Sri Shani Ashtakam (Dasaratha Krutham) – श्री शनैश्चराष्टकम् (दशरथ कृतम्)


दशरथ उवाच ।
कोणोऽन्तको रौद्र यमोऽथ बभ्रुः
कृष्णः शनिः पिङ्गल मन्द सौरिः ।
नित्यं स्मृतो यो हरते च पीडां
तस्मै नमः श्रीरविनन्दनाय ॥ १ ॥

सुरासुरः किम्पुरुषा गणेन्द्रा
गन्धर्वविद्याधरपन्नगाश्च ।
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्रीरविनन्दनाय ॥ २ ॥

नरा नरेन्द्राः पशवो मृगेन्द्रा
वन्याश्च ये कीटपतङ्गभृङ्गाः ।
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्रीरविनन्दनाय ॥ ३ ॥

देशाश्च दुर्गाणि वनानि यत्र
सेनानिवेशाः पुरपत्तनानि ।
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्रीरविनन्दनाय ॥ ४ ॥

तिलैर्यवैर्माषगुडान्नदानै-
-र्लोहेन नीलाम्बरदानतो वा ।
प्रीणाति मन्त्रैर्निजवासरे च
तस्मै नमः श्रीरविनन्दनाय ॥ ५ ॥

प्रयागकूले यमुनातटे च
सरस्वती पुण्यजले गुहायाम् ।
यो योगिनां ध्यानगतोऽपि सूक्ष्म-
-स्तस्मै नमः श्रीरविनन्दनाय ॥ ६ ॥

अन्यप्रदेशात् स्वगृहं प्रविष्ट-
-स्तदीयवारे स नरः सुखी स्यात् ।
गृहाद्गतो यो न पुनः प्रयाति
तस्मै नमः श्रीरविनन्दनाय ॥ ७ ॥

स्रष्टा स्वयम्भूर्भुवनत्रयस्य
त्राता हरिः संहरते पिनाकी ।
एकस्त्रिधा ऋग्यजुः साममूर्ति-
-स्तस्मै नमः श्रीरविनन्दनाय ॥ ८ ॥

शन्यष्टकं यः प्रयतः प्रभाते
नित्यं सुपुत्रैः पशुबान्धवैश्च ।
पठेच्च सौख्यं भुवि भोगयुक्तं
प्राप्नोति निर्वाणपदं परं सः ॥ ९ ॥

इति श्रीदशरथ प्रोक्तं श्री शनैश्चराष्टकम् ॥


इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed