Sri Bhaskara Ashtakam – श्री भास्कराष्टकम्


श्रीपद्मिनीशमरुणोज्ज्वलकान्तिमन्तं
मौनीन्द्रवृन्दसुरवन्दितपादपद्मम् ।
नीरेजसम्भवमुकुन्दशिवस्वरूपं
श्रीभास्करं भुवनबान्धवमाश्रयामि ॥ १ ॥

मार्ताण्डमीशमखिलात्मकमंशुमन्त-
-मानन्दरूपमणिमादिकसिद्धिदं च ।
आद्यन्तमध्यरहितं च शिवप्रदं त्वां
श्रीभास्करं नतजनाश्रयमाश्रयामि ॥ २ ॥

सप्ताश्वमभ्रमणिमाश्रितपारिजातं
जाम्बूनदाभमतिनिर्मलदृष्टिदं च ।
दिव्याम्बराभरणभूषितचारुमूर्तिं
श्रीभास्करं ग्रहगणाधिपमाश्रयामि ॥ ३ ॥

पापार्तिरोगभयदुःखहरं शरण्यं
संसारगाढतमसागरतारकं च ।
हंसात्मकं निगमवेद्यमहस्करं त्वां
श्रीभास्करं कमलबान्धवमाश्रयामि ॥ ४ ॥

प्रत्यक्षदैवमचलात्मकमच्युतं च
भक्तप्रियं सकलसाक्षिणमप्रमेयम् ।
सर्वात्मकं सकललोकहरं प्रसन्नं
श्रीभास्करं जगदधीश्वरमाश्रयामि ॥ ५ ॥

ज्योतिस्वरूपमघसञ्चयनाशकं च ।
तापत्रयान्तकमनन्तसुखप्रदं च ।
कालात्मकं ग्रहगणेन सुसेवितं च ।
श्रीभास्करं भुवनरक्षकमाश्रयामि ॥ ६ ॥

सृष्टिस्थितिप्रलयकारणमीश्वरं च
दृष्टिप्रदं परमतुष्टिदमाश्रितानाम् ।
इष्टार्थदं सकलकष्टनिवारकं च
श्रीभास्करं मृगपतीश्वरमाश्रयामि ॥ ७ ॥

आदित्यमार्तजनरक्षकमव्ययं च
छायाधवं कनकरेतसमग्निगर्भम् ।
सूर्यं कृपालुमखिलाश्रयमादिदेवं
लक्ष्मीनृसिंहकविपालकमाश्रयामि ॥ ८ ॥

श्रीभास्कराष्टकमिदं परमं पवित्रं
यत्र श्रुतं च पठितं सततं स्मृतं च ।
तत्र स्थिराणि कमलाप्तकृपाविलासै-
-र्दीर्घायुरर्थबलवीर्यसुतादिकानि ॥ ९ ॥

इति श्री भास्कराष्टकम् ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed