Sri Sabari Giripati Ashtakam – श्री शबरिगिरिपत्यष्टकम्


शबरिगिरिपते भूतनाथ ते
जयतु मङ्गलं मञ्जुलं महः ।
मम हृदिस्थितं ध्वान्तरं तव
नाशयद्विदं स्कन्दसोदर ॥ १ ॥

कान्तगिरिपते कामितार्थदं
कान्तिमत्तव काङ्क्षितं मया ।
दर्शयाद्भुतं शान्तिमन्महः
पूरयार्थितं शबरिविग्रह ॥ २ ॥

पम्पयाञ्चिते परममङ्गले
दुष्टदुर्गमे गहनकानने ।
गिरिशिरोवरे तपसिलालसं
ध्यायतां मनो हृष्यति स्वयम् ॥ ३ ॥

त्वद्दिदृक्षय सञ्चितव्रता-
-स्तुलसिमालिकः कम्रकन्धरा ।
शरणभाषिण शङ्घसोजन
कीर्तयन्ति ते दिव्यवैभवम् ॥ ४ ॥

दुष्टशिक्षणे शिष्टरक्षणे
भक्तकङ्कणे दिशति ते गणे ।
धर्मशास्त्रे त्वयि च जाग्रति
संस्मृते भयं नैव जायते ॥ ५ ॥

पूर्णपुष्कला सेविताऽप्यहो
योगिमानसाम्भोज भास्करः ।
हरिगजादिभिः परिवृतो भवान्
निर्भयः स्वयं भक्तभीहरः ॥ ६ ॥

वाचि वर्ततां दिव्यनाम ते
मनसि सन्ततं तावकं महः ।
श्रवणयोर्भवद्गुणगणावलि-
-र्नयनयोर्भवन्मूर्तिरद्भुताः ॥ ७ ॥

करयुगं मम त्वद्पदार्चने
पदयुगं सदा त्वत्प्रदक्षिणे ।
जीवितं भवन्मूर्तिपूजने
प्रणतमस्तु ते पूर्णकरुणया ॥ ८ ॥

इति श्री शबरिगिरिपत्यष्टकम् ।


इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed