Navagraha Swaroopa Varnanam – नवग्रह स्वरूप वर्णनम्


शिव उवाच ।
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।
सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात् सदा रविः ॥ १ ॥

श्वेतः श्वेताम्बरधरः श्वेताश्वः श्वेतवाहनः ।
गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ॥ २ ॥

रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः ।
चतुर्भुजः रक्तरोमा वरदः स्याद्धरासुतः ॥ ३ ॥

पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः ।
खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ ३ ॥

देवदैत्यगुरू तद्वत्पीतश्वेतौ चतुर्भुजौ ।
दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥ ५ ॥

इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।
बाणबाणासनधरः कर्तव्योऽर्कसुतस्तथा ॥ ६ ॥

करालवदनः खड्गचर्मशूली वरप्रदः ।
नीलसिंहासनस्थश्च राहुरत्र प्रशस्यते ॥ ७ ॥

धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः ।
गृध्रासनगता नित्यं केतवः स्युर्वरप्रदाः ॥ ८ ॥

सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः ।
ह्यङ्गुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदा ॥ ९ ॥

इति श्रीमत्स्ये महापुराणे ग्रहरूपाख्यानं नाम चतुर्णवतितमोऽध्यायः ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed