Taittiriya Upanishad Bhriguvalli – तैत्तिरीयोपनिषत् – ३. भृगुवल्ली


ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

(तै।आ।९।१।१)

भृगु॒र्वै वा॑रु॒णिः । वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तस्मा॑ ए॒तत्प्रो॑वाच ।
अन्नं॑ प्रा॒णं चक्षु॒श्श्रोत्रं॒ मनो॒ वाच॒मिति॑ ।
तग्ं हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
येन॒ जाता॑नि॒ जीव॑न्ति ।
यत्प्रय॑न्त्य॒भिसंवि॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १ ॥

इति प्रथमोऽनुवाकः ॥

अन्नं॒ ब्रह्मेति॒ व्य॑जानात् ।
अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ भुता॑नि॒ जाय॑न्ते ।
अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति ।
अन्नं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १ ॥

इति द्वितीयोऽनुवाकः ॥

प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात् ।
प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति ।
प्रा॒णं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १ ॥

इति तृतीयोऽनुवाकः ॥

मनो॒ ब्रह्मेति॒ व्य॑जानात् ।
मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
मन॑सा॒ जाता॑नि॒ जीव॑न्ति ।
मन॒: प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १ ॥

इति चतुर्थोऽनुवाकः ॥

वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात् ।
वि॒ज्ञाना॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति ।
वि॒ज्ञानं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १ ॥

इति पञ्चमोऽनुवाकः ॥

आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् ।
आ॒नन्दा॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति ।
आ॒न॒न्दं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ ।
सैषा भा᳚र्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒न्प्रति॑ष्ठिता ।
स य ए॒वं वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति ।
म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ ।
म॒हान्की॒र्त्या ॥ १ ॥

इति षष्ठोऽनुवाकः ॥

अन्नं॒ न नि॑न्द्यात् । तद्व्र॒तम् । प्रा॒णो वा अन्नम्᳚ ।
शरी॑रमन्ना॒दम् । प्रा॒णे शरी॑रं॒ प्रति॑ष्ठितम् ।
शरी॑रे प्रा॒णः प्रति॑ष्ठितः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् ।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति ।
अन्न॑वानन्ना॒दो भ॑वति ।
म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ १ ॥

इति सप्तमोऽनुवाकः ॥

अन्नं॒ न परि॑चक्षीत । तद्व्र॒तम् । आपो॒ वा अन्नम्᳚ ।
ज्योति॑रन्ना॒दम् । अ॒प्सु ज्योति॒: प्रति॑ष्ठितम् ।
ज्योति॒ष्याप॒: प्रति॑ष्ठिताः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् ।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति ।
अन्न॑वानन्ना॒दो भ॑वति ।
महा॒न्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ ।
म॒हान्की॒र्त्या ॥ १ ॥

इत्यष्टमोऽनुवाकः ॥

अन्नं॑ ब॒हु कु॑र्वीत । तद्व्र॒तम् । पृ॒थि॒वी वा अन्नम्᳚ ।
आ॒का॒शो᳚ऽन्ना॒दः । पृ॒थि॒व्यामा॑का॒शः प्रति॑ष्ठितः ।
आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता ।
तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् ।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति ।
अन्न॑वानन्ना॒दो भ॑वति ।
म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ ।
म॒हान्की॒र्त्या ॥ १ ॥

इति नवमोऽनुवाकः ॥

न कञ्चन वसतौ प्रत्या॑चक्षी॒त । तद्व्र॒तम् ।
तस्माद्यया कया च विधया बह्व॑न्नं प्रा॒प्नुयात् ।
अराध्यस्मा अन्नमि॑त्याच॒क्षते ।
एतद्वै मुखतो᳚ऽन्नग्ं रा॒द्धम् ।
मुखतोऽस्मा अ॑न्नग्ं रा॒ध्यते ।
एतद्वै मध्यतो᳚ऽन्नग्ं रा॒द्धम् ।
मध्यतोऽस्मा अ॑न्नग्ं रा॒ध्यते ।
एतद्वा अन्ततो᳚ऽन्नग्ं रा॒द्धम् ।
अन्ततोऽस्मा अ॑न्नग्ं रा॒ध्यते ॥ १ ॥

य ए॑वं वे॒द । क्षेम इ॑ति वा॒चि ।
योगक्षेम इति प्रा॑णापा॒नयोः ।
कर्मे॑ति ह॒स्तयोः । गतिरि॑ति पा॒दयोः । विमुक्तिरि॑ति पा॒यौ ।
इति मानुषी᳚स्समा॒ज्ञाः । अथ दै॒वीः । तृप्तिरि॑ति वृ॒ष्टौ ।
बलमि॑ति वि॒द्युति ॥ २ ॥

यश इ॑ति प॒शुषु । ज्योतिरिति न॑क्षत्रे॒षु ।
प्रजातिरमृतमानन्द इ॑त्युप॒स्थे । सर्वमि॑त्याका॒शे ।
तत्प्रतिष्ठेत्यु॑पासी॒त । प्रतिष्ठा॑वान्भ॒वति ।
तन्मह इत्यु॑पासी॒त । म॑हान्भ॒वति । तन्मन इत्यु॑पासी॒त ।
मान॑वान्भ॒वति ॥ ३ ॥

तन्नम इत्यु॑पासी॒त । नम्यन्ते᳚ऽस्मै का॒माः ।
तद्ब्रह्मेत्यु॑पासी॒त । ब्रह्म॑वान्भ॒वति ।
तद्ब्रह्मणः परिमर इत्यु॑पासी॒त ।
पर्येणं म्रियन्ते द्विषन्त॑स्सप॒त्नाः ।
परि ये᳚ऽप्रिया᳚ भ्रातृ॒व्याः ।
स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एक॑: ॥ ४ ॥

स य॑ एवं॒ वित् । अस्माल्लो॑कात्प्रे॒त्य ।
एतमन्नमयमात्मानमुप॑सङ्क्र॒म्य ।
एतं प्राणमयमात्मानमुप॑सङ्क्र॒म्य ।
एतं मनोमयमात्मानमुप॑सङ्क्र॒म्य ।
एतं विज्ञानमयमात्मानमुप॑सङ्क्र॒म्य ।
एतमानन्दमयमात्मानमुप॑सङ्क्र॒म्य ।
इमाँल्लोकन्कामान्नी कामरूप्य॑नुस॒ञ्चरन् ।
एतथ्साम गा॑यन्ना॒स्ते । हा ३ वु॒ हा ३ वु॒ हा ३ वु॑ ॥ ५ ॥

अ॒हमन्नम॒हमन्नम॒हमन्नम् ।
अ॒हमन्ना॒दोऽ॒३हमन्ना॒दोऽ॒३अहमन्ना॒दः ।
अ॒हग्ग् श्लोक॒कृद॒हग्ग् श्लोक॒कृद॒हग्ग् श्लोक॒कृत् ।
अ॒हमस्मि प्रथमजा ऋता३स्य॒ ।
पूर्वं देवेभ्यो अमृतस्य ना३भा॒यि॒ ।
यो मा ददाति स इदेव मा३वा॒: ।
अ॒हमन्न॒मन्न॑म॒दन्त॒मा३द्मि॒ ।
अहं॒ विश्वं॒ भुव॑न॒मभ्य॑भ॒वाम् ।
सुव॒र्न ज्योती᳚: । य ए॒वं वेद॑ । इत्यु॑प॒निष॑त् ॥ ६ ॥

इति दशमोऽनुवाकः ॥

॥ इति भृगुवल्ली समाप्ता ॥

ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed