Sri Chandra Stotram 4 – श्री चन्द्र स्तोत्रम् – ४


ध्यानम् –
श्वेताम्बरान्वितवपुर्वरशुभ्रवर्णं
श्वेताश्वयुक्तरथगं सुरसेविताङ्घ्रिम् ।
दोर्भ्यां धृताभयगदं वरदं सुधांशुं
श्रीवत्समौक्तिकधरं प्रणमामि चन्द्रम् ॥ १ ॥

आग्नेयभागे सरथो दशाश्व-
-श्चात्रेयजो यामुनदेशजश्च ।
प्रत्यङ्मुखस्थश्चतुरस्रपीठे
गदाधराङ्गो वररोहिणीशः ॥ २ ॥

चन्द्रं चतुर्भुजं देवं केयूरमकुटोज्ज्वलम् ।
वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥ ३ ॥

चन्द्रं च द्विभुजं ज्ञेयं श्वेतवस्त्रधरं विभुम् ।
श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम् ॥ ४ ॥

श्वेतच्छत्रधरं देवं सर्वाभरणभूषितम् ।
एतत् स्तोत्रं पठित्वा तु सर्वसम्पत्करं शुभम् ॥ ५ ॥

फलश्रुतिः –
क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् ।
इदं निशाकरस्तोत्रं यः पठेत् सततं नरः ।
सोपद्रवात् प्रमुच्येत नात्र कार्या विचारणा ॥ ६ ॥

इति श्रीब्रह्माण्डपुराणे उमामहेश्वरसंवादे निशाकर स्तोत्रम् ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed