Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यानम् –
श्वेताम्बरोज्ज्वलतनुं सितमाल्यगन्धं
श्वेताश्वयुक्तरथगं सुरसेविताङ्घ्रिम् ।
दोर्भ्यां धृताभयगदं वरदं सुधांशुं
श्रीवत्समौक्तिकधरं प्रणमामि चन्द्रम् ॥ १ ॥
आग्नेयभागे सरथो दशाश्व-
-श्चात्रेयजो यामुनदेशजश्च ।
प्रत्यङ्मुखस्थश्चतुरश्रपीठे
गदाधरो नोऽवतु रोहिणीशः ॥ २ ॥
अथ स्तोत्रम् –
चन्द्रं नमामि वरदं शङ्करस्य विभूषणम् ।
कलानिधिं कान्तिरूपं केयूरमकुटोज्ज्वलम् ॥ ३ ॥
वरदं वन्द्यचरणं वासुदेवस्य लोचनम् ।
वसुधाह्लादनकरं विधुं तं प्रणमाम्यहम् ॥ ४ ॥
श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम् ।
श्वेतच्छत्रोल्लसन्मौलिं शशिनं प्रणमाम्यहम् ॥ ५ ॥
सर्वं जगज्जीवयसि सुधारसमयैः करैः ।
सोम देहि ममारोग्यं सुधापूरितमण्डलम् ॥ ६ ॥
राजा त्वं ब्राह्मणानां च रमाया अपि सोदरः ।
राजा नाथश्चौषधीनां रक्ष मां रजनीकर ॥ ७ ॥
शङ्करस्य शिरोरत्नं शार्ङ्गिणश्च विलोचनम् ।
तारकाणामधीशस्त्वं तारयाऽस्मान्महापदः ॥ ८ ॥
कल्याणमूर्ते वरद करुणारसवारिधे ।
कलशोदधिसञ्जातकलानाथ कृपां कुरु ॥ ९ ॥
क्षीरार्णवसमुद्भूत चिन्तामणिसहोद्भव ।
कामितार्थान् प्रदेहि त्वं कल्पद्रुमसहोदर ॥ १० ॥
श्वेताम्बरः श्वेतविभूषणाढ्यो
गदाधरः श्वेतरुचिर्द्विबाहुः ।
चन्द्रः सुधात्मा वरदः किरीटी
श्रेयांसि मह्यं प्रददातु देवः ॥ ११ ॥
इदं निशाकरस्तोत्रं यः पठेत् प्रत्यहं नरः ।
उपद्रवात् स मुच्येत नात्र कार्या विचारणा ॥ १२ ॥
इति श्री चन्द्र स्तोत्रम् ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.