Devi Vaibhava Ashcharya Ashtottara Shatanama Stotram – देवी वैभवाश्चर्याष्टोत्तरशतनाम स्तोत्रम्


[ देवीवैभवाश्चर्याष्टोत्तरशतनामावली >>]

अस्य श्री देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनाम स्तोत्रमहामन्त्रस्य आनन्दभैरव ऋषिः, अनुष्टुप् छन्दः, श्री आनन्दभैरवी श्रीमहात्रिपुरसुन्दरी देवता, ऐं बीजं, ह्रीं शक्तिः, श्रीं कीलकं, मम श्रीआनन्दभैरवी श्रीमहात्रिपुरसुन्दरी प्रसादसिद्ध्यर्थे जपे विनियोगः ।

ध्यानम् ।
कुङ्कुमपङ्कसमाभा-
-मङ्कुशपाशेक्षुकोदण्डशराम् ।
पङ्कजमध्यनिषण्णां
पङ्केरुहलोचनां परां वन्दे ॥

पञ्चपूजा ।
लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै पुष्पैः पूजयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मिकायै सर्वोपचारान् समर्पयामि ॥

ओं ऐं ह्रीं श्रीम् ।
परमानन्दलहरी परचैतन्यदीपिका ।
स्वयम्प्रकाशकिरणा नित्यवैभवशालिनी ॥ १ ॥

विशुद्धकेवलाखण्डसत्यकालात्मरूपिणी ।
आदिमध्यान्तरहिता महामायाविलासिनी ॥ २ ॥

गुणत्रयपरिच्छेत्री सर्वतत्त्वप्रकाशिनी ।
स्त्रीपुंसभावरसिका जगत्सर्गादिलम्पटा ॥ ३ ॥

अशेषनामरूपादिभेदच्छेदरविप्रभा ।
अनादिवासनारूपा वासनोद्यत्प्रपञ्चिका ॥ ४ ॥

प्रपञ्चोपशमप्रौढा चराचरजगन्मयी ।
समस्तजगदाधारा सर्वसञ्जीवनोत्सुका ॥ ५ ॥

भक्तचेतोमयानन्तस्वार्थवैभवविभ्रमा ।
सर्वाकर्षणवश्यादिसर्वकर्मधुरन्धरा ॥ ६ ॥

विज्ञानपरमानन्दविद्या सन्तानसिद्धिदा ।
आयुरारोग्यसौभाग्यबलश्रीकीर्तिभाग्यदा ॥ ७ ॥

धनधान्यमणीवस्त्रभूषालेपनमाल्यदा ।
गृहग्राममहाराज्यसाम्राज्यसुखदायिनी ॥ ८ ॥

सप्ताङ्गशक्तिसम्पूर्णसार्वभौमफलप्रदा ।
ब्रह्मविष्णुशिवेन्द्रादिपदविश्राणनक्षमा ॥ ९ ॥

भुक्तिमुक्तिमहाभक्तिविरक्त्यद्वैतदायिनी ।
निग्रहानुग्रहाध्यक्षा ज्ञाननिर्द्वैतदायिनी ॥ १० ॥

परकायप्रवेशादियोगसिद्धिप्रदायिनी ।
शिष्टसञ्जीवनप्रौढा दुष्टसंहारसिद्धिदा ॥ ११ ॥

लीलाविनिर्मितानेककोटिब्रह्माण्डमण्डला ।
एकानेकात्मिका नानारूपिण्यर्धाङ्गनेश्वरी ॥ १२ ॥

शिवशक्तिमयी नित्यशृङ्गारैकरसप्रिया ।
तुष्टा पुष्टाऽपरिच्छिन्ना नित्ययौवनमोहिनी ॥ १३ ॥

समस्तदेवतारूपा सर्वदेवाधिदेवता ।
देवर्षिपितृसिद्धादियोगिनीभैरवात्मिका ॥ १४ ॥

निधिसिद्धिमणीमुद्रा शस्त्रास्त्रायुधभासुरा ।
छत्रचामरवादित्रपताकाव्यजनाञ्चिता ॥ १५ ॥

हस्त्यश्वरथपादातामात्यसेनासुसेविता ।
पुरोहितकुलाचार्यगुरुशिष्यादिसेविता ॥ १६ ॥

सुधासमुद्रमध्योद्यत्सुरद्रुमनिवासिनी ।
मणिद्वीपान्तरप्रोद्यत्कदम्बवनवासिनी ॥ १७ ॥

चिन्तामणिगृहान्तःस्था मणिमण्टपमध्यगा ।
रत्नसिंहासनप्रोद्यच्छिवमञ्चाधिशायिनी ॥ १८ ॥

सदाशिवमहालिङ्गमूलसङ्घट्‍टयोनिका ।
अन्योन्यालिङ्गसङ्घर्षकण्डूसङ्क्षुब्धमानसा ॥ १९ ॥

कलोद्यद्बिन्दुकालिन्यातुर्यनादपरम्परा ।
नादान्तानन्दसन्दोहस्वयंव्यक्तवचोऽमृता ॥ २० ॥

कामराजमहातन्त्ररहस्याचारदक्षिणा ।
मकारपञ्चकोद्भूतप्रौढान्तोल्लाससुन्दरी ॥ २१ ॥

श्रीचक्रराजनिलया श्रीविद्यामन्त्रविग्रहा ।
अखण्डसच्चिदानन्दशिवशक्त्यैक्यरूपिणी ॥ २२ ॥

त्रिपुरा त्रिपुरेशानी महात्रिपुरसुन्दरी ।
त्रिपुरावासरसिका त्रिपुराश्रीस्वरूपिणी ॥ २३ ॥

महापद्मवनान्तस्था श्रीमत्त्रिपुरमालिनी ।
महात्रिपुरसिद्धाम्बा श्रीमहात्रिपुराम्बिका ॥ २४ ॥

नवचक्रक्रमादेवी महात्रिपुरभैरवी ।
श्रीमाता ललिता बाला राजराजेश्वरी शिवा ॥ २५ ॥

उत्पत्तिस्थितिसंहारक्रमचक्रनिवासिनी ।
अर्धमेर्वात्मचक्रस्था सर्वलोकमहेश्वरी ॥ २६ ॥

वल्मीकपुरमध्यस्था जम्बूवननिवासिनी ।
अरुणाचलशृङ्गस्था व्याघ्रालयनिवासिनी ॥ २७ ॥

श्रीकालहस्तिनिलया काशीपुरनिवासिनी ।
श्रीमत्कैलासनिलया द्वादशान्तमहेश्वरी ॥ २८ ॥

श्रीषोडशान्तमध्यस्था सर्ववेदान्तलक्षिता ।
श्रुतिस्मृतिपुराणेतिहासागमकलेश्वरी ॥ २९ ॥

भूतभौतिकतन्मात्रदेवताप्राणहृन्मयी ।
जीवेश्वरब्रह्मरूपा श्रीगुणाढ्या गुणात्मिका ॥ ३० ॥

अवस्थात्रयनिर्मुक्ता वाग्रमोमामहीमयी ।
गायत्रीभुवनेशानीदुर्गाकाल्यादिरूपिणी ॥ ३१ ॥

मत्स्यकूर्मवराहादिनानारूपविलासिनी ।
महायोगीश्वराराध्या महावीरवरप्रदा ॥ ३२ ॥

सिद्धेश्वरकुलाराध्या श्रीमच्चरणवैभवा ॥ ३३ ॥

पुनर्ध्यानम् –
कुङ्कुमपङ्कसमाभा-
-मङ्कुशपाशेक्षुकोदण्डशराम् ।
पङ्कजमध्यनिषण्णां
पङ्केरुहलोचनां परां वन्दे ॥

इति श्रीगर्भकुलार्णवतन्त्रे देवी वैभवाश्चर्याष्टोत्तरशतनाम स्तोत्रम् ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed