Sri Dattatreya Chaturdasa Nama Stotram – श्री दत्तात्रेय चतुर्दशनाम स्तोत्रम्


वरदः कार्तवीर्यादिराजराज्यप्रदोऽनघः ।
विश्वश्लाघ्योऽमिताचारो दत्तात्रेयो मुनीश्वरः ॥ १ ॥

पराशक्तिपदाश्लिष्टो योगानन्दः सदोन्मदः ।
समस्तवैरितेजोहृत् परमामृतसागरः ॥ २ ॥

अनसूयागर्भरत्नं भोगमोक्षसुखप्रदः ।
नामान्येतानि देवस्य चतुर्दश जगद्गुरोः ।
हरेः दत्ताभिधानस्य जप्तव्यानि दिने दिने ॥ ३ ॥

इति श्री दत्तात्रेय चतुर्दशनाम स्तोत्रम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed