Sri Sudarshana Ashtottara Shatanama Stotram – श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रम्


सुदर्शनश्चक्रराजः तेजोव्यूहो महाद्युतिः ।
सहस्रबाहुर्दीप्ताङ्गः अरुणाक्षः प्रतापवान् ॥ १ ॥

अनेकादित्यसङ्काशः प्रोद्यज्ज्वालाभिरञ्जितः ।
सौदामिनीसहस्राभो मणिकुण्डलशोभितः ॥ २ ॥

पञ्चभूतमनोरूपो षट्कोणान्तरसंस्थितः ।
हरान्तःकरणोद्भूतरोषभीषणविग्रहः ॥ ३ ॥

हरिपाणिलसत्पद्मविहारारमनोहरः ।
श्राकाररूपः सर्वज्ञः सर्वलोकार्चितप्रभुः ॥ ४ ॥

चतुर्दशसहस्रारः चतुर्वेदमयोऽनलः ।
भक्तचान्द्रमसज्योतिः भवरोगविनाशकः ॥ ५ ॥

रेफात्मको मकारश्च रक्षोसृग्रूषिताङ्गकः ।
सर्वदैत्यग्रीवनालविभेदनमहागजः ॥ ६ ॥

भीमदंष्ट्रोज्ज्वलाकारो भीमकर्मा त्रिलोचनः ।
नीलवर्त्मा नित्यसुखो निर्मलश्रीर्निरञ्जनः ॥ ७ ॥

रक्तमाल्याम्बरधरो रक्तचन्दनरूषितः ।
रजोगुणाकृतिः शूरो रक्षःकुलयमोपमः ॥ ८ ॥

नित्यक्षेमकरः प्राज्ञः पाषण्डजनखण्डनः ।
नारायणाज्ञानुवर्ती नैगमान्तःप्रकाशकः ॥ ९ ॥

बलिनन्दनदोर्दण्डखण्डनो विजयाकृतिः ।
मित्रभावी सर्वमयो तमोविध्वंसकस्तथा ॥ १० ॥

रजस्सत्त्वतमोद्वर्ती त्रिगुणात्मा त्रिलोकधृत् ।
हरिमायागुणोपेतो अव्ययोऽक्षस्वरूपभाक् ॥ ११ ॥

परमात्मा परञ्ज्योतिः पञ्चकृत्यपरायणः ।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजःप्रभामयः ॥ १२ ॥

सदसत्परमः पूर्णो वाङ्मयो वरदोऽच्युतः ।
जीवो गुरुर्हंसरूपः पञ्चाशत्पीठरूपकः ॥ १३ ॥

मातृकामण्डलाध्यक्षो मधुध्वंसी मनोमयः ।
बुद्धिरूपश्चित्तसाक्षी सारो हंसाक्षरद्वयः ॥ १४ ॥

मन्त्रयन्त्रप्रभावज्ञो मन्त्रयन्त्रमयो विभुः ।
स्रष्टा क्रियास्पदः शुद्धः आधारश्चक्ररूपकः ॥ १५ ॥

निरायुधो ह्यसंरम्भः सर्वायुधसमन्वितः ।
ओङ्काररूपी पूर्णात्मा आङ्कारःसाध्यबन्धनः ॥ १६ ॥

ऐङ्कारो वाक्प्रदो वाग्मी श्रीङ्कारैश्वर्यवर्धनः ।
क्लीङ्कारमोहनाकारो हुम्फट्‍क्षोभणाकृतिः ॥ १७ ॥

इन्द्रार्चितमनोवेगो धरणीभारनाशकः ।
वीराराध्यो विश्वरूपो वैष्णवो विष्णुरूपकः ॥ १८ ॥

सत्यव्रतः सत्यपरः सत्यधर्मानुषङ्गकः ।
नारायणकृपाव्यूहतेजश्चक्रः सुदर्शनः ॥ १९ ॥

इति श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |
इतर श्री सुदर्शन स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed