Shani Badha Vimochana Sabareeswara Ashtakam – श्री शबरीश्वराष्टकम् (शनिबाधा विमोचन)


शनिबाधाविनाशाय घोरसन्तापहारिणे ।
काननालयवासाय भूतनाथाय ते नमः ॥ १ ॥

दारिद्र्यजातान् रोगादीन् बुद्धिमान्द्यादि सङ्कटान् ।
क्षिप्रं नाशय हे देवा शनिबाधाविनाशक ॥ २ ॥

भूतबाधा महादुःख मध्यवर्तिनमीश माम् ।
पालय त्वं महाबाहो सर्वदुःखविनाशक ॥ ३ ॥

अवाच्यानि महादुःखान्यमेयानि निरन्तरम् ।
सम्भवन्ति दुरन्तानि तानि नाशय मे प्रभो ॥ ४ ॥

मायामोहान्यनन्तानि सर्वाणि करुणाकर ।
दूरीकुरु सदा भक्तहृदयानन्ददायक ॥ ५ ॥

अनेकजन्मसम्भूतान् तापपापान् गुहेश्वर ।
चूर्णीकुरु कृपासिन्धो सिन्धुजाकान्त सन्तते ॥ ६ ॥

उन्मत्तोद्भूतसन्तापाऽगाधकूपाः महेश्वर ।
हस्तावलम्बं दत्त्वा मां रक्ष रक्ष शनैश्चर ॥ ७ ॥

देहि मे बुद्धिवैशिष्ट्यं देहि मे नित्ययौवनम् ।
देहि मे परमानन्दं देव देव जगत्पते ॥ ८ ॥

इति शनिबाधा विमोचन श्री शबरीश्वराष्टकम् ।


इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed