Sri Datta Prarthana Taravali – श्री दत्त प्रार्थना तारावली


दत्तात्रेय महामाय वेदगेय हतामय ।
अनसूयात्रितनय ममापायं निवारय ॥ १ ॥

नमो नमस्ते जगदेकनाथ
नमो नमस्ते सुपवित्रगाथ ।
नमो नमस्ते जगतामधीश
नमो नमस्तेऽस्तु परावरेश ॥ २ ॥

त्वत्तोऽखिलं जातमिदं हि विश्वं
त्वमेव सर्वं परिपासि विश्वम् ।
त्वं शक्तितो धारयसीह विश्वं
त्वमेव भो संहरसीश विश्वम् ॥ ३ ॥

त्वं जीवरूपेण हि सर्व विश्वं
प्रविश्य सञ्चेष्टयसे न विश्वम् ।
स्वतन्त्रमत्राखिललोकबन्धो
कारुण्यसिन्धो परबोधसिन्धो ॥ ४ ॥

यो ब्रह्मरूपेण सृजत्यशेषं
यो विष्णुरूपेण च पात्यशेषम् ।
यो रुद्ररूपेण च हन्त्यशेषं
दुर्गादिरूपैः शमयत्यशेषम् ॥ ५ ॥

यो देवतारूपधरोऽत्ति भागं
यो वेदरूपोऽपि बिभर्ति यागम् ।
योऽधीशरूपेण ददाति भोगं
यो मौनिरूपेण तनोति योगम् ॥ ६ ॥

गायन्ति यं नित्यमशेषवेदाः
यजन्ति नित्यं मुनयोऽस्तभेदाः ।
ब्रह्मादिदेवा अपि यं नमन्ति
सर्वेऽपि ते लब्धहिता भवन्ति ॥ ७ ॥

यो धर्मसेतून् सुदृढान् बिभर्ति
नैकावतारान् समये बिभर्ति ।
हत्वा खलान् योऽपि सतो बिभर्ति
यो भक्तकार्यं स्वयमातनोति ॥ ८ ॥

स त्वं नूनं देवदेवर्षिगेयो
दत्तात्रेयो भावगम्योऽस्यमेयः ।
ध्येयः सर्वैर्योगिभिः सर्वमान्यः
कोऽन्यस्त्राता तारकोऽधीश धन्यः ॥ ९ ॥

सजलजलदनीलो योऽनसूयात्रिबालो
विनिहतनिजकालो योऽमलो दिव्यलीलः ।
अमलविपुलकीर्तिः सच्चिदानन्दमूर्ति-
-र्हृतनिजभजकार्तिः पात्वसौ दिव्यमूर्तिः ॥ १० ॥

भक्तानां वरदः सतां च परदः पापात्मनां दण्डद-
-स्त्रस्तानामभयप्रदः कृतधियां सन्न्यासिनां मोक्षदः ।
रुग्णानामगदः पराकृतमदः स्वर्गार्थिनां स्वर्गदः
स्वच्छन्दश्च वदोवदः परमुदो दद्यात् स नो बन्धदः ॥ ११ ॥

निजकृपार्द्रकटाक्षनिरीक्षणा-
-द्धरति यो निजदुःखमपि क्षणात् ।
स वरदो वरदोषहरो हरो
जयति यो यतियोगिगतिः परा ॥ १२ ॥

अज्ञः प्राज्ञो भवति भवति न्यस्तधीश्चेत् क्षणेन
प्राज्ञोऽप्यज्ञो भवति भवति व्यस्तधीश्चेत् क्षणेन ।
मर्त्योऽमर्त्यो भवति भवतः सत्कृपावीक्षणेन
धन्यो मान्यस्त्रिजगति समः शम्भुना त्रीक्षणेन ॥ १३ ॥

त्वत्तो भीतो देव वातोऽत्र वाति
त्वत्तो भीतो भास्करोऽत्राप्युदेति ।
त्वत्तो भीतो वर्षतीन्द्रोदवाह-
-स्त्वत्तो भीतोऽग्निस्तथा हव्यवाहः ॥ १४ ॥

भीतस्त्वत्तो धावतीशान्तकोऽत्र
भीतस्त्वत्तोऽन्येऽपि तिष्ठन्ति कोऽत्र ।
मर्त्योऽमर्त्योऽन्येऽपि वा शासनं ते
पाताले वाऽन्यत्र वाऽतिक्रमन्ते ॥ १५ ॥

अग्निरेकं तृणं दग्धुं न शशाक त्वयार्पितम् ।
वातोऽपि तृणमादातुं न शशाक त्वयार्पितम् ॥ १६ ॥

विना तवाज्ञां न च वृक्षपर्णं
चलत्यहो कोऽपि निमेषमेकम् ।
कर्तुं समर्थो भुवने किमर्थं
करोत्यहन्तां मनुजोऽवशस्ताम् ॥ १७ ॥

पाषाणे कृष्णवर्णे कथमपि परितश्छिद्रहीने न जाने
मण्डूकं जीवयस्यप्रतिहतमहिमाचिन्त्यसच्छक्तिजाने ।
काष्ठाश्माद्युत्थवृक्षांस्त्र्युदरकुहरगान् जारवीतांश्च गर्भा-
-न्नूनं विश्वम्भरेशावसि कृतपयसा दन्तहीनांस्तथाऽर्भान् ॥ १८ ॥

करोति सर्वस्य भवानपेक्षा
कथं भवत्तोऽस्य भवेदुपेक्षा ।
अथापि मूढः प्रकरोति तुच्छां
सेवां तवोज्झित्य च जीवितेच्छाम् ॥ १९ ॥

द्वेष्यः प्रियो वा न च तेऽस्ति कश्चित्
त्वं वर्तसे सर्वसमोऽथ दुश्चित् ।
त्वामन्यथा भावयति स्वदोषा-
-न्निर्दोषतायां तव वेदघोषः ॥ २० ॥

गृह्णासि नो कस्यचिदीश पुण्यं
गृह्णासि नो कस्यचिदप्यपुण्यम् ।
क्रियाफलं माऽस्य च कर्तृभावं
सृजस्यविद्वेत्ति न च स्वभावम् ॥ २१ ॥

मातुः शिशोर्दुर्गुणनाशनाय
न ताडने निर्दयता न दोषः ।
तथा नियन्तुर्गुणदोषयोस्ते
न दुष्टहत्याऽदयता न दोषः ॥ २२ ॥

दुर्गादिरूपैर्महिषासुराद्यान्
रामादिरूपैरपि रावणाद्यान् ।
अनेकहिंसादिकपापयुक्तान्
क्रूरान् सदाचारकथावियुक्तान् ॥ २३ ॥

स्वपापनाशार्थमनेककल्पा-
-न्यास्यन्त एतान्निरयानकल्पान् ।
स्वकीयमुक्तौ निजशस्त्रकृत्तान्
कृत्वा भवान् द्यामनयत् सुपूतान् ॥ २४ ॥

याऽपाययत् स्तन्यमिषाद्विषं सा
लेभे गतिं मात्रुचितां दयालुः ।
त्वत्तोपरः को निजकार्यसक्त-
-स्त्वमेव नित्यं ह्यभिमानमुक्तः ॥ २५ ॥

नो कार्यं करणं च ते परगते लिङ्गं कला नापि ते
विज्ञाता त्वदमेय नान्य इति ते तत्त्वं प्रसिद्धं श्रुतेः ।
नेशस्ते जनिताधिकः सम उतान्यः कश्चनास्ति प्रभु-
-र्दत्तात्रेय गुरो निजामरतरो त्वं सत्यमेको विभुः ॥ २६ ॥

भोगार्थं सृजसीति कोऽपि वदति क्रीडार्थमित्थं परे
ते केच्छास्ति समाप्तकाम महिमानं नो विदुर्हीतरे ।
केऽपीदं सदसद्वदन्त्वितरथा वामास्तु मेतत्कथा-
-पन्था मे श्रुतिदर्शितस्तव पदप्राप्त्यै सुखोऽन्ये वृथा ॥ २७ ॥

सोऽनन्यभक्तोऽस्य तु पर्युपासको
नित्याभियुक्तो यमुपैत्यभेदतः ।
तत्प्रीतयेऽसौ भवतात्समर्थना
तारावली तत्पदभक्तिभावना ॥ २८ ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं श्री दत्त प्रार्थना तारावली ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed