Sri Shani Shodasa Nama Stotram – श्री शनैश्चर षोडशनाम स्तोत्रम्


कोणः शनैश्चरो मन्दः छायाहृदयनन्दनः ।
मार्ताण्डजस्तथा सौरिः पातङ्गी गृहनायकः ॥ १ ॥

अब्राह्मणः क्रूरकर्मा नीलवस्त्राञ्जनद्युतिः ।
कृष्णो धर्मानुजः शान्तः शुष्कोदर वरप्रदः ॥ २ ॥

षोडशैतानि नामानि यः पठेच्च दिने दिने ।
विषमस्थोऽपि भगवान् सुप्रीतस्तस्य जायते ॥ ३ ॥

इति श्री शनैश्चर षोडशनाम स्तोत्रम् ।


इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed