प्रमा॑भाहि॒ प्रमा॑पद्यस्व ॥ ३ ॥

इति चतुर्थोऽनुवाकः ॥

भूर्भुव॒स्सुव॒रिति॒ वा ए॒तास्ति॒स्रो व्याहृ॑तयः ।
तासा॑मुहस्मै॒ तां च॑तु॒र्थीम् । माहा॑चमस्य॒ः प्रवे॑दयते ।
मह॒ इति॑ । तद्ब्रह्म॑ । स आ॒त्मा । अङ्गा॓न्य॒न्या दे॒वता॓ः ।
भूरिति॒ वा अ॒यं लो॒कः । भुव॒ इत्य॒न्तरि॑क्षम् ।
सुव॒रित्य॒सौ लो॒कः ॥ १ ॥

मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑ लो॒का मही॑यन्ते ।
भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः ।
मह॒ इति॑ च॒न्द्रमा॓ः ।
च॒न्द्रम॑सा॒ वाव सर्वा॑णि॒ ज्योतीग्॑ंषि॒ मही॑यन्ते । भूरिति॒ वा ऋच॑ः ।
भुव॒ इति॒ सामा॑नि ।
सुव॒रिति॒ यजूग्॑ंषि ॥ २ ॥

मह॒ इति॒ ब्रह्म॑ । ब्रह्म॑णा॒ वाव सर्वे॑ वे॒दा मही॑यन्ते ।
भूरिति॒ वै प्रा॒णः । भुव॒ इत्य॑पा॒नः । सुव॒रिति॑ व्या॒नः ।
मह॒ इत्यन्नम्॓ । अन्ने॑न॒ वाव सर्वे॓ प्रा॒णा मही॑यन्ते ।
ता वा ए॒ताश्चत॑स्रश्चतु॒र्धा । चत॑स्रश्चतस्रो॒ व्याहृ॑तयः ।
ता यो वेद॑ ।
स वे॑द॒ ब्रह्म॑ । सर्वे॓ऽस्मै दे॒वा ब॒लिमाव॑हन्ति ॥ ३ ॥

इति पञ्चमोऽनुवाकः ॥

स य ए॒षो॓ऽन्तरहृ॑दय आका॒शः ।
तस्मि॑न्न॒यं पुरु॑षो मनो॒मय॑ः । अमृ॑तो हिर॒ण्मय॑ः ।
अन्त॑रेण॒ तालु॑के । य ए॒षस्तन॑ इवाव॒लम्ब॑ते । से॓न्द्रयो॒निः ।
यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते । व्य॒पोह्य॑ शीर्षकपा॒ले ।
भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ ॥ १ ॥

सुव॒रित्या॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि । आ॒प्नोति॒ स्वारा॓ज्यम् ।
आ॒प्नोति॒ मन॑स॒स्पतिम्॓ । वाक्प॑ति॒श्चक्षु॑ष्पतिः ।
श्रोत्र॑पतिर्वि॒ज्ञान॑पतिः । ए॒तत्ततो॑ भवति ।
आ॒का॒शश॑रीर॒ं ब्रह्म॑ ।
स॒त्यात्म॑ प्रा॒णारा॑म॒ं मन॑ आनन्दम् ।
शान्ति॑समृद्धम॒मृतम्॓ ।
इति॑ प्राचीन यो॒ग्योपा॓स्स्व ॥ २ ॥

इति षष्ठोऽनुवाकः ॥

पृ॒थि॒व्य॑न्तरि॑क्ष॒ं द्यौर्दिशो॑ऽवान्तरदि॒शाः ।
अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमा॒ नक्ष॑त्राणि ।
आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तम् ।
अथाध्या॒त्मम् । प्रा॒णो व्या॒नो॑ऽपा॒न उ॑दा॒नस्स॑मा॒नः ।
चक्षु॒श्श्रोत्र॒ं मनो॒ वाक्त्वक् ।
चर्म॑मा॒ग्॒ंसग्ग् स्नावास्थि॑ म॒ज्जा ।
ए॒तद॑धिवि॒धाय॒ ऋषि॒रवो॑चत् ।
पाङ्क्त॒ं वा इ॒दग्ं सर्वम्॓ ।
पाङ्क्ते॑नै॒व पाङ्क्तग्ग्॑ स्पृणो॒तीति॑ ॥ १ ॥

इति सप्तमोऽनुवाकः ॥

ओमिति॒ ब्रह्म॑ । ओमिती॒दग्ं सर्वम्॓ ।
ओमित्ये॒तद॑नुकृति ह स्म॒ वा अ॒प्यो श्रा॑व॒येत्याश्रा॑वयन्ति ।
ओमिति॒ सामा॑नि गायन्ति । ओग्ं शोमिति॑ श॒स्त्राणि॑ शग्ंसन्ति ।
ओमित्य॑ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति ।
ओमिति॒ ब्रह्मा॒ प्रसौ॑ति । ओमित्य॑ग्निहो॒त्रमनु॑जानाति ।
ओमिति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपा॓प्नवा॒नीति॑ ।
ब्रह्मै॒वोपा॓प्नोति ॥ १ ॥

इत्यष्टमोऽनुवाकः ॥

ऋतं च स्वाध्यायप्रव॑चने॒ च ।
सत्यं च स्वाध्यायप्रव॑चने॒ च ।
तपश्च स्वाध्यायप्रव॑चने॒ च ।
दमश्च स्वाध्यायप्रव॑चने॒ च ।
शमश्च स्वाध्यायप्रव॑चने॒ च ।
अग्नयश्च स्वाध्यायप्रव॑चने॒ च ।
अग्निहोत्रं च स्वाध्यायप्रव॑चने॒ च ।
अतिथयश्च स्वाध्यायप्रव॑चने॒ च ।
मानुषं च स्वाध्यायप्रव॑चने॒ च ।
प्रजा च स्वाध्यायप्रव॑चने॒ च ।
प्रजनश्च स्वाध्यायप्रव॑चने॒ च ।
प्रजातिश्च स्वाध्यायप्रव॑चने॒ च ।
सत्यमिति सत्यवचा॑ राथी॒तरः ।
तप इति तपोनित्यः पौ॑रुशि॒ष्टिः ।
स्वाध्यायप्रवचने एवेति नाको॑ मौद्ग॒ल्यः ।
तद्धि तप॑स्तद्धि॒ तपः ॥ १ ॥

इति नवमोऽनुवाकः ॥

अ॒हं वृ॒क्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व ।
ऊ॒र्ध्वप॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि ।
द्रवि॑ण॒ग्॒ं सव॑र्चसम् । सुमेधा अ॑मृतो॒क्षितः ।
इति त्रिशङ्कोर्वेदा॑नुव॒चनम् ॥ १ ॥

इति दशमोऽनुवाकः ॥

वेदमनूच्याचार्योऽन्तेवासिनम॑नुशा॒स्ति ।
सत्य॒ं वद । धर्म॒ं चर । स्वाध्याया॓न्मा प्र॒मदः ।
आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्य॑वच्छे॒त्सीः ।
सत्यान्न प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् ।
कुशलान्न प्रम॑दित॒व्यम् । भूत्यै न प्रम॑दित॒व्यम् ।
स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यम् ॥ १ ॥

देवपितृकार्याभ्यां न प्रम॑दित॒व्यम् । मातृ॑देवो॒ भव ।
पितृ॑देवो॒ भव । आचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव ।
यान्यनवद्यानि॑ कर्मा॒णि । तानि सेवि॑तव्या॒नि । नो इ॑तरा॒णि ।
यान्यस्माकग्ं सुच॑रिता॒नि । तानि त्वयो॑पास्या॒नि ॥ २ ॥

नो इ॑तरा॒णि । ये के चारुमच्छ्रेयाग्॑ंसो ब्रा॒ह्मणाः ।
तेषां त्वयाऽऽसने न प्रश्व॑सित॒व्यम् । श्रद्ध॑या दे॒यम् ।
अश्रद्ध॑याऽदे॒यम् । श्रि॑या दे॒यम् । ह्रि॑या दे॒यम् ।
भि॑या दे॒यम् । संवि॑दा दे॒यम् ।
अथ यदि ते कर्मविचिकिथ्सा वा वृत्तविचिकि॑थ्सा वा॒ स्यात् ॥ ३ ॥

ये तत्र ब्राह्मणा॓स्संम॒र्शिनः । युक्ता॑ आयु॒क्ताः ।
अलूक्षा॑ धर्म॑कामा॒स्स्युः । यथा ते॑ तत्र॑ वर्ते॒रन्न् ।
तथा तत्र॑ वर्ते॒थाः । अथाभ्या॓ख्या॒तेषु ।
ये तत्र ब्राह्मणा॓स्संम॒र्शिनः । युक्ता॑ आयु॒क्ताः ।
अलूक्षा॑ धर्मकामा॒स्स्युः । यथा ते॑ तेषु॑ वर्ते॒रन्न् ।
तथा तेषु॑ वर्ते॒थाः । एष॑ आदे॒शः । एष उ॑पदे॒शः ।
एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एवमुपा॑सित॒व्यम् ।
एवमु चैत॑दुपा॒स्यम् ॥ ४ ॥

इत्येकादशऽनुवाकः ॥

शं नो॑ मि॒त्रश्शं वरु॑णः । शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पति॑ः । शं नो॒ विष्णु॑रुरुक्र॒मः ।
नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्ष॒ं ब्रह्मा॑सि ।
त्वामे॒व प्र॒त्यक्ष॒ं ब्रह्मावा॑दिषम् । ऋ॒तम॑वादिषम् ।
स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् ।
आवी॒न्माम् । आवी॓द्व॒क्तारम्॓ ।
ओं शान्ति॒ः शान्ति॒ः शान्ति॑ः ॥ १ ॥

इति द्वादशोऽनुवाकः ॥

॥ इति शीक्षावल्ली समाप्ता ॥

Facebook Comments

You may also like...

error: Download Stotra Nidhi mobile app