Sri Divakara Panchakam – श्री दिवाकर पञ्चकम्


अतुल्यवीर्यमुग्रतेजसं सुरं
सुकान्तिमिन्द्रियप्रदं सुकान्तिदम् ।
कृपारसैकपूर्णमादिरूपिणं
दिवाकरं सदा भजे सुभास्वरम् ॥ १ ॥

इनं महीपतिं च नित्यसंस्तुतं
कलासुवर्णभूषणं रथस्थितम् ।
अचिन्त्यमात्मरूपिणं ग्रहाश्रयं
दिवाकरं सदा भजे सुभास्वरम् ॥ २ ॥

उषोदयं वसुप्रदं सुवर्चसं
विदिक्प्रकाशकं कविं कृपाकरम् ।
सुशान्तमूर्तिमूर्ध्वगं जगज्ज्वलं
दिवाकरं सदा भजे सुभास्वरम् ॥ ३ ॥

ऋषिप्रपूजितं वरं वियच्चरं
परं प्रभुं सरोरुहस्य वल्लभम् ।
समस्तभूमिपं च तारकापतिं
दिवाकरं सदा भजे सुभास्वरम् ॥ ४ ॥

ग्रहाधिपं गुणान्वितं च निर्जरं
सुखप्रदं शुभाशयं भयापहम् ।
हिरण्यगर्भमुत्तमं च भास्करं
दिवाकरं सदा भजे सुभास्वरम् ॥ ५ ॥

इति श्री दिवाकर पञ्चकम् ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed