Sri Matangi Stotram 2 – श्री मातङ्गी स्तोत्रम् 2


मातङ्गीं मधुपानमत्तनयनां मातङ्ग सञ्चारिणीं
कुम्भीकुम्भविवृत्तपीवरकुचां कुम्भादिपात्राञ्चिताम् ।
ध्यायेऽहं मधुमारणैकसहजां ध्यातुः सुपुत्रप्रदां
शर्वाणीं सुरसिद्धसाध्यवनिता संसेविता पादुकाम् ॥ १ ॥

मातङ्गी महिषादिराक्षसकृतध्वान्तैकदीपो मणिः
मन्वादिस्तुत मन्त्रराजविलसत्सद्भक्त चिन्तामणिः ।
श्रीमत्कौलिकदानहास्यरचना चातुर्य राकामणिः
देवि त्वं हृदये वसाद्यमहिमे मद्भाग्य रक्षामणिः ॥ २ ॥

जय देवि विशालाक्षि जय सर्वेश्वरि जय ।
जयाञ्जनगिरिप्रख्ये महादेव प्रियङ्करि ॥ ३ ॥

महाविश्वेशदयिते जय ब्रह्मादि पूजिते ।
पुष्पाञ्जलिं प्रदास्यामि गृहाण कुलनायिके ॥ ४ ॥

जय मातर्महाकृष्णे जय नीलोत्पलप्रभे ।
मनोहारि नमस्तेऽस्तु नमस्तुभ्यं वशङ्करि ॥ ५ ॥

जय सौभाग्यदे नॄणां लोकमोहिनि ते नमः ।
सर्वैश्वर्यप्रदे पुंसां सर्वविद्याप्रदे नमः ॥ ६ ॥

सर्वापदां नाशकरीं सर्वदारिद्र्यनाशिनीम् ।
नमो मातङ्गतनये नमश्चाण्डालि कामदे ॥ ७ ॥

नीलाम्बरे नमस्तुभ्यं नीलालकसमन्विते ।
नमस्तुभ्यं महावाणि महालक्ष्मि नमोऽस्तु ते ॥ ८ ॥

महामातङ्गि पादाब्जं तव नित्यं नमाम्यहम् ।
एतदुक्तं महादेव्या मातङ्ग्याः स्तोत्रमुत्तमम् ॥ ९ ॥

सर्वकामप्रदं नित्यं यः पठेन्मानवोत्तमः ।
विमुक्तः सकलैः पापैः समग्रं पुण्यमश्नुते ॥ १० ॥

राजानो दासतां यान्ति नार्यो दासीत्वमाप्नुयुः ।
दासीभूतं जगत्सर्वं शीघ्रं तस्य भवेद्ध्रुवम् ॥ ११ ॥

महाकवी भवेद्वाग्भिः साक्षाद्वागीश्वरो भवेत् ।
अचलां श्रियमाप्नोति अणिमाद्यष्टकं लभेत् ॥ १२ ॥

लभेन्मनोरथान् सर्वान् त्रैलोक्ये नापि दुर्लभान् ।
अन्ते शिवत्वमाप्नोति नात्र कार्या विचारणा ॥ १३ ॥

इति श्री मातङ्गी स्तोत्रम् ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed