Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अनसूयात्रिसम्भूतो दत्तात्रेयो दिगम्बरः ।
स्मर्तृगामी स्वभक्तानामुद्धर्ता भव सङ्कटात् ॥ १ ॥
दरिद्रविप्रगेहे यः शाकं भुक्त्वोत्तमश्रियम् ।
ददौ श्रीदत्तदेवः स दारिद्र्याच्छ्रीप्रदोऽवतु ॥ २ ॥
दूरीकृत्य पिशाचार्तिं जीवयित्वा मृतं सुतम् ।
योऽभूदभीष्टदः पातु स नः सन्तानवृद्धिकृत् ॥ ३ ॥
जीवयामास भर्तारं मृतं सत्या हि मृत्युहा ।
मृत्युञ्जयः स योगीन्द्रः सौभाग्यं मे प्रयच्छतु ॥ ४ ॥
अत्रेरात्मप्रदानेन यो मुक्तो भगवान् ऋणात् ।
दत्तात्रेयं तमीशानं नमामि ऋणमुक्तये ॥ ५ ॥
जपेच्छ्लोकमिमं देवपित्रर्षिपुन्नृणापहम् ।
सोऽनृणो दत्तकृपया परम्ब्रह्माधिगच्छति ॥ ६ ॥
अत्रिपुत्रो महातेजो दत्तात्रेयो महामुनिः ।
तस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ ७ ॥
नमस्ते भगवन् देव दत्तात्रेय जगत्प्रभो ।
सर्वबाधाप्रशमनं कुरु शान्तिं प्रयच्छ मे ॥ ८ ॥
अनसूयासुत श्रीश जनपातकनाशन ।
दिगम्बर नमो नित्यं तुभ्यं मे वरदो भव ॥ ९ ॥
श्रीविष्णोरवतारोऽयं दत्तात्रेयो दिगम्बरः ।
मालाकमण्डलूच्छूलडमरूशङ्खचक्रधृक् ॥ १० ॥
नमस्ते शारदे देवि सरस्वति मतिप्रदे ।
वस त्वं मम जिह्वाग्रे सर्वविद्याप्रदा भव ॥ ११ ॥
दत्तात्रेयं प्रपद्ये शरणमनुदिनं दीनबन्धुं मुकुन्दं
नैर्गुण्ये सन्निविष्टं पथि परमपदं बोधयन्तं मुनीनाम् ।
भस्माभ्यङ्गं जटाभिः सुललितमुकुटं दिक्पटं दिव्यरूपं
सह्याद्रौ नित्यवासं प्रमुदितममलं सद्गुरुं चारुशीलम् ॥ १२ ॥
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं श्री दत्तात्रेय मन्त्रात्मक श्लोकाः ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.