Taittiriya Upanishad Brahmanandavalli – तैत्तिरीयोपनिषत् – २. ब्रह्मानन्दवल्ली


ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

(तै।आ।८-१-१)
ब्र॒ह्म॒विदा᳚प्नोति॒ परम्᳚ । तदे॒षाऽभ्यु॑क्ता ।
स॒त्यं ज्ञा॒नम॑न॒न्तं ब्रह्म॑ ।
यो वेद॒ निहि॑तं॒ गुहा॒यां पर॒मे व्यो॑मन् ।
सो᳚ऽश्नु॒ते सर्वा॒न्कामा᳚न्थ्स॒ह । ब्रह्म॑णा विप॒श्चितेति॑ ॥

तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन॑ आका॒शस्सम्भू॑तः । आ॒का॒शाद्वा॒युः ।
वा॒योर॒ग्निः । अ॒ग्नेराप॑: । अ॒द्भ्यः पृ॑थि॒वी ।
पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्योऽन्नम्᳚ । अन्ना॒त्पुरु॑षः ।
स वा एष पुरुषोऽन्न॑रस॒मयः । तस्येद॑मेव॒ शिरः ।
अयं दक्षि॑णः प॒क्षः । अयमुत्त॑रः प॒क्षः ।
अयमात्मा᳚ । इदं पुच्छं॑ प्रति॒ष्ठा ।
तदप्येष श्लो॑को भ॒वति ॥ १ ॥

इति प्रथमोऽनुवाकः ॥

अन्ना॒द्वै प्र॒जाः प्र॒जाय॑न्ते । याः काश्च॑ पृथि॒वीग् श्रि॒ताः ।
अथो॒ अन्ने॑नै॒व जी॑वन्ति । अथै॑न॒दपि॑ यन्त्यन्त॒तः ।
अन्न॒ग्ं॒ हि भू॒तानां॒ ज्येष्ठम्᳚ । तस्मा᳚थ्सर्वौष॒धमु॑च्यते ।
सर्वं॒ वै तेऽन्न॑माप्नुवन्ति । येऽन्नं॒ ब्रह्मो॒पास॑ते ।
अन्न॒ग्ं॒ हि भू॒तानां॒ ज्येष्ठम्᳚ । तस्मा᳚थ्सर्वौष॒धमु॑च्यते ।
अन्ना᳚द्भू॒तानि॒ जाय॑न्ते । जाता॒न्यन्ने॑न वर्धन्ते ।
अद्यतेऽत्ति च॑ भूता॒नि । तस्मादन्नं तदुच्य॑त इ॒ति ।
तस्माद्वा एतस्मादन्न॑रस॒मयात् । अन्योऽन्तर आत्मा᳚ प्राण॒मयः ।
तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व ।
तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः ।
तस्य प्राण॑ एव॒ शिरः । व्यानो दक्षि॑णः प॒क्षः ।
अपान उत्त॑रः प॒क्षः । आका॑श आ॒त्मा ।
पृथिवी पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ १ ॥

इति द्वितीयोऽनुवाकः ॥

प्रा॒णं दे॒वा अनु॒प्राण॑न्ति । म॒नु॒ष्या᳚: प॒शव॑श्च॒ ये ।
प्रा॒णो हि भू॒ताना॒मायु॑: । तस्मा᳚थ्सर्वायु॒षमु॑च्यते ।
सर्व॑मे॒व त॒ आयु॑र्यन्ति । ये प्रा॒णं ब्रह्मो॒पास॑ते ।
प्राणो हि भूता॑नामा॒युः । तस्माथ्सर्वायुषमुच्य॑त इ॒ति ।
तस्यैष एव शारी॑र आ॒त्मा । य॑: पूर्व॒स्य ।
तस्माद्वा एतस्मा᳚त्प्राण॒मयात् । अन्योऽन्तर आत्मा॑ मनो॒मयः ।
तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व ।
तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः ।
तस्य यजु॑रेव॒ शिरः । ऋग्दक्षि॑णः प॒क्षः । सामोत्त॑रः प॒क्षः ।
आदे॑श आ॒त्मा । अथर्वाङ्गिरसः पुच्छं॑ प्रति॒ष्ठा ।
तदप्येष श्लो॑को भ॒वति ॥ १ ॥

इति तृतीयोऽनुवाकः ॥

यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह ।
आनन्दं ब्रह्म॑णो वि॒द्वान् । न बिभेति कदा॑चने॒ति ।
तस्यैष एव शारी॑र आ॒त्मा । य॑: पूर्व॒स्य ।
तस्माद्वा एतस्मा᳚न्मनो॒मयात् । अन्योऽन्तर आत्मा वि॑ज्ञान॒मयः ।
तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व ।
तस्य पुरु॑षवि॒धताम् ।
अन्वयं॑ पुरुष॒विधः । तस्य श्र॑द्धैव॒ शिरः ।
ऋतं दक्षि॑णः प॒क्षः ।
सत्यमुत्त॑रः प॒क्षः । यो॑ग आ॒त्मा । महः पुच्छं॑ प्रति॒ष्ठा ।
तदप्येष श्लो॑को भ॒वति ॥ १ ॥

इति चतुर्थोऽनुवाकः ॥

वि॒ज्ञानं॑ य॒ज्ञं त॑नुते । कर्मा॑णि तनु॒तेऽपि॑ च ।
वि॒ज्ञानं॑ दे॒वास्सर्वे᳚ ।
ब्रह्म॒ ज्येष्ठ॒मुपा॑सते । वि॒ज्ञानं॒ ब्रह्म॒ चेद्वेद॑ ।
तस्मा॒च्चेन्न प्र॒माद्य॑ति । श॒रीरे॑ पाप्म॑नो हि॒त्वा ।
सर्वान्कामान्थ्समश्नु॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा ।
य॑: पूर्व॒स्य । तस्माद्वा एतस्माद्वि॑ज्ञान॒मयात् ।
अन्योऽन्तर आत्मा॑ऽऽनन्द॒मयः । तेनै॑ष पू॒र्णः ।
स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् ।
अन्वयं॑ पुरुष॒विधः । तस्य प्रिय॑मेव॒ शिरः ।
मोदो दक्षि॑णः प॒क्षः ।
प्रमोद उत्त॑रः प॒क्षः । आन॑न्द आ॒त्मा । ब्रह्म पुच्छं॑ प्रति॒ष्ठा ।
तदप्येष श्लो॑को भ॒वति ॥ १ ॥

इति पञ्चमोऽनुवाकः ॥

अस॑न्ने॒व स॑ भवति । अस॒द्ब्रह्मेति॒ वेद॒ चेत् ।
अस्ति ब्रह्मेति॑ चेद्वे॒द । सन्तमेनं ततो वि॑दुरि॒ति ।
तस्यैष एव शारी॑र आ॒त्मा । य॑: पूर्व॒स्य ।
अथातो॑ऽनुप्र॒श्नाः । उ॒तावि॒द्वान॒मुं लो॒कं प्रेत्य॑ ।
कश्च॒न ग॑च्छ॒ती ३ ।
आहो॑ वि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कश्चि॒थ्सम॑श्नु॒ता ३ उ॒ ।
सो॑ऽकामयत । ब॒हुस्यां॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत ।
स तप॑स्त॒प्त्वा । इ॒दग्ं सर्व॑मसृजत । यदि॒दं किञ्च॑ ।
तथ्सृ॒ष्ट्वा । तदे॒वानु॒प्रावि॑शत् । तद॑नु प्र॒विश्य॑ ।
सच्च॒ त्यच्चा॑भवत् ।
नि॒रुक्तं॒ चानि॑रुक्तं च । नि॒लय॑नं॒ चानि॑लयनं च ।
वि॒ज्ञानं॒ चावि॑ज्ञानं च । सत्यं चानृतं च स॑त्यम॒भवत् ।
यदि॑दं कि॒ञ्च । तत्सत्यमि॑त्याच॒क्षते ।
तदप्येष श्लो॑को भ॒वति ॥ १ ॥

इति षष्ठोऽनुवाकः ॥

अस॒द्वा इ॒दमग्र॑ आसीत् । ततो॒ वै सद॑जायत ।
तदात्मानग्ग् स्वय॑मकु॒रुत । तस्मात्तथ्सुकृतमुच्य॑त इ॒ति ।
यद्वै॑ तथ्सु॒कृतम् । र॑सो वै॒ सः ।
रसग्ग् ह्येवायं लब्ध्वाऽऽन॑न्दी भ॒वति ।
को ह्येवान्या᳚त्कः प्रा॒ण्यात् । यदेष आकाश आन॑न्दो न॒ स्यात् ।
एष ह्येवाऽऽन॑न्दया॒ति ।
य॒दा ह्ये॑वैष॒ एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं
प्रति॑ष्ठां वि॒न्दते । अथ सोऽभयं ग॑तो भ॒वति ।
य॒दा ह्ये॑वैष॒ एतस्मिन्नुदरमन्त॑रं कु॒रुते ।
अथ तस्य भ॑यं भ॒वति । तत्त्वेव भयं विदुषोऽम॑न्वान॒स्य ।
तदप्येष श्लो॑को भ॒वति ॥ १ ॥

इति सप्तमोऽनुवाकः ॥

भी॒षाऽस्मा॒द्वात॑: पवते । भी॒षोदे॑ति॒ सूर्य॑: ।
भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च । मृत्युर्धावति पञ्च॑म इ॒ति ।
सैषाऽऽनन्दस्य मीमाग्ं॑सा भ॒वति ।
युवा स्याथ्साधुयु॑वाऽध्या॒यकः ।
आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः ।
तस्येयं पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात् ।
स एको मानुष॑ आन॒न्दः । ते ये शतं मानुषा॑ आन॒न्दाः ॥ १ ॥

स एको मनुष्यगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं मनुष्यगन्धर्वाणा॑मान॒न्दाः ।
स एको देवगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं देवगन्धर्वाणा॑मान॒न्दाः ।
स एकः पितृणां चिरलोकलोकाना॑मान॒न्दः ।
श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं पितृणां चिरलोकलोकाना॑मान॒न्दाः ।
स एक आजानजानां देवाना॑मान॒न्दः ॥ २ ॥

श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतमाजानजानां देवाना॑मान॒न्दाः ।
स एकः कर्मदेवानां देवाना॑मान॒न्दः ।
ये कर्मणा देवान॑पिय॒न्ति । श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं कर्मदेवानां देवाना॑मान॒न्दाः ।
स एको देवाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं देवाना॑मान॒न्दाः । स एक इन्द्र॑स्याऽऽन॒न्दः ॥ ३ ॥

श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमिन्द्र॑स्याऽऽन॒न्दाः ।
स एको बृहस्पते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं बृहस्पते॑रान॒न्दाः । स एकः प्रजापते॑रान॒न्दः ।
श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं प्रजापते॑रान॒न्दाः ।
स एको ब्रह्मण॑ आन॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ ४ ॥

स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एक॑: ।
स य॑ एवं॒वित् । अस्माल्लो॑कात्प्रे॒त्य ।
एतमन्नमयमात्मानमुप॑सङ्क्रा॒मति ।
एतं प्राणमयमात्मानमुप॑सङ्क्रा॒मति ।
एतं मनोमयमात्मानमुप॑सङ्क्रा॒मति ।
एतं विज्ञानमयमात्मानमुप॑सङ्क्रा॒मति ।
एतमानन्दमयमात्मानमुप॑सङ्क्रा॒मति ।
तदप्येष श्लो॑को भ॒वति ॥ ५ ॥

इत्यष्टमोऽनुवाकः ॥

यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह ।
आनन्दं ब्रह्म॑णो वि॒द्वान् ।
न बिभेति कुत॑श्चने॒ति ।
एतग्ं ह वाव॑ न त॒पति ।
किमहग्ं साधु॑ नाक॒रवम् । किमहं पापमकर॑वमि॒ति ।
स य एवं विद्वानेते आत्मा॑नग्ग् स्पृ॒णुते ।
उ॒भे ह्ये॑वैष॒ एते आत्मा॑नग्ग् स्पृ॒णुते । य ए॒वं वेद॑ ।
इत्यु॑प॒निष॑त् ॥ १ ॥

इति नवमोऽनुवाकः ॥

॥ इति ब्रह्मानन्दवल्ली समाप्ता ॥

ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥


గమనిక: "శ్రీ సుబ్రహ్మణ్య స్తోత్రనిధి" పుస్తకం విడుదల అయింది..

Facebook Comments
error: Not allowed
%d bloggers like this: