Sri Tripura Sundari Stotram 2 – श्री त्रिपुरसुन्दरी स्तोत्रम् २


श्वेतपद्मासनारूढां शुद्धस्फटिकसन्निभाम् ।
वन्दे वाग्देवतां ध्यात्वा देवीं त्रिपुरसुन्दरीम् ॥ १ ॥

शैलाधिराजतनयां शङ्करप्रियवल्लभाम् ।
तरुणेन्दुनिभां वन्दे देवीं त्रिपुरसुन्दरीम् ॥ २ ॥

सर्वभूतमनोरम्यां सर्वभूतेषु संस्थिताम् ।
सर्वसम्पत्करीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ३ ॥

पद्मालयां पद्महस्तां पद्मसम्भवसेविताम् ।
पद्मरागनिभां वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ४ ॥

पञ्चबाणधनुर्बाणपाशाङ्कुशधरां शुभाम् ।
पञ्चब्रह्ममयीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ५ ॥

षट्पुण्डरीकनिलयां षडाननसुतामिमाम् ।
षट्कोणान्तःस्थितां वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ६ ॥

हरार्धभागनिलयामम्बामद्रिसुतां मृडाम् ।
हरिप्रियानुजां वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ७ ॥

अष्टैश्वर्यप्रदामम्बामष्टदिक्पालसेविताम् ।
अष्टमूर्तिमयीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ८ ॥

नवमाणिक्यमकुटां नवनाथसुपूजिताम् ।
नवयौवनशोभाढ्यां वन्दे त्रिपुरसुन्दरीम् ॥ ९ ॥

काञ्चीवासमनोरम्यां काञ्चीदामविभूषिताम् ।
काञ्चीपुरीश्वरीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ १० ॥

इति श्री त्रिपुरसुन्दरी स्तोत्रम् ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed